🪷 सुन्दरकाण्ड · Sarga 60

Sundara-Kāṇḍa · The Book of Beauty · Sarga 60 · 7 ślokas

🪷 Devanāgarī Ślokas

Vālmīki 5.60.1
तस्य तद्वचनं श्रुत्वा वालिसूनुरभाषत ।। ५.६०.१ ।।।। ॥५-६०-१॥
Vālmīki 5.60.2
अयुक्तं तु विना देवीं दृष्टवद्भिश्च वानराः ।समीपं गन्तुमस्माभी राघवस्य महात्मनः ।। ५.६०.२ ।।।। ॥५-६०-२॥
Vālmīki 5.60.3
दृष्टा देवी न चानीता इति तत्र निवेदनम् ।अयुक्तमिव पश्यामि भवद्भिः ख्यातविक्रमैः ।। ५.६०.३ ।।।। ॥५-६०-३॥
Vālmīki 5.60.4
न हि नः प्लवने कश्चिन्नापि कश्चित्पराक्रमे ।तुल्यः सामरदैत्येषु लोकेषु हरिसत्तमाः ।। ५.६०.४ ।।।। ॥५-६०-४॥
Vālmīki 5.60.5
तेष्वेवं हतवीरेषु राक्षसेषु हनूमता ।किमन्यदत्र कर्तव्यं गृहीत्वा याम जानकीम् ।। ५.६०.५ ।।।। ॥५-६०-५॥
Vālmīki 5.60.6
तमेवं कृतसङ्कल्पं जाम्बवान् हरिसत्तमः ।उवाच परमप्रीतो वाक्यमर्थवदर्थवित् ।। ५.६०.६ ।।।। ॥५-६०-६॥
Vālmīki 5.60.7
न तावदेषा मतिरक्षमा नो यथा भवान् पश्यति राजपुत्र ।यथा तु रामस्य मतिर्निविष्टा तथा भवान् पश्यतु कार्यसिद्धम् ॥५-६०-७॥

Navigation

Continue with Sundara-Kāṇḍa, the seven-Kāṇḍa reading index, or the Rāmcharitamānas companion reading. Source and rights documentation remains available in the editorial standards.

🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷