🪷 सुन्दरकाण्ड · Sarga 61

Sundara-Kāṇḍa · The Book of Beauty · Sarga 61 · 23 ślokas

🪷 Devanāgarī Ślokas

Vālmīki 5.61.1
ततो जाम्बवतो वाक्यमगृह्णन्त वनौकसः ।अङ्गदप्रमुखा वीरा हनूमांश्च महाकपिः ।। ५.६१.१ ।।।। ॥५-६१-१॥
Vālmīki 5.61.2
प्रीतिमन्तस्ततः सर्वे वायुपुत्रपुरस्सराः ।महेन्द्राद्रिं परित्यज्य पुप्लुवुः प्लवगर्षभाः ।। ५.६१.२ ।।।। ॥५-६१-२॥
Vālmīki 5.61.3
मेरुमन्दरसङ्काशा मत्ता इव महागजाः ।छादयन्त इवाकाशं महाकाया महाबलाः ।। ५.६१.३ ।।।। ॥५-६१-३॥
Vālmīki 5.61.4
सभाज्यमानं भूतैस्तमात्मवन्तं महाबलम् ।हनूमन्तं महावेगं वहन्त इव दृष्टिभिः ।। ५.६१.४ ।।।। ॥५-६१-४॥
Vālmīki 5.61.5
राघवे चार्थनिर्वृत्तिं कर्तुं च परमं यशः ।समाधाय समृद्धार्थाः कर्मसिद्धिभिरुन्नताः ।। ५.६१.५ ।।।। ॥५-६१-५॥
Vālmīki 5.61.6
प्रियाख्यानोन्मुखाः सर्वे सर्वे युद्धाभिनन्दिनः ।सर्वे रामप्रतीकारे निश्चितार्था मनस्विनः ।। ५.६१.६ ।।।। ॥५-६१-६॥
Vālmīki 5.61.7
प्लवमानाः खमाप्लुत्य ततस्ते काननौकसः ।नन्दनोपममासेदुर्वनं द्रुमलतायुतम् ।। ५.६१.७ ।।।। ॥५-६१-७॥
Vālmīki 5.61.8
यत्तन्मधुवनं नाम सुग्रीवस्याभिरक्षितम् ।अधृष्यं सर्वभूतानां सर्वभूतमनोहरम् ।। ५.६१.८ ।।।। ॥५-६१-८॥
Vālmīki 5.61.9
यद्रक्षति महावीर्यः सदा दधिमुखः कपिः ।मातुलः कपिमुख्यस्य सुग्रीवस्य महात्मनः ।। ५.६१.९ ।।।। ॥५-६१-९॥
Vālmīki 5.61.10
ते तद्वनमुपागम्य बभूवुः परमोत्कटाः ।वानरा वानरेन्द्रस्य मनः कान्ततमं महत् ।। ५.६१.१० ।।।। ॥५-६१-१०॥
Vālmīki 5.61.11
ततस्ते वानरा हृष्टा दृष्ट्वा मधुवनं महत् ।कुमारमभ्ययाचन्त मधूनि मधुपिङ्गलाः ।। ५.६१.११ ।।।। ॥५-६१-११॥
Vālmīki 5.61.12
ततः कुमारस्तान् वृद्धाञ्जाम्बवत्प्रमुखान् कपीन् ।अनुमान्य ददौ तेषां निसर्गं मधुभक्षणे ।। ५.६१.१२ ।।।। ॥५-६१-१२॥
Vālmīki 5.61.13
अङ्गदेनानुमतास्सन्तस्ततो मुदिताः तत्प्रेरिताः प्रनृत्यन्तो ऽभवन् ।। ५.६१.१३ ।।।। ॥५-६१-१३॥
Vālmīki 5.61.14
गायन्ति केचित् प्रणमन्ति केचिन्नृत्यन्ति केचित् प्रहसन्ति केचित् ।पतन्ति केचिद्विचरन्ति केचित् प्लवन्ति केचित् प्रलपन्ति केचित् ।। ५.६१.१४ ।।।। ॥५-६१-१४॥
Vālmīki 5.61.15
परस्परं केचिदुपाश्रयन्ते परस्परं केचिदुपाक्रमन्ते ।परस्परं केचिदुपब्रुवन्ते परस्परं केचिदुपारमन्ते ।। ५.६१.१५ ।।।। ॥५-६१-१५॥
Vālmīki 5.61.16
द्रुमाद् द्रुमं केचिदभिद्रवन्ते क्षितौ नगाग्रान्निपतन्ति केचित् ।महीतलात् केचिदुदीर्णवेगा महाद्रुमाग्राण्यभिसम्पतन्ति ।। ५.६१.१६ ।।।। ॥५-६१-१६॥
Vālmīki 5.61.17
गायन्तमन्यः प्रहसन्नुपैति हसन्तमन्यः प्ररुदन्नुपैति ।रुदन्तमन्यः प्रणुदन्नुपैति नुदन्तमन्यः प्रणदन्नुपैति ।। ५.६१.१७ ।।।। ॥५-६१-१७॥
Vālmīki 5.61.18
समाकुलं तत्कपिसैन्यमासीन्मधुप्रपानोत्कटसत्त्वचेष्टम् ।न चात्र कश्चिन्न बभूव मत्तो न चात्र कश्चिन्न बभूव तृप्तः ।। ५.६१.१८ ।।।। ॥५-६१-१८॥
Vālmīki 5.61.19
ततो वनं तत्परिभक्ष्यमाणं द्रुमांश्च विध्वंसितपत्रपुष्पान् ।समीक्ष्य कोपदृधिवक्रनामा निवारयामास कपिः कपींस्तान् ।। ५.६१.१९ ।।।। ॥५-६१-१९॥
Vālmīki 5.61.20
स तैः प्रवृद्धैः परिभर्त्स्यमानो वनस्य गोप्ता हरिवीरवृद्धः ।चकार भूयो मतिमुग्रतेजा वनस्य रक्षां प्रति वानरेभ्यः ।। ५.६१.२० ।।।। ॥५-६१-२०॥
Vālmīki 5.61.21
उवाच कांश्चित् परुषाणि धृष्टमसक्तमन्यांश्च तलैर्जवान ।समेत्य कैश्चित् कलहं चकार तथैव साम्नोपजगाम कंश्चित् ।। ५.६१.२१ ।।।। ॥५-६१-२१॥
Vālmīki 5.61.22
स तैर्मदात् सम्परिवार्य वाक्यैर्बलाच्च तेन प्रतिवार्यमाणैः ।प्रधर्षितस्त्यक्तभयैः समेत्य प्रकृष्यते चाप्यनवेक्ष्य दोषम् ।। ५.६१.२२ ।।।। ॥५-६१-२२॥
Vālmīki 5.61.23
नखैस्तुदन्तो दशनैर्दशन्तस्तलैश्च पादैश्च समापयन्तः ।मदात् कपिं तं कपयः समग्रा महावनं निर्विषयं च चक्रुः ॥५-६१-२३॥

Navigation

Continue with Sundara-Kāṇḍa, the seven-Kāṇḍa reading index, or the Rāmcharitamānas companion reading. Source and rights documentation remains available in the editorial standards.

🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷