🪷 सुन्दरकाण्ड · Sarga 64
Sundara-Kāṇḍa · The Book of Beauty · Sarga 64 · 39 ślokas
Vālmīki Detail Source-Anchor Spine
This sarga page exposes the exact local source route, parent Kāṇḍa, Rāma janma proof anchors where applicable, and the wider Vālmīki/Rāma source spine.
Vālmīki 5.64local sarga route with all Sanskrit ślokasSundara-Kāṇḍaparent Kāṇḍa sarga index/valmiki-ramayanamaster index for the 7 Kāṇḍas and 22,742 ślokasBāla 1.18Rāma-janma sarga and primary birth-spec anchorVālmīki 1.18.8first Rāma-janma astronomical śloka routeVālmīki 1.18.15closing verse of the janma-spec rangeVālmīki 2.26.9Bṛhaspati-Puṣya coronation-eve witness routeVālmīki 6.93.65war-window Krishna-pakṣa timing witnessVālmīki 6.103Rāvaṇa-vadha anchor doorway for the year+41 witness/ramaRāma-Krishna non-dual singularity and three-anchor proof surface/chart/ramapublished Rāma janma-kuṇḍalī output for the 1,626,102 BCE claimRāma janma dayreader-visible pañchāṅga/day output for the birth anchor/computational-moatSūrya-Siddhānta deep-time verification boundary/festival/rama-navamiCaitra Śukla Navamī festival mūrti-page/ramcharitamanasTulsidās bhakti voice of the same Rāma-līlāRāmopākhyānaVyāsa's Rāma-kathā inside the Mahābhārata/binduDiamond of Darśanas · Rāma/Krishna as one Bindu aperture/philosophyConstitutional Principles and Rāma-Krishna recognition
🪷 The Ślokas · canonical Devanāgarī Sanskrit yathārtha
सुग्रीवेणैवमुक्तस्तु हृष्टो दधिमुखः कपिः ।राघवं लक्ष्मणं चैव सुग्रीवं चाभ्यवादयत् ।। ५.६४.१ ।।।।
स प्रणम्य च सुग्रीवं राघवौ च महाबलौ ।वानरैः सहितैः शूरैर्दिवमेवोत्पपात ह ।। ५.६४.२ ।।।।
स यथैवागतः पूर्वं तथैव त्वरितं गतः ।निपत्य गगनाद्भूमौ तद्वनं प्रविवेश ह ।। ५.६४.३ ।।।।
स प्रविष्टो मधुवनं ददर्श हरियूथपान् ।विमदानुत्थितान् सर्वान् मेहमानान् मधूदकम् ।। ५.६४.४ ।।।।
स तानुपागमद्वीरो बद्ध्वा करपुटाञ्जलिम् ।उवाच वचनं श्लक्ष्णमिदं हृष्टवदङ्गदम् ।। ५.६४.५ ।।।।
सौम्य रोषो न कर्तव्यो यदेभिरभिवारितः ।अज्ञानाद्रक्षिभिः क्रोधाद्भवन्तः प्रतिषेधिताः ।। ५.६४.६ ।।।।
युवराजस्त्वमीशश्च वनस्यास्य महाबल ।मौर्ख्यात् पूर्वं कृतो दोषस्तं भवान् क्षन्तुमर्हति ।। ५.६४.७ ।।।।
आख्यातं हि मया गत्वा पितृव्यस्य तवानघ ।इहोपयातं सर्वेषामेतेषां वनचारिणाम् ।। ५.६४.८ ।।।।
स त्वदागमनं श्रुत्वा सहैभिर्हरियूथपैः ।प्रहृष्टो न तु रुष्टो ऽसौ वनं श्रुत्वा प्रधर्षितम् ।। ५.६४.९ ।।।।
प्रहृष्टो मां पितृव्यस्ते सुग्रीवो वानरेश्वरः ।शीघ्रं प्रेषय सर्वांस्तानिति होवाच पार्थिवः ।। ५.६४.१० ।।।।
श्रुत्वा दधिमुखस्येदं वचनं श्लक्ष्णमङ्गदः ।अब्रवीत्तान् हरिश्रेष्ठो वाक्यं वाक्यविशारदः ।। ५.६४.११ ।।।।
शङ्के श्रुतो ऽयं वृत्तान्तो रामेण हरियूथपाः ।तत्क्षमं नेह नः स्थातुं कृते कार्ये परन्तपाः ।। ५.६४.१२ ।।।।
पीत्वा मधु यथाकामं विश्रान्ता वनचारिणः ।किं शेषं गमनं तत्र सुग्रीवो यत्र मे गुरुः ।। ५.६४.१३ ।।।।
सर्वे यथा मां वक्ष्यन्ति समेत्य हरियूथपाः ।तथा ऽस्मि कर्ता कर्तव्ये भवद्भिः परवानहम् ।। ५.६४.१४ ।।।।
नाज्ञापयितुमीशो ऽहं युवराजो ऽस्मि यद्यपि ।अयुक्तं कृतकर्माणो यूयं धर्षयितुं मया ।। ५.६४.१५ ।।।।
ब्रुवतश्चाङ्गदश्यैवं श्रुत्वा वचनमव्ययम् ।प्रहृष्टमनसो वाक्यमिदमूचुर्वनौकसः ।। ५.६४.१६ ।।।।
एवं वक्ष्यति को राजन् प्रभुः सन् वानरर्षभ ।ऐश्वर्यमदमत्तो हि सर्वो ऽहमिति मन्यते ।। ५.६४.१७ ।।।।
तव चेदं सुसदृशं वाक्यं नान्यस्य कस्यचित् ।सन्नतिर्हि तवाख्याति भविष्यच्छुभयोग्यताम् ।। ५.६४.१८ ।।।।
सर्वे वयमपि प्राप्तास्तत्र गन्तुं कृतक्षणाः ।स यत्र हरिवीराणां सुग्रीवः पतिरव्ययः ।। ५.६४.१९ ।।।।
त्वया ह्यनुक्तैर्हरिभिर्नैव शक्यं पदात्पदम् ।क्वचिद्गन्तुं हरिश्रेष्ठ ब्रूमः सत्यमिदं तु ते ।। ५.६४.२० ।।।।
एवं तु वदतां तेषामङ्गदः प्रत्यभाषत ।बाढं गच्छाम इत्युक्त्वा खमुत्पेतुर्महाबलाः ।। ५.६४.२१ ।।।।
उत्पतन्तमनूत्पेतुः सर्वे ते हरियूथपाः ।कृत्वा ऽ ऽकाशं निराकाशं यन्त्रोत्क्षिप्ता इवाचलाः ।। ५.६४.२२ ।।।।
ते ऽम्बरं सहसोत्पत्य वेगवन्तः प्लवङ्गमाः ।विनदन्तो महानादं घना वातेरिता यथा ।। ५.६४.२३ ।।।।
अङ्गदे समनुप्राप्ते सुग्रीवो वानराधिपः ।उवाच शोकोपहतं रामं कमललोचनम् ।। ५.६४.२४ ।।।।
समाश्वसिहि भद्र ते दृष्टा देवी न संशयः ।नागन्तुमिह शक्यं तैरतीते समये हि नः ।। ५.६४.२५ ।।।।
न मत्सकाशमागच्छेत् कृत्ये हि विनिपातिते ।युवराजो महाबाहुः प्लवतां प्रवरो ऽङ्गदः ।। ५.६४.२६ ।।।।
यद्यप्यकृतकृत्यानामीदृशः स्यादुपक्रमः ।भवेत् स दीनवदनो भ्रान्तविप्लुतमानसः ।। ५.६४.२७ ।।।।
पितृपैतामहं चैतत् पूर्वकैरभिरक्षितम् ।न मे मधुवनं हन्यादहृष्टः प्लवगेश्वरः ।। ५.६४.२८ ।।।।
कौसल्या सुप्रजा राम समाश्वसिहि सुव्रत ।दृष्टा देवी न सन्देहो न चान्येन हनूमता ।। ५.६४.२९ ।।।।
न ह्यन्यः कर्मणो हेतुः साधने ऽस्य हनूमतः ।हनूमति हि सिद्धिश्च मतिश्च मतिसत्तम ।व्यवसायश्च वीर्यं च सूर्य तेज इव ध्रुवम् ।। ५.६४.३० ।।।।
जाम्बवान् यत्र नेता स्यादङ्गदश्च बलेश्वरः ।हनुमांश्चाप्यधिष्ठाता न तस्य गतिरन्यथा ।। ५.६४.३१ ।।।।
मा भूश्चिन्तासमायुक्तः सम्प्रत्यमितविक्रम ।। ५.६४.३२ ।।।।
ततः किलकिलाशब्दं शुश्रावासन्नमम्बरे ।हनुमत्कर्मदृप्तानां नर्दतां काननौकसाम् ।किष्किन्धामुपयातानां सिद्धिं कथयतामिव ।। ५.६४.३३ ।।।।
ततः श्रुत्वा निनादं तं कपीनां कपिसत्तमः ।आयताञ्चितलाङ्गूलः सो ऽभवद्धृष्टमानसः ।। ५.६४.३४ ।।।।
आजग्मुस्ते ऽपि हरयो रामदर्शनकांक्षिणः ।अङ्गदं पुरतः कृत्वा हनूमन्तं च वानरम् ।। ५.६४.३५ ।।।।
ते ऽङ्गदप्रमुखा वीराः प्रहृष्टाश्च मुदा ऽन्विताः ।निपेतुर्हरिराजस्य समीपे राघवस्य च ।। ५.६४.३६ ।।।।
हनुमांश्च महाबाहुः प्रणम्य शिरसा ततः ।नियतामक्षतां देवीं राघवाय न्यवेदयत् ।। ५.६४.३७ ।।।।
निश्चितार्थस्ततस्तस्मिन् सुग्रीवः पवनात्मजे ।लक्ष्मणः प्रीतिमान् प्रीतं बहुमानादवैक्षत ।। ५.६४.३८ ।।।।
प्रीत्या च रममाणो ऽथ राघवः परवीरहा ।बहुमानेन महता हनुमन्तमवैक्षत ।। ५.६४.३९ ।।
Navigation
- ← Previous: Sundara-Kāṇḍa Sarga 63
- Next: Sundara-Kāṇḍa Sarga 65 →
- Sundara-Kāṇḍa sarga-index
- Vālmīki Rāmāyaṇa master-index
- /rama · the non-dual singularity
🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷