🪷 सुन्दरकाण्ड · Sarga 63

Sundara-Kāṇḍa · The Book of Beauty · Sarga 63 · 29 ślokas

🪷 Devanāgarī Ślokas

Vālmīki 5.63.1
ततो मूर्ध्ना निपतितं वानरं वानरर्षभः ।दृष्ट्वैवोद्विग्नहृदयो वाक्यमेतदुवाच ह ।। ५.६३.१ ।।।। ॥५-६३-१॥
Vālmīki 5.63.2
उत्तिष्ठोत्तिष्ठ कस्मात् त्वं पादयोः पतितो मम ।अभयं ते भवेद्वीर सर्वमेवाभिधीयताम् ।। ५.६३.२ ।।।। ॥५-६३-२॥
Vālmīki 5.63.3
स तु विश्वासितस्तेन सुग्रीवेण महात्मना ।उत्थाय सुमहाप्राज्ञो वाक्यं दधिमुखो ऽब्रवीत् ।। ५.६३.३ ।।।। ॥५-६३-३॥
Vālmīki 5.63.4
नैवर्क्षरजसा राजन्न त्वया नापि वालिना ।वनं निसृष्टपूर्वं हि भक्षितं तच्च वानरैः ।। ५.६३.४ ।।।। ॥५-६३-४॥
Vālmīki 5.63.5
एभिः प्रधर्षिताश्चैव वानरा वनरक्षिभिः ।मधून्यचिन्तयित्वेमान् भक्षयन्ति पिबन्ति च ।। ५.६३.५ ।।।। ॥५-६३-५॥
Vālmīki 5.63.6
शिष्टमत्रापविध्यन्ति भक्षयन्ति तथा ऽपरे ।निवार्यमाणास्ते सर्वे भ्रूवौ वै दर्शयन्ति हि ।। ५.६३.६ ।।।। ॥५-६३-६॥
Vālmīki 5.63.7
इमे हि संरब्धतरास्तथा तैः संप्रधर्षिताः ।वारयन्तो वनातस्मात् क्रुद्वैर्वानरपुङ्गवैः ।। ५.६३.७ ।।।। ॥५-६३-७॥
Vālmīki 5.63.8
ततस्तैर्बहुभिर्वीरैर्वानरैर्वानरर्षभः ।संरक्तनयनैः क्रोधाद्धरयः प्रविचालिताः ।। ५.६३.८ ।।।। ॥५-६३-८॥
Vālmīki 5.63.9
पाणिभिर्निहताः केचित् केचिज्जानुभिराहताः ।प्रकृष्टाश्च यथाकामं देवमार्गं च दर्शिताः ।। ५.६३.९ ।।।। ॥५-६३-९॥
Vālmīki 5.63.10
एवमेते हताः शूरास्त्वयि तिष्ठति भर्तरि ।कृत्स्नं मधुवनं चैव प्रकामं तैः प्रभक्ष्यते ।। ५.६३.१० ।।।। ॥५-६३-१०॥
Vālmīki 5.63.11
एवं विज्ञाप्यमानं तं सुग्रीवं वानरर्षभम् ।अपृच्छत्तं महाप्राज्ञो लक्ष्मणः परवीरहा ।। ५.६३.११ ।।।। ॥५-६३-११॥
Vālmīki 5.63.12
किमयं वानरो राजन् वनपः प्रत्युपस्थितः ।कं चार्थमभिनिर्दिश्य दुःखितो वाक्यमब्रवीत् ।। ५.६३.१२ ।।।। ॥५-६३-१२॥
Vālmīki 5.63.13
एवमुक्तस्तु सुग्रीवो लक्ष्मणेन महात्मना ।लक्ष्मणं प्रत्युवाचेदं वाक्यं वाक्यविशारदः ।। ५.६३.१३ ।।।। ॥५-६३-१३॥
Vālmīki 5.63.14
आर्य लक्ष्मण संप्राह वीरो दधिमुखः कपिः ।अङ्गदप्रमुखैर्वीरैर्भक्षितं मधु वानरैः ।। ५.६३.१४ ।।।। ॥५-६३-१४॥
Vālmīki 5.63.15
विचित्य दक्षिणामाशामागतैर्हरिपुङ्गवैः ।। ५.६३.१५ ।।।। ॥५-६३-१५॥
Vālmīki 5.63.16
नैषामकृतकृत्यानामीदृशः स्यादुपक्रमः ।आगतैश्च प्रमथितं यथा मधुवनं हि तैः ।। ५.६३.१६ ।।।। ॥५-६३-१६॥
Vālmīki 5.63.17
धर्षितं च वनं कृत्स्नमुपयुक्तं च वानरैः ।। ५.६३.१७ ।।।। ॥५-६३-१७॥
Vālmīki 5.63.18
वनं यदाभिपन्नास्ते साधितं कर्म वानरैः ।दृष्टा देवी न सन्देहो न चान्येन हनूमता ।न ह्यन्यः साधने हेतुः कर्मणो ऽस्य हनूमतः ।। ५.६३.१८ ।।।। ॥५-६३-१८॥
Vālmīki 5.63.19
कार्यसिद्धिर्मतिश्चैव तस्मिन् वानरपुङ्गवे ।व्यवसायश्च वीर्यं च श्रुतं चापि प्रतिष्ठितम् ।। ५.६३.१९ ।।।। ॥५-६३-१९॥
Vālmīki 5.63.20
जाम्बवान् यत्र नेता स्यादङ्गदश्च महाबलः ।हनूमांश्चाप्यधिष्ठाता न तस्य गतिरन्यथा ।। ५.६३.२० ।।।। ॥५-६३-२०॥
Vālmīki 5.63.21
अङ्गदप्रमुखैर्वीरैर्हतं मधुवनं किल ।वारयन्तश्च सहितास्तथा जानुभिराहताः ।। ५.६३.२१ ।।।। ॥५-६३-२१॥
Vālmīki 5.63.22
एतदर्थमयं प्राप्तो वक्तुं मधुरवागिह ।नाम्ना दधिमुखो नाम हरिः प्रख्यातविक्रमः ।। ५.६३.२२ ।।।। ॥५-६३-२२॥
Vālmīki 5.63.23
दृष्टा सीता महाबाहो सौमित्रे पश्य तत्त्वतः ।अभिगम्य तथासव- ?पिबन्ति मधु वानराः ।। ५.६३.२३ ।।।। ॥५-६३-२३॥
Vālmīki 5.63.24
न चाप्यदृष्ट्वा वैदेहीं विश्रुताः पुरुषर्षभ ।वनं दत्तवरं दिव्यं धर्षयेयुर्वनौकसः ।। ५.६३.२४ ।।।। ॥५-६३-२४॥
Vālmīki 5.63.25
ततः प्रहृष्टो धर्मात्मा लक्ष्मणः सहराघवः ।श्रुत्वा कर्णसुखां वाणीं सुग्रीववदनाच्च्युताम् ।प्राहृष्यत भृशं रामो लक्ष्मणश्च महाबलः ।। ५.६३.२५ ।।।। ॥५-६३-२५॥
Vālmīki 5.63.26
श्रुत्वा दधिमुखस्येदं सुग्रीवस्तु प्रहृष्य च ।वनपालं पुनर्वाक्यं सुग्रीवः प्रत्यभाषत ।। ५.६३.२६ ।।।। ॥५-६३-२६॥
Vālmīki 5.63.27
प्रीतो ऽस्मि सो ऽहं युद्भुक्तं वनं तैः कृतकर्मभिः ।मर्षितं मर्षणीयं च चेष्टितं कृतकर्मणाम् ।। ५.६३.२७ ।।।। ॥५-६३-२७॥
Vālmīki 5.63.28
इच्छामि शीघ्रं हनुमत्प्रधानान् शाखामृगांस्तान् मगृहराजदर्पान् ।द्रष्टुं कृतार्थान् सह राघवाभ्यां श्रोतुं च सीताधिगमे प्रयत्नम् ।। ५.६३.२८ ।।।। ॥५-६३-२८॥
Vālmīki 5.63.29
प्रीतिस्पीताक्षौ सम्प्रहृष्टौ कुमारौ दृष्ट्वा सिद्धार्थौ वानराणां च राजा ।अङ्गैः संहृष्टैः कर्मसिद्धिं विदित्वा बाह्वोरासन्नां सो ऽतिमात्रं ननन्द ॥५-६३-२९॥

Navigation

Continue with Sundara-Kāṇḍa, the seven-Kāṇḍa reading index, or the Rāmcharitamānas companion reading. Source and rights documentation remains available in the editorial standards.

🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷