🪷 सुन्दरकाण्ड · Sarga 64
Sundara-Kāṇḍa · The Book of Beauty · Sarga 64 · 39 ślokas
🪷 Devanāgarī Ślokas
सुग्रीवेणैवमुक्तस्तु हृष्टो दधिमुखः कपिः ।राघवं लक्ष्मणं चैव सुग्रीवं चाभ्यवादयत् ।। ५.६४.१ ।।।। ॥५-६४-१॥
स प्रणम्य च सुग्रीवं राघवौ च महाबलौ ।वानरैः सहितैः शूरैर्दिवमेवोत्पपात ह ।। ५.६४.२ ।।।। ॥५-६४-२॥
स यथैवागतः पूर्वं तथैव त्वरितं गतः ।निपत्य गगनाद्भूमौ तद्वनं प्रविवेश ह ।। ५.६४.३ ।।।। ॥५-६४-३॥
स प्रविष्टो मधुवनं ददर्श हरियूथपान् ।विमदानुत्थितान् सर्वान् मेहमानान् मधूदकम् ।। ५.६४.४ ।।।। ॥५-६४-४॥
स तानुपागमद्वीरो बद्ध्वा करपुटाञ्जलिम् ।उवाच वचनं श्लक्ष्णमिदं हृष्टवदङ्गदम् ।। ५.६४.५ ।।।। ॥५-६४-५॥
सौम्य रोषो न कर्तव्यो यदेभिरभिवारितः ।अज्ञानाद्रक्षिभिः क्रोधाद्भवन्तः प्रतिषेधिताः ।। ५.६४.६ ।।।। ॥५-६४-६॥
युवराजस्त्वमीशश्च वनस्यास्य महाबल ।मौर्ख्यात् पूर्वं कृतो दोषस्तं भवान् क्षन्तुमर्हति ।। ५.६४.७ ।।।। ॥५-६४-७॥
आख्यातं हि मया गत्वा पितृव्यस्य तवानघ ।इहोपयातं सर्वेषामेतेषां वनचारिणाम् ।। ५.६४.८ ।।।। ॥५-६४-८॥
स त्वदागमनं श्रुत्वा सहैभिर्हरियूथपैः ।प्रहृष्टो न तु रुष्टो ऽसौ वनं श्रुत्वा प्रधर्षितम् ।। ५.६४.९ ।।।। ॥५-६४-९॥
प्रहृष्टो मां पितृव्यस्ते सुग्रीवो वानरेश्वरः ।शीघ्रं प्रेषय सर्वांस्तानिति होवाच पार्थिवः ।। ५.६४.१० ।।।। ॥५-६४-१०॥
श्रुत्वा दधिमुखस्येदं वचनं श्लक्ष्णमङ्गदः ।अब्रवीत्तान् हरिश्रेष्ठो वाक्यं वाक्यविशारदः ।। ५.६४.११ ।।।। ॥५-६४-११॥
शङ्के श्रुतो ऽयं वृत्तान्तो रामेण हरियूथपाः ।तत्क्षमं नेह नः स्थातुं कृते कार्ये परन्तपाः ।। ५.६४.१२ ।।।। ॥५-६४-१२॥
पीत्वा मधु यथाकामं विश्रान्ता वनचारिणः ।किं शेषं गमनं तत्र सुग्रीवो यत्र मे गुरुः ।। ५.६४.१३ ।।।। ॥५-६४-१३॥
सर्वे यथा मां वक्ष्यन्ति समेत्य हरियूथपाः ।तथा ऽस्मि कर्ता कर्तव्ये भवद्भिः परवानहम् ।। ५.६४.१४ ।।।। ॥५-६४-१४॥
नाज्ञापयितुमीशो ऽहं युवराजो ऽस्मि यद्यपि ।अयुक्तं कृतकर्माणो यूयं धर्षयितुं मया ।। ५.६४.१५ ।।।। ॥५-६४-१५॥
ब्रुवतश्चाङ्गदश्यैवं श्रुत्वा वचनमव्ययम् ।प्रहृष्टमनसो वाक्यमिदमूचुर्वनौकसः ।। ५.६४.१६ ।।।। ॥५-६४-१६॥
एवं वक्ष्यति को राजन् प्रभुः सन् वानरर्षभ ।ऐश्वर्यमदमत्तो हि सर्वो ऽहमिति मन्यते ।। ५.६४.१७ ।।।। ॥५-६४-१७॥
तव चेदं सुसदृशं वाक्यं नान्यस्य कस्यचित् ।सन्नतिर्हि तवाख्याति भविष्यच्छुभयोग्यताम् ।। ५.६४.१८ ।।।। ॥५-६४-१८॥
सर्वे वयमपि प्राप्तास्तत्र गन्तुं कृतक्षणाः ।स यत्र हरिवीराणां सुग्रीवः पतिरव्ययः ।। ५.६४.१९ ।।।। ॥५-६४-१९॥
त्वया ह्यनुक्तैर्हरिभिर्नैव शक्यं पदात्पदम् ।क्वचिद्गन्तुं हरिश्रेष्ठ ब्रूमः सत्यमिदं तु ते ।। ५.६४.२० ।।।। ॥५-६४-२०॥
एवं तु वदतां तेषामङ्गदः प्रत्यभाषत ।बाढं गच्छाम इत्युक्त्वा खमुत्पेतुर्महाबलाः ।। ५.६४.२१ ।।।। ॥५-६४-२१॥
उत्पतन्तमनूत्पेतुः सर्वे ते हरियूथपाः ।कृत्वा ऽ ऽकाशं निराकाशं यन्त्रोत्क्षिप्ता इवाचलाः ।। ५.६४.२२ ।।।। ॥५-६४-२२॥
ते ऽम्बरं सहसोत्पत्य वेगवन्तः प्लवङ्गमाः ।विनदन्तो महानादं घना वातेरिता यथा ।। ५.६४.२३ ।।।। ॥५-६४-२३॥
अङ्गदे समनुप्राप्ते सुग्रीवो वानराधिपः ।उवाच शोकोपहतं रामं कमललोचनम् ।। ५.६४.२४ ।।।। ॥५-६४-२४॥
समाश्वसिहि भद्र ते दृष्टा देवी न संशयः ।नागन्तुमिह शक्यं तैरतीते समये हि नः ।। ५.६४.२५ ।।।। ॥५-६४-२५॥
न मत्सकाशमागच्छेत् कृत्ये हि विनिपातिते ।युवराजो महाबाहुः प्लवतां प्रवरो ऽङ्गदः ।। ५.६४.२६ ।।।। ॥५-६४-२६॥
यद्यप्यकृतकृत्यानामीदृशः स्यादुपक्रमः ।भवेत् स दीनवदनो भ्रान्तविप्लुतमानसः ।। ५.६४.२७ ।।।। ॥५-६४-२७॥
पितृपैतामहं चैतत् पूर्वकैरभिरक्षितम् ।न मे मधुवनं हन्यादहृष्टः प्लवगेश्वरः ।। ५.६४.२८ ।।।। ॥५-६४-२८॥
कौसल्या सुप्रजा राम समाश्वसिहि सुव्रत ।दृष्टा देवी न सन्देहो न चान्येन हनूमता ।। ५.६४.२९ ।।।। ॥५-६४-२९॥
न ह्यन्यः कर्मणो हेतुः साधने ऽस्य हनूमतः ।हनूमति हि सिद्धिश्च मतिश्च मतिसत्तम ।व्यवसायश्च वीर्यं च सूर्य तेज इव ध्रुवम् ।। ५.६४.३० ।।।। ॥५-६४-३०॥
जाम्बवान् यत्र नेता स्यादङ्गदश्च बलेश्वरः ।हनुमांश्चाप्यधिष्ठाता न तस्य गतिरन्यथा ।। ५.६४.३१ ।।।। ॥५-६४-३१॥
मा भूश्चिन्तासमायुक्तः सम्प्रत्यमितविक्रम ।। ५.६४.३२ ।।।। ॥५-६४-३२॥
ततः किलकिलाशब्दं शुश्रावासन्नमम्बरे ।हनुमत्कर्मदृप्तानां नर्दतां काननौकसाम् ।किष्किन्धामुपयातानां सिद्धिं कथयतामिव ।। ५.६४.३३ ।।।। ॥५-६४-३३॥
ततः श्रुत्वा निनादं तं कपीनां कपिसत्तमः ।आयताञ्चितलाङ्गूलः सो ऽभवद्धृष्टमानसः ।। ५.६४.३४ ।।।। ॥५-६४-३४॥
आजग्मुस्ते ऽपि हरयो रामदर्शनकांक्षिणः ।अङ्गदं पुरतः कृत्वा हनूमन्तं च वानरम् ।। ५.६४.३५ ।।।। ॥५-६४-३५॥
ते ऽङ्गदप्रमुखा वीराः प्रहृष्टाश्च मुदा ऽन्विताः ।निपेतुर्हरिराजस्य समीपे राघवस्य च ।। ५.६४.३६ ।।।। ॥५-६४-३६॥
हनुमांश्च महाबाहुः प्रणम्य शिरसा ततः ।नियतामक्षतां देवीं राघवाय न्यवेदयत् ।। ५.६४.३७ ।।।। ॥५-६४-३७॥
निश्चितार्थस्ततस्तस्मिन् सुग्रीवः पवनात्मजे ।लक्ष्मणः प्रीतिमान् प्रीतं बहुमानादवैक्षत ।। ५.६४.३८ ।।।। ॥५-६४-३८॥
प्रीत्या च रममाणो ऽथ राघवः परवीरहा ।बहुमानेन महता हनुमन्तमवैक्षत ॥५-६४-३९॥
Navigation
- ← Previous: Sundara-Kāṇḍa Sarga 63
- Next: Sundara-Kāṇḍa Sarga 65 →
- Sundara-Kāṇḍa sarga-index
- Vālmīki Rāmāyaṇa master-index
- /rama · the non-dual singularity
Continue with Sundara-Kāṇḍa, the seven-Kāṇḍa reading index, or the Rāmcharitamānas companion reading. Source and rights documentation remains available in the editorial standards.
🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷