🪷 सुन्दरकाण्ड · Sarga 2
Sundara-Kāṇḍa · The Book of Beauty · Sarga 2 · 58 ślokas
Vālmīki Detail Source-Anchor Spine
This sarga page exposes the exact local source route, parent Kāṇḍa, Rāma janma proof anchors where applicable, and the wider Vālmīki/Rāma source spine.
Vālmīki 5.2local sarga route with all Sanskrit ślokasSundara-Kāṇḍaparent Kāṇḍa sarga index/valmiki-ramayanamaster index for the 7 Kāṇḍas and 22,742 ślokasBāla 1.18Rāma-janma sarga and primary birth-spec anchorVālmīki 1.18.8first Rāma-janma astronomical śloka routeVālmīki 1.18.15closing verse of the janma-spec rangeVālmīki 2.26.9Bṛhaspati-Puṣya coronation-eve witness routeVālmīki 6.93.65war-window Krishna-pakṣa timing witnessVālmīki 6.103Rāvaṇa-vadha anchor doorway for the year+41 witness/ramaRāma-Krishna non-dual singularity and three-anchor proof surface/chart/ramapublished Rāma janma-kuṇḍalī output for the 1,626,102 BCE claimRāma janma dayreader-visible pañchāṅga/day output for the birth anchor/computational-moatSūrya-Siddhānta deep-time verification boundary/festival/rama-navamiCaitra Śukla Navamī festival mūrti-page/ramcharitamanasTulsidās bhakti voice of the same Rāma-līlāRāmopākhyānaVyāsa's Rāma-kathā inside the Mahābhārata/binduDiamond of Darśanas · Rāma/Krishna as one Bindu aperture/philosophyConstitutional Principles and Rāma-Krishna recognition
🪷 The Ślokas · canonical Devanāgarī Sanskrit yathārtha
स सागरमनाधृष्यमतिक्रम्य महाबलः ।त्रिकूटशिखरे लङ्कां स्थितां स्वस्थो ददर्श ह ॥५-२-१॥
ततः पादपमुक्तेन पुष्पवर्षेण वीर्यवान् ।अभिवृष्टः स्थितस्तत्र बभौ पुष्पमयो यथा ॥५-२-२॥
योजनानां शतं श्रीमांस्तीर्त्वाप्युत्तमविक्रमः ।अनिःस्वसन् कपिस्तत्र न ग्लानिमधिगच्छति ॥५-२-३॥
शतान्यहं योजनानां क्रमेयं सुबहुन्यपि ।किं पुनः सागरस्यान्तं संख्यातं शतयोजनम् ॥५-२-४॥
स तु वीर्यवतां श्रेष्ठः प्लवतामपि चोत्तमः ।जगाम वेगवान् लङ्कां लङ्घयित्वा महोदधिम् ॥५-२-५॥
शाद्वलानि च नीलानि गन्धवन्ति वनानि च ।गण्डवन्ति च मध्येन जगाम नगवन्ति च ॥५-२-६॥
शैलांश्च तरुसंचन्नान् वनराजीश्च पुष्पिताः ।अभिचक्राम तेजस्वी हनुमान् प्लवगर्षभः ॥५-२-७॥
स तस्मिन्नचले तिष्ठन्वनान्युपवनानि च ।स नगाग्रे च तां लङ्कां ददर्श पवनात्मजः ॥५-२-८॥
सरLआन् कर्णिकारांश्च खर्जूरांश्च सुपुष्पितान् ।प्रियाLआन्मुचुLइन्दांश्च कुटजान् केतकानपि ॥५-२-९॥
प्रियङ्गून् गन्धपूर्णांश्च नीपान् सप्तच्छदांस्तथा ।असनान् कोविदारांश्च करवीरांश्च पुष्पितान् ॥५-२-१०॥
पुष्पभारनिबद्धांश्च तथा मुकुLइतानपि ।पादपान् विहगाकीर्णान् पवनाधूतमस्तकान् ॥५-२-११॥
हंसकारण्डवाकीर्णान्वापीः पद्मोत्मलायुताः ।आक्रीडान् विविधान् रम्यान्विविधांश्च जलाशयान् ॥५-२-१२॥
संततान् विविधैर्वऋकैः सर्वर्तुफलपुष्पितैः ।उद्यानानि च रम्याणि ददर्श कपिकुञ्जरः ॥५-२-१३॥
समासाद्य च लक्ष्मीवन् लङ्कां रावणपालिताम् ।परिखाभिः सपद्माभिः सोत्पलाभिरलंकृताम् ॥५-२-१४॥
सीतापहरणार्थेन रावणेन सुरक्षिताम् ।समन्ताद्विचरद्भिश्च राक्षसैरुग्रधन्विभिः ॥५-२-१५॥
काञ्चनेनावृतां रम्यां प्राकारेण महापुरीम् ।गृहैश्च ग्रहसंकाशैः शारदाम्बुदसन्निभैः ॥५-२-१६॥
पाण्डुराभिः प्रतोLईभिरुच्चाभिरभिसंवृताम् ।अट्टालकशताकीर्णां पताकाध्वजमालिनीम् ॥५-२-१७॥
तोरणैः काञ्चनैर्दिव्यैर्लतापङ्किविचित्रितैः ।ददर्श हनुमान् लङ्कां दिवि देवपुरीं यथा ॥५-२-१८॥
गिरिमूर्ध्नि स्थितां लङ्कां पाण्डुरैर्भवनैः शुभैः ।ददर्श स कपिश्रेष्ठः पुरमाकाशगं यथा ॥५-२-१९॥
पालितां राक्षसेन्द्रेण निर्मितां विश्वकर्मणा ।प्लवमानामिवाकाशे ददर्श हनुमान् पुरीम् ॥५-२-२०॥
पप्रप्राकारजघनां विपुलाम्बुनवाम्बराम् ।शतघ्नीशूलकेशान्तामट्टालकवतंसकाम् ॥५-२-२१॥
मन्सेव कृतां लङ्कां निर्मितां विश्वकर्मणा ।द्वारमुत्तरमासाद्य चिन्तयामास वानरः ॥५-२-२२॥
कैलासशिखरप्रख्यामालिख्स्न्तीमिवाम्बरम् ।डीयमानामिवाकाशमुच्छ्रितैर्भवनोत्तमैः ॥५-२-२३॥
संपूर्णां राक्षसैर्घोरैर्नागैर्भोगवतीमिव ।अचिन्त्यां सुकृतां स्पष्टां कुबेराध्युषितां पुरा ॥५-२-२४॥
दंष्ट्रिभिर्बहुभिः शूरैः शूलपट्टिसपाणिभिः ।रक्षितां राक्षसैर्घोरैर्गुहामाशीविषैरिव ॥५-२-२५॥
तस्याश्च महतीं गुप्तिं सागरं च निरीक्ष्य सः ।रावणं च रिपुं घोरं चिन्तयामास वानरः ॥५-२-२६॥
आगत्यापीह हरयो भविष्यन्ति निररथकाः ।न हि युद्धेन व लङ्का शक्या जेतुं सुरैरपि ॥५-२-२७॥
इमां तु विषमां दुर्गां लङ्कां रावणपालिताम् ।प्राप्यापि स महाबाहुः किम् करिष्यति राघवः ॥५-२-२८॥
अवकाशो न सान्त्वस्य रक्षसेष्वभिगम्यते ।न दानस्य न भेदस्य नैव युद्धस्य दृश्यते ॥५-२-२९॥
चतुर्णामेव हि गतिर्वानराणां महात्मनाम् ।वालिपुत्रस्य नीलस्य मम राज्ञश्च धीमतः ॥५-२-३०॥
यावज्जानामि वैदेहीं यदि जीवति वा न वा ।तत्रैव चिन्तयिष्यामि दृष्ट्वा तां जनकात्मजाम् ॥५-२-३१॥
ततः स चिन्तयामास मुहूर्तं कपिकुञ्जरः ।गिरिशृङ्गे स्थितस्तस्मिन् रामस्याभ्युदये रतः ॥५-२-३२॥
अनेन रूपेण मया न शक्या रक्षसां पुरी ।प्रवेष्टुं राक्षसैर्गुप्ता क्रूरैर्बलसमन्वितैः ॥५-२-३३॥
उग्रौजसो महावीर्या बलवन्तश्च राक्षसाः ।वञ्चनीया मया सर्वे जानकीं परिमार्गता ॥५-२-३४॥
लक्ष्यालक्ष्येण रूपेण रात्रौ लङ्का पुरी मया ।प्रवेष्टुं प्राप्तकालं मे कृत्यं साधयितुं महत् ॥५-२-३५॥
तां पुरीं तादृशीं दृष्ट्वा दुराधर्शां सुरासुरैः ।हनुमान् चिन्तयामास विनिश्चित्य मुहुर्मुहुः ॥५-२-३६॥
केनोपायेन पशेयं मैथिलीं जनकात्मजाम् ।अदृष्टो राक्षसेन्द्रेण रावणेन दुरात्मना ॥५-२-३७॥
न विनश्येत्कथं कार्यं रामस्य विदितात्मनः ।एकामेकश्च पश्येयं रहिते जनकात्मजाम् ॥५-२-३८॥
भूताश्चार्था विपद्यन्ते देशकालविरोधिताः ।विक्लबं दूतमासाद्य तमः सूर्योदये यथा ॥५-२-३९॥
अर्थानर्थान्तरे बुद्धिर्निश्चितापि न शोभते ।घातयन्ति हि कार्याणि दूताः पण्डितमानिनः ॥५-२-४०॥
न विनश्येत्कथं कार्यं वैक्लब्यम् न कथं भवेत् ।लङ्घनं च समुद्रस्य कथं नु न वृथा भवेत् ॥५-२-४१॥
मयि दृष्टे तु रक्षोभी रामस्य विदितात्मनः ।भवेद्व्यर्थमिदं कार्यं रावणानर्थमिच्छतः ॥५-२-४२॥
न हि शक्यं क्वचित् स्थातुमविज्ञातेन राक्षसैः ।अपि राक्षसरूपेण किमुतान्येन केनचित् ॥५-२-४३॥
वायुरप्यत्र नाज्ञातश्चरेदिति मतिर्मम ।न ह्यस्त्यविदितं किंचिद्राक्षसानां बलीयसाम् ॥५-२-४४॥
इहाहं यदि तिष्ठामि स्वेन रूपेण संवृतः ।विनाशमुपयास्यामि भर्तुरर्थश्च हीयते ॥५-२-४५॥
तदहं स्वेन रूपेण रजन्यां ह्रस्वतां गतः ।लङ्कामभिपतिष्यामि राघवस्यार्थसिद्धये ॥५-२-४६॥
रावणस्य पुरीं रात्रौ प्रविश्य सुदुरासदाम् ।विचिन्वन् भवनं स्र्वं द्रक्ष्यामि जनकात्मजाम् ॥५-२-४७॥
इति संचिन्त्य हनुमान् सूर्यस्यास्तमयं कपिः ।आचकांक्षे ततो वीरो वैदेह्या द्रशनोतुसकः ॥५-२-४८॥
सूर्ये चास्तं गते रात्रौ देहं संक्षिप्य मारुतिः ।वृषदंशकमात्रः सन् बभूवाद्भुतदर्शनः ॥५-२-४९॥
प्रदोषकाले हनुमांस्तूर्णमुत्प्लुत्य वीर्यवान् ।प्रविवेश पुरीं रम्यां सुविभक्तमहापथाम् ॥५-२-५०॥
प्रासादमालाविततां स्तम्भैः काञ्चनराजतैः ।शातकुम्भमयैर्जालैर्गन्धर्वनगरोपमाम् ॥५-२-५१॥
सप्तभौमाष्टभौमैश्च स ददर्श महापुरीम् ।तलैः स्फतिकसंकीर्णैः कार्तस्वरविभूषितैः ॥५-२-५२॥
वैडूर्यमणिचित्रैश्च मुक्ताजालविभूषितैः ।तलैः शुशुभिरे तानि भवनान्यत्र रक्षसाम् ॥५-२-५३॥
काञ्चनानि च चित्राणि तोरणानि च रक्षसाम् ।लङ्कामुद्द्योतयामासुः सर्वतः समलंकृताम् ॥५-२-५४॥
अचिन्त्यामद्भुताकारां दृष्ट्वा लङ्कां महाकपिः ।आसीद्विष्ण्डो हृष्टश्च वैदेह्या दर्शनोत्सुकः ॥५-२-५५॥
स पाण्डुराविद्धविमानमालिनीं ।महार्हजाम्बूनदजालतोरणाम् ।यशस्विनीं रावणबाहुपालितां ।क्षपाचरैर्भिमबलैः समावृताम् ॥५-२-५६॥
चन्द्रोऽपि साचिव्यमिवास्य कुर्वं ।स्तारागणैर्मध्यगतो विराजन् ।ज्योत्स्नावितानेन वितत्य लोक ।मुत्तिष्ठते नैकसहस्ररश्मिः ॥५-२-५७॥
शङ्खप्रभं क्षीरमृणालवर्ण ।मुद्गच्छमानं व्यवभासमानम् ।ददर्श चन्द्रं स हरिप्रवीरः ।प्लोप्लूयमानं सरसीव हंसम् ॥५-२-५८॥
Navigation
- ← Previous: Sundara-Kāṇḍa Sarga 1
- Next: Sundara-Kāṇḍa Sarga 3 →
- Sundara-Kāṇḍa sarga-index
- Vālmīki Rāmāyaṇa master-index
- /rama · the non-dual singularity
🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷