🪷 सुन्दरकाण्ड · Sarga 3

Sundara-Kāṇḍa · The Book of Beauty · Sarga 3 · 51 ślokas

Vālmīki Detail Source-Anchor Spine

This sarga page exposes the exact local source route, parent Kāṇḍa, Rāma janma proof anchors where applicable, and the wider Vālmīki/Rāma source spine.

Vālmīki 5.3local sarga route with all Sanskrit ślokasSundara-Kāṇḍaparent Kāṇḍa sarga index/valmiki-ramayanamaster index for the 7 Kāṇḍas and 22,742 ślokasBāla 1.18Rāma-janma sarga and primary birth-spec anchorVālmīki 1.18.8first Rāma-janma astronomical śloka routeVālmīki 1.18.15closing verse of the janma-spec rangeVālmīki 2.26.9Bṛhaspati-Puṣya coronation-eve witness routeVālmīki 6.93.65war-window Krishna-pakṣa timing witnessVālmīki 6.103Rāvaṇa-vadha anchor doorway for the year+41 witness/ramaRāma-Krishna non-dual singularity and three-anchor proof surface/chart/ramapublished Rāma janma-kuṇḍalī output for the 1,626,102 BCE claimRāma janma dayreader-visible pañchāṅga/day output for the birth anchor/computational-moatSūrya-Siddhānta deep-time verification boundary/festival/rama-navamiCaitra Śukla Navamī festival mūrti-page/ramcharitamanasTulsidās bhakti voice of the same Rāma-līlāRāmopākhyānaVyāsa's Rāma-kathā inside the Mahābhārata/binduDiamond of Darśanas · Rāma/Krishna as one Bindu aperture/philosophyConstitutional Principles and Rāma-Krishna recognition

🪷 The Ślokas · canonical Devanāgarī Sanskrit yathārtha

Vālmīki 5.3.1
स लम्ब शिखरे लम्बे लम्ब तोयद सम्निभे ।सत्त्वम् आस्थाय मेधावी हनुमान् मारुत आत्मजः ॥५-३-१॥
Vālmīki 5.3.2
निशि लन्काम् महा सत्त्वः विवेश कपि कुन्जरः ।रम्य कानन तोय आढ्याम् पुरीम् रावण पालिताम् ॥५-३-२॥
Vālmīki 5.3.3
शारद अम्बु धर प्रख्यैः भवनैः उपशोभिताम् ।सागर उपम निर्घोषाम् सागर अनिल सेविताम् ॥५-३-३॥
Vālmīki 5.3.4
सुपुष्ट बल सम्गुप्ताम् यथैव विटपावतीम् ।चारु तोरण निर्यूहाम् पाण्डुर द्वार तोरणाम्॥५-३-४॥
Vālmīki 5.3.5
भुजग आचरिताम् गुप्ताम् शुभाम् भोगवतीम् इव ।ताम् सविद्युत् घन आकीर्णाम् ज्योतिः मार्ग निषेविताम् ॥५-३-५॥
Vālmīki 5.3.6
चण्ड मारुत निर्ह्रादाम् यथा इन्द्रस्य अमरावतीम् ।शातकुम्भेन महता प्राकारेण अभिसम्वृताम् ॥५-३-६॥
Vālmīki 5.3.7
किन्किणी जाल घोषाभिः पताकाभिः अलम्कृताम् ।आसाद्य सहसा हृष्टः प्राकारम् अभिपेदिवान् ॥५-३-७॥
Vālmīki 5.3.8
विस्मय आविष्ट हृदयः पुरीम् आलोक्य सर्वतः ।जाम्बूनदमयैः द्वारैः वैदूर्य कृत वेदिकैः ॥५-३-८॥
Vālmīki 5.3.9
मणि स्फटिक मुक्ताभिः मणि कुट्टिम भूषितैः ।तप्त हाटक निर्यूहैः राजत अमल पाण्डुरैः ॥५-३-९॥
Vālmīki 5.3.10
वैदूर्य तल सोपानैः स्फाटिक अन्तर पाम्सुभिः ।चारु सम्जवन उपेतैः खम् इव उत्पतितैः शुभैः ॥५-३-१०॥
Vālmīki 5.3.11
क्रौन्च बर्हिण सम्घुष्टे राज हम्स निषेवितैः ।तूर्य आभरण निर्घोषैः सर्वतः प्रतिनादिताम् ॥५-३-११॥
Vālmīki 5.3.12
वस्वोकसारा प्रतिमाम् समीक्ष्य नगरीम् ततः ।खम् इव उत्पतिताम् लन्काम् जहर्ष हनुमान् कपिः ॥५-३-१२॥
Vālmīki 5.3.13
ताम् समीक्ष्य पुरीम् लन्काम् राक्षस अधिपतेः शुभाम् ।अनुत्तमाम् ऋद्धि युताम् चिन्तयाम् आस वीर्यवान् ॥५-३-१३॥
Vālmīki 5.3.14
न इयम् अन्येन नगरी शक्या धर्षयितुम् बलात् ।रक्षिता रावण बलैः उद्यत आयुध धारिभिः ॥५-३-१४॥
Vālmīki 5.3.15
कुमुद अन्गदयोः वा अपि सुषेणस्य महा कपेः ।प्रसिद्धा इयम् भवेत् भूमिः मैन्द द्विविदयोः अपि ॥५-३-१५॥
Vālmīki 5.3.16
विवस्वतः तनूजस्य हरेः च कुश पर्वणः ।ऋक्षस्य केतु मालस्य मम चैव गतिः भवेत् ॥५-३-१६॥
Vālmīki 5.3.17
समीक्ष्य तु महा बाहः राघवस्य पराक्रमम् ।लक्ष्मणस्य च विक्रान्तम् अभवत् प्रीतिमान् कपिः ॥५-३-१७॥
Vālmīki 5.3.18
ताम् रत्न वसन उपेताम् कोष्ठ आगार अवतम्सकाम् ।यन्त्र अगार स्तनीम् ऋद्धाम् प्रमदाम् इव भूषिताम् ॥५-३-१८॥
Vālmīki 5.3.19
ताम् नष्ट तिमिराम् दीपैः भास्वरैः च महा गृहैः ।नगरीम् राक्षस इन्द्रस्य ददर्श स महा कपिः ॥५-३-१९॥
Vālmīki 5.3.20
अथ सा हरिशार्दूलम् प्रविशन्तिम् महाबलम् ।नगरी स्वेन रूपेण ददर्श पवनात्मजम् ॥५-३-२०॥
Vālmīki 5.3.21
सा तम् हरिवरम् दृष्ट्वा लङ्का रावणपालिता ।स्वयमेवोत्थिता तत्र विकृताननदर्शना ॥५-३-२१॥
Vālmīki 5.3.22
पुरस्तत्क पिवर्यस्य वायुसूनोरतिष्ठत ।मुञ्चमाना महानादमब्रवीत्पवनात्मजम् ॥५-३-२२॥
Vālmīki 5.3.23
कस्त्वम् केन च कार्येण इह प्राप्तो वनालय ।कथय स्वेह यत्तत्त्वम् यावत्प्राणा धरन्ति ते ॥५-३-२३॥
Vālmīki 5.3.24
न शक्यम् खल्वियम् लङ्का प्रवेष्टुम् वानर त्वया ।रक्षिता रावणबलैरभिगुप्ता समन्ततः ॥५-३-२४॥
Vālmīki 5.3.25
अथ तामब्रवीद्वीरो हनुमानग्रतः स्थिताम् ।कथयिष्यामि ते तत्त्वम् यन्मम् त्वम् परिपृच्छसि ॥५-३-२५॥
Vālmīki 5.3.26
का त्वम् विरूपनयना पुरद्वारेऽवतिष्ठसि ।किमर्थम् चापि माम् रुद्ध्वा निर्भर्त्सयसि दारुणा ॥५-३-२६॥
Vālmīki 5.3.27
हनुमद्वचनम् श्रुत्वा लङ्का सा कामरूपिणी ।उवाच वचनम् क्रुद्धा परुषं पवनात्मजम् ॥५-३-२७॥
Vālmīki 5.3.28
अहम् राक्षसराजस्य रावणस्य महात्मनः ।आज्ञाप्रतीक्षा दुर्धर्षा रक्षामि नगरीमिमाम् ॥५-३-२८॥
Vālmīki 5.3.29
न शक्या मामवज्ञाय प्रवेष्टुम् नगरी त्वया ।अद्य प्राणैः परित्यक्तः स्वप्स्यसे निहतो मया ॥५-३-२९॥
Vālmīki 5.3.30
अहम् हि नगरी लङ्का स्वयमेव प्लवङ्गम ।सर्वतः परिरक्षामि ह्येतत्ते कथितम् मया ॥५-३-३०॥
Vālmīki 5.3.31
लङ्काया वचनम् श्रुत्वा हनुमान् मारुतात्मजः ।यत्नवान्स हरिश्रेष्ठः स्थितश्शैल इवापरः ॥५-३-३१॥
Vālmīki 5.3.32
स ताम् स्त्रीरूपविकृताम् दृष्ट्वा वानरपुङ्गवः ।आबभाषेऽथ मेधावि सत्त्वान् प्लवगर्षभः ॥५-३-३२॥
Vālmīki 5.3.33
द्रक्ष्यामि नगरीम् लङ्काम् साट्टप्राकारतोरणाम् ।इत्यर्थमिह सम्प्राप्तः परम् कौतूहलम् हि मे ॥५-३-३३॥
Vālmīki 5.3.34
वनान्युपवनानीह लङ्कायाः काननानि च ।सर्वतो गृहमुख्यानि द्रष्टुमागमनम् हि मे ॥५-३-३४॥
Vālmīki 5.3.35
तस्य तद्वचनम् श्रुत्वा लङ्का सा कामरूपिणी ।भूय एव पुनर्वाक्यम् बभाषे परुषाक्षरम् ॥५-३-३५॥
Vālmīki 5.3.36
मामनिर्जत्य दुर्बद्धे राक्षसेश्वरपालिता ।न शक्यमद्य ते द्रष्टुम् पुरीयम् वनराधम ॥५-३-३६॥
Vālmīki 5.3.37
ततः स कपिशार्दूलस्तामुवाच निशाचरीम् ।दृष्वा पुरीमिमाम् भद्रे पुनर्यास्ये यथागतम् ॥५-३-३७॥
Vālmīki 5.3.38
ततः कृत्वा महानादम् सा वै लङ्का भयावहम् ।तलेन वानरश्रेष्ठम् ताडयामास वेगिता ॥५-३-३८॥
Vālmīki 5.3.39
ततः स कपिशार्दुलो लङ्काया ताडितो भृशम् ।ननाद सुमहानादम् वीर्यवान् पवनात्मजः ॥५-३-३९॥
Vālmīki 5.3.40
ततः सम्वर्तयामास वामहस्तस्य सोऽङ्गुLईः ।मुष्ह्टिनाभिजघूनैनाम् हनुमान् क्रोधमूर्चितः ॥५-३-४०॥
Vālmīki 5.3.41
स्त्री चेति मन्यमानेन नातिक्रोधः स्वयम् कृतः ।सा तु तेन प्रहारेण विह्वलाङ्गी नीशाचरी ॥५-३-४१॥
Vālmīki 5.3.42
पपात सहसा भूमौ विकृताननदर्शना ।ततस्तु हनुमान् प्राज्ञस्ताम् दृष्ट्वा विनिपातिताम् ॥५-३-४२॥
Vālmīki 5.3.43
कृपाम् चकार तेजस्वी मन्यमानः स्त्रियम् तु ताम् ।ततो वै भृशसम्विग्ना लङ्का गद्गदाक्षरम् ॥५-३-४३॥
Vālmīki 5.3.44
उवाचागर्वितम् वाक्यम् हनूमन्तम् प्लवङ्गमम् ।प्रसीद सुमहाबाहो त्रायस्व हरिसत्तम ॥५-३-४४॥
Vālmīki 5.3.45
समये सौम्य तिष्ठन्ति स्त्त्ववन्तो महाबलाः ।अहं तु नगरी लङ्का स्वयमेव प्लवङ्गम ॥५-३-४५॥
Vālmīki 5.3.46
निर्जिताहम् त्वया वीर विक्रमेण महाबल ।इदम् तु तथ्यम् शृणु वै ब्रुवन्त्य मे हरीश्वर ॥५-३-४६॥
Vālmīki 5.3.47
स्वयम्भुवा पुरा दत्तम् वरदानम् यथा मम ।यदा त्वाम् वानरः कश्चिद्विक्रमाद्वशमानयेत् ॥५-३-४७॥
Vālmīki 5.3.48
तदा त्वया हि विज्ञेयम् रक्षसाम् भयामागतम् ।स हि म् समयः सौम्य प्राप्तोऽय तव द्र्शनात् ॥५-३-४८॥
Vālmīki 5.3.49
स्वयम्भूविहितः सत्यो न तस्यास्ति व्यतिक्रमः ।सीतानिमित्तंम् राज्ञस्तु रावणस्य दुरात्मनः ॥५-३-४९॥
Vālmīki 5.3.50
विधत्स्व सर्वकार्याणि यानि यानिह वाञ्चसि ।तत्प्रविश्य हरिश्रेष्ठम् पुरीम् रावणपालिताम् ॥५-३-५०॥
Vālmīki 5.3.51
विधत्स्व सर्वकार्याण् यानि यानीह वाञ्चसि ।प्रविश्य शापोपहताम् हरीश्वर ।शुभाम् पुरीम् राक्षसराजपालिताम् ।यदृच्छया त्वम् जनकात्मजाम् सतीम् ।विमार्ग सर्वत्र गतो यथासुखम् ॥५-३-५१॥

Navigation

🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷