🪷 सुन्दरकाण्ड · Sarga 1
Sundara-Kāṇḍa · The Book of Beauty · Sarga 1 · 210 ślokas
Vālmīki Detail Source-Anchor Spine
This sarga page exposes the exact local source route, parent Kāṇḍa, Rāma janma proof anchors where applicable, and the wider Vālmīki/Rāma source spine.
Vālmīki 5.1local sarga route with all Sanskrit ślokasSundara-Kāṇḍaparent Kāṇḍa sarga index/valmiki-ramayanamaster index for the 7 Kāṇḍas and 22,742 ślokasBāla 1.18Rāma-janma sarga and primary birth-spec anchorVālmīki 1.18.8first Rāma-janma astronomical śloka routeVālmīki 1.18.15closing verse of the janma-spec rangeVālmīki 2.26.9Bṛhaspati-Puṣya coronation-eve witness routeVālmīki 6.93.65war-window Krishna-pakṣa timing witnessVālmīki 6.103Rāvaṇa-vadha anchor doorway for the year+41 witness/ramaRāma-Krishna non-dual singularity and three-anchor proof surface/chart/ramapublished Rāma janma-kuṇḍalī output for the 1,626,102 BCE claimRāma janma dayreader-visible pañchāṅga/day output for the birth anchor/computational-moatSūrya-Siddhānta deep-time verification boundary/festival/rama-navamiCaitra Śukla Navamī festival mūrti-page/ramcharitamanasTulsidās bhakti voice of the same Rāma-līlāRāmopākhyānaVyāsa's Rāma-kathā inside the Mahābhārata/binduDiamond of Darśanas · Rāma/Krishna as one Bindu aperture/philosophyConstitutional Principles and Rāma-Krishna recognition
🪷 The Ślokas · canonical Devanāgarī Sanskrit yathārtha
ततो रावणनीतायाः सीतायाः शत्रुकर्शनः ।इयेष पदमन्वेष्टुं चारणाचरिते पथि ॥५-१-१॥
दुष्करं निष्प्रतिद्वन्द्वं चिकीर्षन् कर्म वानरः ।समुदग्रशिरोग्रीवो गवांपतिरिवाबभौ ॥५-१-२॥
अथ वैडूर्यवर्णेषु शाद्वलेषु महाबलः ।धीरः सलिलकल्पेषु विच्चार यथासुखम् ॥५-१-३॥
द्विजान् वित्रासयन् धीमानुरसा पादपान् हरन् ।मृगांश्च सुबाहुन्निघ्नन् प्रवृद्ध इव केसरी॥५-१-४॥
नीललोहितमाञ्जिष्ठपत्रवर्णैः सितासितैः ।स्वभावविहितैश्चित्रैर्धातुभिः समलंकृतम् ॥५-१-५॥
कामरूपिभिराविष्टमभीक्ष्णं सपरिच्छिदैः ।यक्षकिन्नरगन्धर्वैर्देवक्ल्पैश्च पन्नगैः ॥५-१-६॥
स तस्य गिरिवर्यस्य तले नागवरायुते ।तिष्ठन् कपिवरस्तत्र ह्रदे नाग इवाबभौ ॥५-१-७॥
स सूर्याय महेन्द्राय पवनाय स्वयंभुवे ।भूतेभ्यश्चाञ्जलिं कृत्वा चकार गमने मतिम् ॥५-१-८॥
अञ्जलिं प्राङ्मुखः कृत्वा पवनायात्मयोओनयो ।ततो हि ववृधे गन्तुं दक्षिणो दक्षिणां दिश्म् ॥५-१-९॥
प्लवङ्गप्रवरैर्दृष्टः प्लवने कृतनिश्चयः ।ववृधे रामवृद्ध्यर्थम् समुद्र इव पर्वसु ॥५-१-१०॥
निष्प्रमाणशरीरः सन् लिलङ्घयिषुरर्णवम् ।बाहुभ्यां पीडयामास चरणाभ्यां च पर्वतम् ॥५-१-११॥
स चचालाचलश्चापि मुहूर्तं कपिपीडितः ।तरूणां पुष्पिताग्राणां सर्वं पुष्पमशातयत् ॥५-१-१२॥
तेन पादपमुक्तेन पुष्पौघेन सुगन्धिना ।सर्वतः संवृतः शैलो बभौ पुष्पमयो यथा ॥५-१-१३॥
तेन चोत्तमवीर्येण पीड्यमानः स पर्वतः ।सलिलं संप्रसुस्राव मदं मत्त इव द्विपः ॥५-१-१४॥
पीड्यमानस्तु बलिना महेन्द्रस्तेन पर्वतः ।रीतीर्निर्वर्तयामास काञ्चनाञ्जनराजतीः ॥५-१-१५॥
मुमोच च शिलाः शैलो विशालाः समनःशिलाः ।मध्यमेनार्चिषा जुष्टो धूमराजीरिवानलः ॥५-१-१६॥
गिरिणा पीड्यमानेन पीड्यमानानि सर्वशः ।गुहाविष्टानि भूतानि विनेदुर्विकृतैः स्वरैः ॥५-१-१७॥
स महासत्त्वसंनादः शैलपीडानिमित्तजः ।पृथिवीं पूरयामास दिशश्चोपवनानि च ॥५-१-१८॥
शिरोभिः पृथुभिः सर्पा व्यक्तस्वस्तिकलक्षणैः ।वमन्तः पावकं घोरं ददंशुर्दशनैः शिलाः ॥५-१-१९॥
तास्तदा सविषैर्दष्टाः कुपितैस्तैर्महाशिलाः।जज्ज्वलुः पावकोद्दीप्ता बिभिदुश्च सहस्रधा ॥५-१-२०॥
यानि चौषधजालानि तस्मिन् जातानि पर्वते ।विषघ्नान्यपि नागानां न शेकुः शमितुं विषम्॥५-१-२१॥
भिद्यतेऽयं गिरिर्भूतैरिति मत्त्वा तपस्विनः ।त्रस्ता विद्याधरास्तस्मादुत्पेतुः स्त्रीगणैः सह॥५-१-२२॥
पानभूमिगतं हित्वा हैममासवभाजनम् ।पात्रणि च महार्हाणि करकांश्च हिरण्मयान् ॥५-१-२३॥
लेह्यानुच्चावचान् भक्ष्यान् मांसानि विविधानि च ।आर्षभाणि च चर्माणि खड्गांश्च कनकत्सरून् ॥५-१-२४॥
कृतक्ण्ठगुणाः क्षीबा र्क्तमाल्यानुलेपनाः ।र्क्तक्षाः पुष्कराक्षाश्च गगनं प्रतिपेदिरे ॥५-१-२५॥
हारनूपुरकेयूरपारिहार्यधराः स्त्रियः ।विस्मिताः सस्मितास्तस्थुराकाशे रमणैः सह ॥५-१-२६॥
दर्शयन्तो महाविद्यां विद्याधरमहर्षयः ।सहितास्तस्थुराकाशे वीक्षाञ्चक्रुश्च पर्वतम्॥५-१-२७॥
शुश्रुवुश्चतदा शब्दमृषीणां भावितात्मनाम्।चारणानां च सिद्धानां स्थितानांविमलेऽम्बरे॥५-१-२८॥
एष पर्वतसंकाशो हनूमान् मारुतात्मजः ।तितीर्षति महावेगः समुद्रं मकरालयम् ॥५-१-२९॥
रामार्थं वानरार्थं च चिकीर्षन् कर्मदुष्करम् ।समुद्रस्य परं पारं दुष्प्रापं प्राप्तुमिच्छति॥५-१-३०॥
इति विद्याधराः श्रुत्वा वचस्तेषां महात्मनाम् ।तमप्रमेयं ददृशुः पर्वते वानरर्षभम् ॥५-१-३१॥
दुधुवे च स रोमाणि चकम्पे चाचलोपमः ।ननाद सुमहानादं सुमहानिव तोयदः ॥५-१-३२॥
आनुपूर्व्येण वृत्तं च लाङ्गूलं लोमभिश्चितम् ।उत्पतिष्यन् विचिक्षेप पक्षिराज इवोरगम् ॥५-१-३३॥
तस्य लाङ्गूलमाविद्धमात्तवेगस्य पृष्ठतः ।ददृशे गरुडेनेव ह्रियमाणो महोरगः ॥५-१-३४॥
बाहू संस्तंभयामास महापरिघसंनिभौ ।ससाद च कपिः क्ट्यां चरणौ संचुकोच च ॥५-१-३५॥
संहृत्य च भुजौ श्रीमांस्तथैव च शिरोधराम् ।तेजः स्त्त्वं तथा वीर्यमाविवेश स वीर्यवान् ॥५-१-३६॥
मार्गमालोकयन्दूरादूर्ध्वं प्रणिहितेक्षणः ।रुरोध हृदये प्राणानाकाशमवलोकयन् ॥५-१-३७॥
पद्भ्यां दृढमवस्थानं कृत्वा स कपिकुञ्जरः ।निकुञ्च्य कर्णौ हनुमानुत्पतिष्यन् महाबलः ।वानरान् वानरश्रेष्ठ इदं वचनमब्रवीत् ॥५-१-३८॥
यथा राघवनिर्मुक्तः शरः श्वसनविक्रमः ।गच्चेत्तद्वद्गमिष्यामि लङ्कां रावणपालिताम् ॥५-१-३९॥
न हि द्रक्ष्यामि यदि तां लङ्कायां जनकात्मजाम् ।अनेनैव हि वेगेन गमिष्यामि सुरालयम् ॥५-१-४०॥
यदि वा त्रिदिवे सीतां न द्रक्ष्याम्यकृतश्रमः ।बद्ध्वा राक्षसराजानमानयिष्यामि रावणम् ॥५-१-४१॥
सर्वथा कृतकार्योऽहमेष्यामि सह सीतया ।आनयिष्यामि वा लङ्कां समुत्पाट्य सरावणाम् ॥५-१-४२॥
एवमुक्त्वा तु हनुमान्वानरान्वानरोत्तमः ॥५-१-४३॥
उत्पपाताथ वेगेन वेगवानविचारयन् ।सुपर्णमिव चात्मानं मेने स कपिकुञ्जरः ॥५-१-४४॥
समुत्पतति तस्मिंस्तु वेगात्ते नगरोहिणः ।संहृत्य विटपान् सर्वान् समुत्पेतुः समन्ततः ॥५-१-४५॥
स मत्तकोयष्टिभकान् पादपान् पुष्पशालिनः ।उद्वहन्नूरुवेगेन जगाम विमलेऽम्बरे ॥५-१-४६॥
ऊरुवेगोत्थिता वृक्षा मुहूर्तं कपिमन्वयुः ।प्रस्थितं दीर्घमध्वानं स्वबन्धमिव बान्धवाः ॥५-१-४७॥
तमूरुवेगोन्मथिताःसालाश्चन्ये नगोत्तमाः।अनुजग्मुर्हनूमन्तं सैन्या इव महीपतिम् ॥५-१-४८॥
सुपुष्पिताग्रैर्बहुभिः पादपैरन्वितः कपिः ।हनुमान् पर्वताकारो बभूवाद्भुतदर्शनः ॥५-१-४९॥
सारवन्तोऽथ ये वृक्षा न्यमज्जन् लवणाम्भसि ।भयादिव महेन्द्रस्य पर्वता वरुणालये ॥५-१-५०॥
स नानाकुसुमैः कीर्णः कपिः साङ्कुरकोरकैः ।शुशुभे मेघसंकाशः खद्योतैरिव पर्वतः ॥५-१-५१॥
विमुक्तास्तस्य वेगेन मुक्त्वा पुष्पाणि ते द्रुमाः ।अवशीर्यन्त सलिले निवृत्ताः सुहृदो यथा ॥५-१-५२॥
लघुत्वेनोपपन्नं तद्विचित्रं सागरेऽपतत् ।द्रुमाणां विविधं पुष्पं कपिवायुसमीरितम् ॥५-१-५३॥
ताराचितमिवाकाशं प्रबभौ च महार्णवः ।पुष्पौघेनानुबद्धेन नानावर्णेन वानरः ।बभौ मेघ इवाकाशे विद्युद्गणविभूषितः ॥५-१-५४॥
तस्य वेगसमाधूतैः पुष्पैस्तोयमदृश्यत ॥५-१-५५॥
ताराभिरभिरामाभिरुदिताभिरिवाम्बरम् ।तस्याम्बरगतौ बाहू ददृशाते प्रसारितौ ॥५-१-५६॥
पर्वताग्राद्विनिष्क्रान्तौ पञ्चास्याविव पन्नगौ ।पिबन्निव बभौ चापि सोओर्मिमालं महार्णवम् ॥५-१-५७॥
पिपासुरिव चाकाशं ददृशे स महाकपिः ।तस्य विद्युत्प्रभाकारे वायुमार्गानुसारिणः ॥५-१-५८॥
नयने विप्रकाशेते पर्वतस्थाविवानलौ ।पिङ्गे पिङ्गाक्षमुख्यस्य बृहती परिमण्डले ॥५-१-५९॥
चक्षुषी संप्रकाशेते चन्द्रसूर्याविवोदितौ ।मुखं नासिकया तस्य ताम्रया ताम्रमाबभौ ॥५-१-६०॥
सन्ध्यया समभिस्पृष्टं यथा तत्सूर्यमण्डलम् ।लाङ्गूलं च समाविद्धं प्लवमानस्य शोभते ॥५-१-६१॥
अम्बरे वायुपुत्रस्य शक्रध्वज इवोच्छ्रितः ।लाङ्गूलचक्रेण महान् शुक्लदंष्ट्रोऽनिलात्मजः ॥५-१-६२॥
व्यरोचत महाप्राज्ञः परिवेषीव भास्करः ।स्फिग्देशेनाभिताम्रेण रराज स महाकपिः ॥५-१-६३॥
महता दारितेनेव गिरिर्गैरिकधातुना ।तस्य वानरसिंहस्य प्लवमानस्य सागरम् ॥५-१-६४॥
कक्षान्तरगतो वायुर्जीमूत इव गर्जति ।खे यथा निपतन्त्युल्का ह्युत्तरान्ताद्विनिःसृता ॥५-१-६५॥
दृश्यते सानुबन्धा च तथा स कपिकुञ्जरः ।पतत्पतङ्गसंकाशो व्यायतः शुशुभे कपिः ॥५-१-६६॥
प्रवृद्ध इव मातङ्गः कक्ष्यया बध्यमानया ।उपरिष्टाच्छरीरेण छायया चावगाढया ।सागरे मारुताविष्टा नौरिवासीत्तदा कपिः ॥५-१-६७॥
यं यं देशं समुद्रस्य जगाम स महाकपिः ।स स तस्योरुवेगेन सोन्माद इव लक्ष्यते ॥५-१-६८॥
सागरस्योओर्मिजालानामुरसा शैलवर्ष्मणाम् ।अभिघ्नंस्तु महावेगः पुप्लुवे स महाकपिः ॥५-१-६९॥
कपिवातश्च बलवान् मेघवातश्च निःसृतः ।सागरं भीमनिर्घोषं कम्पयामासतुर्भृशम् ॥५-१-७०॥
विकर्षन्नूर्मिजालानि बृहन्ति लवणाम्भसि ।पुप्लुवे कपिशार्दूलो विकिरन्निव रोदसी ॥५-१-७१॥
मेरुमन्दरसंकाशानुद्धतान् स महार्णवे ।अत्यक्रामन्महावेगस्तरङ्गान् गणयन्निव ॥५-१-७२॥
तस्य वेगसमुद्धूतं जलं सजलदं तदा ।अम्बर्स्थं विबभ्राज शारदाभ्रमिवाततम् ॥५-१-७३॥
तिमिनक्रझषाः कूर्मा दृश्यन्ते विवृतास्तदा ।वस्त्रापकर्षणेनेव शरीराणि शरीरिणाम् ॥५-१-७४॥
प्लवमानं समीक्ष्यथ भुजङ्गाः सागरालयाः ।व्योम्नि तं कपिशार्दूलं सुपर्ण इति मेनिरे ॥५-१-७५॥
दशयोजनविस्तीर्णा त्रिंशद्योजनमायता ।छाया वानरसिंहस्य जले चारुतराभवत् ॥५-१-७६॥
श्वेताभ्रघनराजीव वायुपुत्रानुगामिनी ।तस्य सा शुशुभे छाया वितता लवणाम्भसि ॥५-१-७७॥
शुशुभे स महातेजा महाकायो महाकपिः ।वायुमार्गे निरालम्बे पक्षवानिव पर्वतः ॥५-१-७८॥
येनासौ याति बलवान् वेगेन कपिकुञ्जरः ।तेन मार्गेण सहसा द्रोणीकृत इवार्णवः ॥५-१-७९॥
आपाते पक्षिसंघानां पक्षिराज इव व्रजन् ।हनुमान् मेघजालानि प्रकर्षन् मारुतो यथा ॥५-१-८०॥
पाण्डुरारुणवर्णानि नीलमाञ्जिष्ठकानि च ।कपिनाकृष्यमाणानि महाभ्राणि चकाशिरे ॥५-१-८१॥
प्रविशन्नभ्रजालानिनिष्पतंश्च पुनः पुनः ।प्रच्चन्नश्च प्रकाशश्च चन्द्रमा इव लक्ष्यते ॥५-१-८२॥
प्लवमानं तु तं दृष्ट्वा प्लवङ्गं त्वरितं तदा ।ववर्षुः पुष्पवर्षणि देवगन्धर्वदानवाः ॥५-१-८३॥
तताप न हि तं सूर्यः प्लवन्तं वानरोत्तमम् ।सिषेवे च तदा वायू रामकार्याद्थसिद्धये ॥५-१-८४॥
ऋषयस्तुष्टुवुश्चैव प्लवमानं विहायसा ।जगुश्च देवगन्धर्वाः प्रशंसन्तो महौजसम् ॥५-१-८५॥
नागाश्च तुष्टुवुर्यक्षा रक्षांसि विबुधाः खगाः ॥५-१-८६॥
प्रेक्ष्य सर्वे कपिवरं सहसा विगतक्लमम् ।तस्मिन् प्लवगशार्दूले प्लवमाने हनूमति ॥५-१-८७॥
इक्ष्वाकुकुलमानार्थी चिन्तयामास सागरः ।साहाय्यं वानरेन्द्रस्य यदि नाहं हनूमतः ॥५-१-८८॥
करिष्यामि भविष्यामि सर्ववाच्यो विवक्षताम् ।अहमिक्ष्वाकुनाथेन सगरेण विवर्धतः ॥५-१-८९॥
इक्ष्वाकुसचिचश्चायं नावसीदितुमर्हति ।तथा मया विधातव्यं विश्रमेत यथा कपिः ॥५-१-९०॥
शेषं च मयि विश्रान्तः सुखेनातिपतिष्यति ।इति कृत्वा मतिं साध्वीं समुद्रश्चन्नमम्भसि ॥५-१-९१॥
हिरण्यनाभं मैनाकमुवाच गिरिसत्तमम् ।त्वमिहासुरसंघानां पाताLअतलवासिनां ॥५-१-९२॥
देवराज्ञा गिरिश्रेष्ठ परिघः संनिवेशितः ।त्वमेषां जातवीर्याणां पुनरेवोत्पतिष्यताम् ॥५-१-९३॥
पाताLअस्याप्रमेयस्य द्वारमावृत्य तिष्ठसि ।तिर्यगूर्ध्वमधश्चैव शक्तिस्ते शैल वर्धितुम् ॥५-१-९४॥
तस्मात्संचोदयामि त्वामुत्तिष्ठ गिरिसत्तम ।न एष कपिशार्दूलस्त्वमुपर्येति वीर्यवान् ॥५-१-९५॥
हनूमान्रामकार्यार्थं भीमकर्मा खमाप्लुतः ।अस्य साह्यं मया कार्यमिक्ष्वाकुकुलवर्तिनः ॥५-१-९६॥
मम हीक्ष्वाकवः पूज्याः परं पूज्यतमास्तव ।कुरु साचिव्यमस्माकं न नः कार्यमतिक्रमेत् ॥५-१-९७॥
कर्तव्यमकृतं कार्यं सतां मन्युमुदीरयेत् ।सलिलादूर्ध्वमुत्तिष्ठ तिष्ठत्वेष कपिस्त्वयि ॥५-१-९८॥
अस्माकमतिथिश्चैव पूज्यश्च प्लवतां वरः ।चामीकरमहानाभ देवगन्धर्व सेवित ॥५-१-९९॥
हनुमांस्त्वयि विश्रान्तस्ततः शेषं गमिष्यति ।काकुत्थ्सस्यानृशंस्यं च मैथिल्याश्च विवासनम् ॥५-१-१००॥
श्रमं च प्लवगेन्द्रस्य समीक्ष्योत्थातुमर्हसि ।हिरण्य नाभो मैनाको निशम्य लवणाम्भसः ॥५-१-१०१॥
उत्पपात जलात्तूर्णं महाद्रुमलतायुतः ।स सागरजलं भित्त्वा बभूवाभ्युत्थितस्तदा ॥५-१-१०२॥
यथा जलधरं भित्त्वा दीप्तरश्मिर्दिवाकरः ।स महात्मा मुहूर्तेन सर्वतः सलिलावृतः ॥५-१-१०३॥
द्र्शयामास शृङ्गाणि सागरेण नियोजितः ।शातकुम्भमयैः शृङ्गैः सकिन्नरमहोरगैः ॥५-१-१०४॥
आदित्योदयसंकाशैरालिखद्भिरिवाम्बरम् ।तप्तजाम्बूनदैः शृङिगाः पर्वतस्य समुत्थितैः ॥५-१-१०५॥
आकाशं शस्त्रसंकाशमभवत्काञ्चनप्रभम् ।जातरूपमयैः शृङ्गैर्भ्राजमानैः स्वयंप्रभैः ॥५-१-१०६॥
आदित्यशतसंकाशः सोऽभवद्गिरिसत्तमः ।तमुत्थितमसंगेन हनुमानग्रतः स्थितम् ॥५-१-१०७॥
मध्ये लवणतोयस्य विघ्नोऽयमिति निश्चितः ।स तमुच्छ्रित मत्यर्थं महावेगो महाकपिः ॥५-१-१०८॥
उरसा पातयामास जीमूतमिव मारुतः ।स तथा पातितस्तेन कपिना पर्वतोत्तमः ॥५-१-१०९॥
बुद्ध्वा तस्य कपेर्वेगं जहर्ष च ननन्द च ।तमाकाशगतं वीरमाकाशे समुपस्थितः ॥५-१-११०॥
प्रीतो हृष्टमना वाक्यमब्रवीत्पर्वतः कपिम् ।मानुषं धारयन् रूपमात्मनः शिखरे स्थितः ॥५-१-१११॥
दुष्करं कृतावन्कर्म त्वमिदं वानरोत्तम ।निपत्य मम शृङ्गेषु विश्रमस्व यथासुखम् ॥५-१-११२॥
राघवस्य कुले जातैरुदधिः परिवर्धितः ।स त्वां रामहिते युक्तं प्रत्यर्चयति सागरः ॥५-१-११३॥
कृते च प्रतिकर्तव्यमेष धर्मः सनातनः ।सोऽयं तत्प्रतिकारार्थी त्वत्तः संमानमर्हति ॥५-१-११४॥
त्वन्निमित्तमनेनाहं बहुमानात्प्रचोदितः ।योजनानां शतं चापि कपिरेष समाप्लुतः ॥५-१-११५॥
तव सानुषु विश्रान्तः शेषं प्रक्रमतामिति ।तिष्ठ त्वं हरिशार्दूल मयि विश्रम्य गम्यताम् ॥५-१-११६॥
तदिदं गन्धवत्स्वादु कन्दमूलफलं बहु ।तदास्वाद्य हरिश्रेष्ठ विश्रान्तोऽनु गमिष्यसि ॥५-१-११७॥
अस्माकमपि सम्बन्धः कपिमुख्य त्वयास्ति वै ।प्रख्यातस्त्रिषु लोकेषु महागुणपरिग्रहः ॥५-१-११८॥
वेगवन्तः प्लवन्तो ये प्लवगा मारुतात्मज ।तेषां मुख्यतमं मन्ये त्वामहं कपिकुञ्जर ॥५-१-११९॥
अतिथिः किलपूजार्हः प्राकृतोऽपि विजानता ।धर्मं जिज्ञासमानेन किं पुनस्त्वादृशो महान् ॥५-१-१२०॥
त्वं हि देववरिष्ठस्य मारुतस्य महात्मनः ।पुत्रस्तस्यैव वेगेन सदृशः कपिकुञ्जर ॥५-१-१२१॥
पूजिते त्वयि धर्मज्ञ पूजां प्राप्नोति मारुतः ।तस्मात्त्वं पूजनीयो मे शृणु चाप्यत्र कारणम् ॥५-१-१२२॥
पूर्वं कृतयुगे तात पर्वताः पक्षिणोऽभवन् ।ते हि जग्मुर्दिशः सर्वा गरुडानिलवेगिनः ॥५-१-१२३॥
ततस्तेषु प्रयातेषु देवसंघः सहर्षिभिः ।भूतानि च भयं जग्मुस्तेषां पतनशङ्कया॥५-१-१२४॥
ततः क्रुद्धः सहस्राअक्षः पर्वतानां शतक्रतुः ।पक्षान् चिच्छेद वज्रेण तत्र तत्र सहस्रशः ॥५-१-१२५॥
स मामुपागतः क्रुद्धो वज्रमुद्यम्य देवराट् ।ततोऽहं सहसा क्षिप्तः स्वसनेन महात्मना ॥५-१-१२६॥
अस्मिन्लवणतोये च प्रक्षिप्तः प्लवगोत्तम ।गुप्तपक्षसमग्रश्च तव पित्राभिरक्षितः ॥५-१-१२७॥
ततोऽहं मानयामि त्वां मान्यो हि मम मारुतः ।त्वया मे ह्येष संबन्धः कपिमुख्य महागुणः ॥५-१-१२८॥
अस्मिन्नेवंगते कार्ये सागरस्य ममैव च ।प्रीतिं प्रीतमनाः कर्तुं त्वमर्हसि महाकपे ॥५-१-१२९॥
श्रमं मोक्षय पूजां च गृहाण कपिसत्तम ।प्रीतिं च बहुमन्यस्व प्रीतोऽस्मि तव दर्शनात् ॥५-१-१३०॥
एवमुक्तः कपिश्रेष्ठस्तं नगोत्तममब्रवीत् ।प्रीतोऽस्मि कृतमातिथ्यं मन्युरेषोऽपनीयताम् ॥५-१-१३१॥
त्वरते कार्यकालो मे अहश्चाप्यतिवर्तते ।प्रतिज्ञा च मया दत्ता न स्थातव्यमिहान्त्तरे ॥५-१-१३२॥
इत्युक्त्वा पाणिना शैलमालभ्य हरिपुङ्गवः ।जगामाकाशमाविश्य वीर्यवान् प्रहसन्निव ॥५-१-१३३॥
स पर्वतसमुद्राभ्यां बहुमानादवेक्षितः ।पूजितश्चोपपन्नाभिराशीर्भिरनिलात्मजः ॥५-१-१३४॥
अथोर्ध्वं दूरमुत्प्लुत्य हित्वा शैलमहार्णवौ ।पितुः पन्थानमास्थाय जगाम विमलेऽम्बरे ॥५-१-१३५॥
भूयश्चोर्ध्वं गतिं प्राप्य गिरिं तमवलोकयन् ।वायुसूनुर्निरालम्बे जगाम विमलेऽम्बरे ॥५-१-१३६॥
तद्द्वितीयं हनुमतो दृष्ट्वा कर्म सुदुष्करम् ।प्रश्शंसुः सुराः सर्वे सिद्धाश्च परमर्षयः ॥५-१-१३७॥
देवताश्चाभवन् हृष्टास्तत्रस्थास्तस्य कर्मणा ।काञ्चनस्य सुनाभस्य सहस्राक्षश्च वासवः ॥५-१-१३८॥
उवाच वचनं धीमान् परितोषात्सगद्गदम् ।सुनाभं पर्वतश्रेष्ठं स्वयमेव शचीपतिः ॥५-१-१३९॥
हिरण्यनाभ शैलेन्द्र परितुष्टोऽस्मि ते भृशम् ।अभयं ते प्रयच्छामि तिष्ठ सौम्य यथासुखम् ॥५-१-१४०॥
साह्यं ते सुमहद्विक्रान्तस्य हनूमतः ।क्रमतो योजनशतं निर्भयस्य भये सति ॥५-१-१४१॥
रामस्यैष हितायैव याति दाशरथेर्हरिः ।सत्क्रियां कुर्वता तस्य तोषितोऽस्मि दृढं त्वया ॥५-१-१४२॥
ततः प्रहर्षमगमद्विपुलं पर्वतोत्तमः ।देवतानां पतिं दृष्ट्वा परितुष्टं शतक्रतुम् ॥५-१-१४३॥
स वै दत्तवरः शैलो बभूवावस्थितस्तदा ।हनुमांश्च मुहूर्तेन व्यतिचक्राम सागरम् ॥५-१-१४४॥
ततो देवाः सगन्धर्वाः सिद्धाश्च परमर्षयः ।अब्रूवन् सूर्यसंकाशां सुरसां नागमातरम् ॥५-१-१४५॥
अयं वातात्मजः श्रीमान्प्लवते सागरोपरि ।हनुमान्नाम तस्य त्वं मुहूर्तं विघ्नमाचर ॥५-१-१४६॥
राक्षसं रूपमास्थाय सुघोरं पर्वतोपमम् ।दंष्ट्रकराLअं पिङ्गाक्षं वक्त्रं कृत्वा नभःसमम् ॥५-१-१४७॥
बलमिच्छामहे ज्ञातुं भूयश्चास्य पराक्रमम् ।त्वां विजेष्यत्युपायेन विषादं वा गमिष्यति ॥५-१-१४८॥
एवमुक्ता तु सा देवी दैवतैरभिसत्कृता ।समुद्रमध्ये सुरसा बिभ्रती राक्षसं वपुः ॥५-१-१४९॥
विकृतं च विरूपं च सर्वस्य च भयावहम् ।प्लवमानं हनूमन्तमावृत्येदमुवाच ह ॥५-१-१५०॥
मम भक्षः प्रदिष्टस्त्वमीश्वरैर्वानरर्षभ ।अहं त्वा भक्षयिष्यामि प्रविशेदं ममाननम् ॥५-१-१५१॥
एवमुक्तः सुरसया प्राञ्जलिर्वानरर्षभः ।प्रहृष्टवदनः श्रीमानिदं वचनमब्रवीत् ॥५-१-१५२॥
रामो दाशरथिर्नाम प्रविष्टो दण्डकावनम् ।लक्ष्मणेन सह भ्रात्रा वैदेह्या चापि भार्यया ॥५-१-१५३॥
अन्यकार्यविषक्तस्य बद्धवैरस्य राक्षसैः ।तस्य सीत हृता भार्या रावणेन यशस्विनी ॥५-१-१५४॥
तस्याः सकाशं दूतोऽहं गमिष्ये रामकारणात् ।कर्तुमर्हसि रामस्य साह्यं विषयवासिनि ॥५-१-१५५॥
अथवा मैथिलीं दृष्ट्वा रामं चाक्लिष्टकारिणम् ।आगमिष्यामि ते वक्त्रं सत्यं प्रतिशृणोमि ते ॥५-१-१५६॥
एवमुक्ता हनुमता सुरसा कामरूपिणी ।अब्रवीन्नातिवर्तेत कश्चिदेष वरो मम ॥५-१-१५७॥
तं प्रयान्तं समुद्वीक्ष्य सुरसा वाक्यमब्रवीत् ।बलं जिज्ञासमाना वै नागमाता हनूमतः ॥५-१-१५८॥
प्रविश्य वदनं मेऽद्य गन्तव्यं वानरोत्तम ।वर एष पुरा दत्तो मम धात्रेति सत्वरा ॥५-१-१५९॥
व्यादाय विपुलं वक्त्रं स्थिता सा मारुतेः पुरः ।एवमुक्तः सुरसया क्रुद्धो वानरपुञ्गवः ॥५-१-१६०॥
अब्रवीत्कुरु वै वक्त्रं येन मां विषहिष्यसे ।प्रविश्य वदनं मेऽद्य ग्न्तव्यं वानरोत्तम ।वर एष पुरा दत्तो ममम् ध्रात्रेति सत्वरा ॥५-१-१६१॥
व्यादाय विपुलं वक्त्रं स्थिता सा मरुतेः पुरः ।तं दृष्ह्ट्वा मेघसंकाशं दशयोजनमायतम् ॥५-१-१६२॥
चकार सुरसा चास्यं विंशद्योजनमायतम् ।हनुमांस्तु ततः क्रुद्धस्त्रिंशद्योजनमायतः ॥५-१-१६३॥
चकार सुरसा वक्त्रं चत्वारिंशत्तथोच्छ्रितम् ।बभूव हनुमान्वीरः पञ्चाशद्योजनोच्छ्रितः ॥५-१-१६४॥
चकार सुरसा वक्त्रं षष्टियोजनमायतम् ।तथैव हनुमान्वीरः सप्ततीयोजिनोच्छ्रितः ॥५-१-१६५॥
चकार सुरसा व्क्त्रम्शीतीयोजनोच्छ्रितम् ।हनुमानचलप्रख्यो नवतीयोजनोच्छ्रितः ॥५-१-१६६॥
तद्दृष्ट्वा व्यादितं त्वास्यं वायुपुत्रः सुबुद्धिमान् ।दीर्घजिह्वं सुरसया सुघोरं नरकोपमम् ॥५-१-१६७॥
सुसंक्षिप्यात्मनः कायं बभूवाञ्गुष्ठमात्रकः ।सोऽभिपत्याशु तद्वक्त्रं निष्पत्य च महाजवः ।अन्तरिक्षे स्थितः श्रीमानिदं वचनमब्रवीत् ॥५-१-१६८॥
प्रविष्टोऽस्मि हि ते वक्त्रं दाक्षायणि नमोऽस्तु ते ।गमिष्ये यत्र वैदेही सत्यं चासीद्वरस्तव ॥५-१-१६९॥
तं दृष्ट्वा वदनान्मुक्तं चन्द्रं राहुमुखादिव ।अब्रवीत्सुरसा देवी स्वेन रूपेण वानरम् ॥५-१-१७०॥
अर्थसिद्ध्यै हरिश्रेष्ठ गच्छ सौम्य यथासुखम् ।समानयस्व वैदेहीं राघवेण महात्मना ॥५-१-१७१॥
तत्तृतीयं हनुमतो दृष्ट्वा कर्म सुदुष्करम् ।साधु साध्विति भूतानि प्रश्शंसुस्तदा हरिम् ॥५-१-१७२॥
स सागरमनाधृष्यमभ्येत्य वरुणालयम् ।जगामाकाशमाविश्य वेगेन गरुडोपमः ॥५-१-१७३॥
चरिते कैशिकाचार्यैरैरावतनिषेविते ॥५-१-१७४॥
सिंहकुञ्जरशार्दूलपतगोरगवाहनैः ।विमानैः संपतद्भिश्च विमलैः समलंकृते ॥५-१-१७५॥
वज्राशनिसमाघातैः पावकैरुपशोभिते ।कृतपुण्यैर्महाभागैः स्वर्गजिद्भिरलंकृते ॥५-१-१७६॥
वहता हव्यमत्यर्थं सेविते चित्रभानुना ।ग्रहनक्षत्रचन्द्रार्कतारागणविभूषिते ॥५-१-१७७॥
महर्षिगणगन्धर्वनागयक्षसमाकुले ।विविक्ते विमले विश्वे विश्वावसुनिषेविते ॥५-१-१७८॥
देवराजगजाक्रान्ते चन्द्रसूर्यपथे शिवे ।विताने जीवलोकस्य वितते ब्रह्मनिर्मिते ॥५-१-१७९॥
बहुशः सेविते वीरैर्विद्याधरगणैर्वरैः ।जगाम वायुमार्गे तु गरुत्मानिव मारुतिः ॥५-१-१८०॥
प्रदृश्यमानः सर्वत्र हनुमान्मारुतात्मजः ।भेजेऽम्बरं निरालम्बं लम्बपक्ष इवाद्रिराट् ॥५-१-१८१॥
प्लवमानं तु तं दृष्ट्वा सिंहिका नाम राक्षसी ।मनसा चिन्तयामास प्रवृद्धा कामरूपिणी ॥५-१-१८२॥
अद्य दीर्Gहस्य कालस्य भविष्याम्यहामाशिता ।इदं हि मे महत्सत्त्वं चिरस्य वशमागतम् ॥५-१-१८३॥
इति संचिन्त्य मनसा छायामस्य समाक्षिपत् ।छायायां गृह्यमाणायां चिन्तयामास वानरः ॥५-१-१८४॥
समाक्षिप्तोऽस्मि तरसा पञूकृतपराक्रमः ।प्रतिलोमेन वातेन महानौरिव सागरे ॥५-१-१८५॥
तिर्यगूर्ध्वमधश्चैव वीक्षिमाणस्ततः कपिः ।ददर्श स महत्सत्त्वमुत्थितं लवणाम्भसि ॥५-१-१८६॥
छाय्तद्धृष्ट्वा चिन्तयामास मारुतिर्विकृताननम् ।कपिराजेन कथितं सत्त्वमद्भुतदर्शनम् ॥५-१-१८७॥
आग्राहि महावीर्यं तदिदं नात्र संशयः ।स तां बुद्ध्वार्थतत्त्वेन सिंहिकां मतिमान्कपिः ।व्यवर्धत महाकायः प्रवृषीव वलाहकः ॥५-१-१८८॥
तस्य सा कायमुद्वीक्ष्य वर्धमानं महाकपेः ॥५-१-१८९॥
वक्त्रं प्रसारयामास पाताLआन्तरसन्निभम् ।घनराजीव गर्जन्ती वानरं सम्भिद्रवत् ॥५-१-१९०॥
स ददर्श ततस्तस्या विवृतं सुमहन्मुखम् ।कायमात्रं च मेधावी मर्माणि च महाकपिः ॥५-१-१९१॥
स तस्या विवृते वक्त्रे वज्रसंहननः कपिः ।संक्षिप्य मुहुरात्मानं निष्पपात महाबलः ॥५-१-१९२॥
आस्ये तस्या निमज्जन्तं ददृशुः सिद्धचारणाः ।ग्रस्यमानं यथा चन्द्रं पूर्णं पर्वणि राहुणा ॥५-१-१९३॥
ततस्तस्या नखैस्तीक्णैर्मर्माण्युत्कृत्य वानरः ।उत्पपाताथ वेगेन मनः संपातविक्रमः ॥५-१-१९४॥
तां तु दृष्ट्वा च धऋत्या च दाक्षिण्येन निपात्य च ।स कपिप्रवरो वेगाद्ववृधे पुनरात्मवान् ॥५-१-१९५॥
हृतहृत्सा हनुमता पपात विधुराम्भसि ।तां हतां वानरेणाशु पतितां वीक्ष्य सिंहिकाम् ॥५-१-१९६॥
भूतान्याकाशचारीणी तमूचुः प्लवगोत्तमम् ।भीममद्य कृतं कर्म महत्सत्त्वं त्वया हतम् ॥५-१-१९७॥
साधयार्थमभिप्रेतमरिष्टं प्लवतां वर ।यस्य त्वेतानि चत्वारि वानरेन्द्र यथा तव ॥५-१-१९८॥
धृतिर्दृष्टिर्मतिर्दाक्ष्यं स कर्मसु न सीदति ।स तैः संभावितः पूज्यः प्रतिपन्नप्रयोजनः ॥५-१-१९९॥
जगामाकाशमाविश्य पन्नगाशनवत्कपिः ।प्राप्तभूयिष्ठपारस्तु सर्वतः प्रतिलोकयन् ॥५-१-२००॥
योजनानां शतस्यान्ते वनराजिं ददर्श सः ।ददर्श च पतन्नेव विविधद्रुमभूषितम् ॥५-१-२०१॥
द्वीपं शाखामृगश्रेष्ठो मलयोपवनानि च ।सागरं सागरानूपं सागरानूपजान् द्रुमान् ॥५-१-२०२॥
सागरस्य च पत्नीनां मुखान्यपि विलोकयन् ।स महामेघसंकाशं समीक्ष्यात्मानमात्मवान् ॥५-१-२०३॥
निरुन्धन्तमिवाकाशं चकार मतिमान् मतिम् ।कायवृद्धिं प्रवेगं च मम दृष्ट्वव राक्षसाः ॥५-१-२०४॥
मयि कौतूहलं कुर्युरिति मेने महाकपिः ।ततः शरीरं संक्षिप्य तन्महीधरसन्निभम्॥५-१-२०५॥
पुनः प्रकृतिमापेदे वीतमोह इवात्मवान् ।तद्रूपमतिसंक्षिप्य हनुमान् प्रकृतौ स्थितः ॥५-१-२०६॥
त्रीन् क्रमानिव विक्रम्य बलिवीर्यहरो हरिः ।स चारुनानाविधरूपधारी ।परं समासाद्य समुद्रतीरम् ।परैरशक्यः प्रतिपन्नरूपः ।समीक्षितात्मा समवेक्षितार्थः ॥५-१-२०७॥
ततः स लम्बस्य गिरेः समृद्धे ।विचित्रकूटे निपपात कूटे ।सकेतकोद्दालकनाLइकेरे ।महाभ्रकूटप्रतिमो महात्मा ॥५-१-२०८॥
ततस्तु संप्राप्य समुद्रतीरं ।समीक्ष्य लङ्कां गिरिवर्यमूर्ध्नि ।कपिस्तु तस्मिन्निपपात पर्वते ।विधूय रूपं व्यथयन्म्Rऋगद्विजान् ॥५-१-२०९॥
स सागरं दानवपन्नगायुतं ।बलेन विक्रम्य महोर्मिमालिनम् ।निपत्य तीरे च महोदधेस्तदा ।ददर्श लङ्काममरावतीमिव ॥५-१-२१०॥
Navigation
- ← Previous: Kiṣkindhā-Kāṇḍa Sarga 67
- Next: Sundara-Kāṇḍa Sarga 2 →
- Sundara-Kāṇḍa sarga-index
- Vālmīki Rāmāyaṇa master-index
- /rama · the non-dual singularity
🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷