🪷 सुन्दरकाण्ड · Sarga 62

Sundara-Kāṇḍa · The Book of Beauty · Sarga 62 · 40 ślokas

🪷 Devanāgarī Ślokas

Vālmīki 5.62.1
तानुवाच हरिश्रेष्ठो हनुमान् वानरर्षभः ।अव्यग्रमनसो यूयं मधु सेवत वानराः ।अहमावारयिष्यामि युष्माकं परिपन्थिनः ।। ५.६२.१ ।।।। ॥५-६२-१॥
Vālmīki 5.62.2
श्रुत्वा हनुमतो वाक्यं हरीणां प्रवरो ऽङ्गदः ।प्रत्युवाच प्रसन्नात्मा पिबन्तु हरयो मधु ।। ५.६२.२ ।।।। ॥५-६२-२॥
Vālmīki 5.62.3
अवश्यं कृतकार्यस्य वाक्यं हनुमतो मया ।अकार्यमपि कर्तव्यं किमङ्ग पुनरीदृशम् ।। ५.६२.३ ।।।। ॥५-६२-३॥
Vālmīki 5.62.4
अङ्गदस्य मुखाच्छ्रुत्वा वचनं वानरर्षभाः ।साधु साध्विति संहृष्टा वानराः प्रत्यपूजयन् ।। ५.६२.४ ।।।। ॥५-६२-४॥
Vālmīki 5.62.5
पूजयित्वा ऽङ्गदं सर्वे वानरा वानरर्षभम् ।जग्मुर्मधुवनं यत्र नदीवेगा इव द्रुतम् ।। ५.६२.५ ।।।। ॥५-६२-५॥
Vālmīki 5.62.6
ते प्रविष्टा मधुवनं पालानाक्रम्य वीर्यतः ।। ५.६२.६ ।।।। ॥५-६२-६॥
Vālmīki 5.62.7
अतिसर्गाच्च पटवो दृष्ट्वा श्रुत्वा च मैथिलीम् ।पपुः सर्वे मधु तदा रसवत् फलमाददुः ।। ५.६२.७ ।।।। ॥५-६२-७॥
Vālmīki 5.62.8
उत्पत्य च ततः सर्वे वनपालान् समागतान् ।ताडयन्ति स्म शतशः सक्तान् मधुवने तदा ।। ५.६२.८ ।।।। ॥५-६२-८॥
Vālmīki 5.62.9
मधूनि द्रोणमात्राणि बाहुभिः परिगृह्य ते ।पिबन्ति सहिताः सर्वे निघ्नन्ति स्म तथा ऽपरे ।। ५.६२.९ ।।।। ॥५-६२-९॥
Vālmīki 5.62.10
केचित्पीत्वा ऽपविध्यन्ति मधूनि मधुपिङ्गलाः ।मधूच्छिष्टेन केचिच्च जघ्नुरन्योन्यमुत्कटाः ।। ५.६२.१० ।।।। ॥५-६२-१०॥
Vālmīki 5.62.11
अपरे वृक्षमूले तु शाखां गृह्य व्यवस्थिताः ।अत्यर्थं च मदग्लानाः पर्णान्यास्तीर्य शेरते ।। ५.६२.११ ।।।। ॥५-६२-११॥
Vālmīki 5.62.12
उन्मत्तभूताः प्लवगा मधुमत्ताश्च हृष्टवत् ।क्षिपन्ति च तदा ऽन्योन्यं स्खलन्ति च तथा ऽपरे ।। ५.६२.१२ ।।।। ॥५-६२-१२॥
Vālmīki 5.62.13
केचित् क्ष्वेलां प्रकुर्वन्ति केचित् कूजन्ति हृष्टवत् ।हरयो मधुना मत्ताः केचित् सुप्ता महीतले ।। ५.६२.१३ ।।।। ॥५-६२-१३॥
Vālmīki 5.62.14
कृत्वा केचिद्धसन्त्यन्ये केचित् कुर्वन्ति चेतरत् ।कृत्वा केचिद्वदन्त्यन्ये केचिद्बुद्ध्यन्ति चेतरत् ।। ५.६२.१४ ।।।। ॥५-६२-१४॥
Vālmīki 5.62.15
ये ऽप्यत्र मधुपालाः स्युः प्रेष्या दधिमुखस्य तु ।ते ऽपि तैर्वानरैर्भीमैः प्रतिषिद्धा दिशो गताः ।। ५.६२.१५ ।।।। ॥५-६२-१५॥
Vālmīki 5.62.16
जानुभिस्तु प्रकृष्टाश्च देवमार्गं प्रदर्शिताः ।अब्रुवन् परमोद्विग्ना गत्वा दधिमुखं वचः ।। ५.६२.१६ ।।।। ॥५-६२-१६॥
Vālmīki 5.62.17
हनूमता दत्तवरैर्हतं मधुवनं बलात् ।वयं च जानुभिः कृष्टा देवमार्गं च दर्शिताः ।। ५.६२.१७ ।।।। ॥५-६२-१७॥
Vālmīki 5.62.18
ततो दधिमुखः क्रुद्धो वनपस्तत्र वानरः ।हतं मधुवनं श्रुत्वा सान्त्वयामास तान् हरीन् ।। ५.६२.१८ ।।।। ॥५-६२-१८॥
Vālmīki 5.62.19
इहागच्छत गच्छामो वानरान् बलदर्पितान् ।बलेन वारयिष्यामो मधु भक्षयतो वयम् ।। ५.६२.१९ ।।।। ॥५-६२-१९॥
Vālmīki 5.62.20
श्रुत्वा दधिमुखस्येदं वचनं वानरर्षभाः ।पुनर्वीरा मधुवनं तेनैव सहसा ययुः ।। ५.६२.२० ।।।। ॥५-६२-२०॥
Vālmīki 5.62.21
मध्ये चैषां दधिमुखः प्रगृह्य तरसा तरुम् ।समभ्यधावद्वेगेन ते च सर्वे प्लवङ्गमाः ।। ५.६२.२१ ।।।। ॥५-६२-२१॥
Vālmīki 5.62.22
ते शिलाः पादपांश्चापि पर्वतांश्चापि वानराः ।गृहीत्वा ऽभ्यगमन् क्रुद्धा यत्र ते कपिकुञ्जराः ।। ५.६२.२२ ।।।। ॥५-६२-२२॥
Vālmīki 5.62.23
ते स्वामिवचनं वीरा हृदयेष्ववसज्य तत् ।त्वरया ह्यभ्यधावन्त सालतालशिलायुधाः ।। ५.६२.२३ ।।।। ॥५-६२-२३॥
Vālmīki 5.62.24
वृक्षस्थांश्च तलस्थांश्च वानरान् बलदर्पितान् ।अभ्यक्रामंस्ततो वीराः पालास्तत्र सहस्रशः ।। ५.६२.२४ ।।।। ॥५-६२-२४॥
Vālmīki 5.62.25
अथ दृष्ट्वा दधिमुखं क्रुद्धं वानरपुङ्गवाः ।अभ्यधावन्त वेगेन हनुमत्प्रमुखास्तदा ।। ५.६२.२५ ।।।। ॥५-६२-२५॥
Vālmīki 5.62.26
तं सवृक्षं महाबाहुमापतन्तं महाबलम् ।आर्यकं प्राहरत्तत्र बाहुभ्यां कुपितो ऽङ्गदः ।। ५.६२.२६ ।।।। ॥५-६२-२६॥
Vālmīki 5.62.27
मदान्धश्च न वेदैनमार्यको ऽयं ममेति सः ।अथैनं निष्पिपेषाशु वेगवद्वसुधातले ।। ५.६२.२७ ।।।। ॥५-६२-२७॥
Vālmīki 5.62.28
स भग्नबाहूरुभुजो विह्वलः शोणितोक्षितः ।मुमोह सहसा वीरो मुहूर्तं कपिकुञ्जरः ।। ५.६२.२८ ।।।। ॥५-६२-२८॥
Vālmīki 5.62.29
स समाश्वस्य सहसा संक्रुद्धो राजमातुलः ।वानरान् वारयामास दण्डेन मधुमोहितान् ।। ५.६२.२९ ।।।। ॥५-६२-२९॥
Vālmīki 5.62.30
स कथंचिद्विमुक्तस्तैर्वानरैर्वानरर्षभः ।उवाचैकान्तमाश्रित्य भृत्यान् स्वान् समुपागतान् ।। ५.६२.३० ।।।। ॥५-६२-३०॥
Vālmīki 5.62.31
एते तिष्ठन्तु गच्छामो भर्ता नो यत्र वानरः ।सुग्रीवो विपुलग्रीवः सह रामेण तिष्ठति ।। ५.६२.३१ ।।।। ॥५-६२-३१॥
Vālmīki 5.62.32
सर्वं चैवाङ्गदे दोषं श्रावयिष्यामि पार्थिवे ।अमर्षी वचनं श्रुत्वा घातयिष्यति वानरान् ।। ५.६२.३२ ।।।। ॥५-६२-३२॥
Vālmīki 5.62.33
इष्टं मधुवनं ह्येतत् सुग्रीवस्य महात्मनः ।पितृपैतामहं दिव्यं देवैरपि दुरासदम् ।। ५.६२.३३ ।।।। ॥५-६२-३३॥
Vālmīki 5.62.34
स वानरानिमान् सर्वान् मधुलुब्धान् गतायुषः ।घातयिष्यति दण्डेन सुग्रीवः ससुहृज्जनान् ।। ५.६२.३४ ।।।। ॥५-६२-३४॥
Vālmīki 5.62.35
वध्या ह्येते दुरात्मानो नृपाज्ञापरिभाविनः ।अमर्षप्रभवो रोषः सफलो नो भविष्यति ।। ५.६२.३५ ।।।। ॥५-६२-३५॥
Vālmīki 5.62.36
एवमुक्त्वा दधिमुखो वनपालान् महाबलः ।जगाम सहसोत्पत्य वनपालैः समन्वितः ।। ५.६२.३६ ।।।। ॥५-६२-३६॥
Vālmīki 5.62.37
निमेषान्तरमात्रेण स हि प्राप्तो वनालयः ।सहस्रांशुसुतो धीमान् सुग्रीवो यत्र वानरः ।। ५.६२.३७ ।।।। ॥५-६२-३७॥
Vālmīki 5.62.38
रामं च लक्ष्मणं चैव दृष्ट्वा सुग्रीवमेव च ।समप्रतिष्ठां जगतीमाकाशान्निपपात ह ।। ५.६२.३८ ।।।। ॥५-६२-३८॥
Vālmīki 5.62.39
सन्निपत्य महावीर्यः सर्वैस्तैः परिवारितः ।हरिर्दधिमुखः पालैः पालानां परमेश्वरः ।। ५.६२.३९ ।।।। ॥५-६२-३९॥
Vālmīki 5.62.40
स दीनवदनो भूत्वा कृत्वा शिरसि चाञ्जलिम् ।सुग्रीवस्य शुभौ मूर्ध्ना चरणौ प्रत्यपीडयत् ॥५-६२-४०॥

Navigation

Continue with Sundara-Kāṇḍa, the seven-Kāṇḍa reading index, or the Rāmcharitamānas companion reading. Source and rights documentation remains available in the editorial standards.

🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷