🪷 सुन्दरकाण्ड · Sarga 59

Sundara-Kāṇḍa · The Book of Beauty · Sarga 59 · 36 ślokas

🪷 Devanāgarī Ślokas

Vālmīki 5.59.1
एतदाख्याय तत्सर्वं हनुमान् मारुतात्मजः ।भूयः समुपचक्राम वचनं वक्तुमुत्तरम् ।। ५.५९.१ ।।।। ॥५-५९-१॥
Vālmīki 5.59.2
सफलो राघवोद्योगः सुग्रीवस्य च संभ्रमः ।शीलमासाद्य सीताया मम च प्रवणं मनः ।। ५.५९.२ ।।।। ॥५-५९-२॥
Vālmīki 5.59.3
तपसा धारयेल्लोकान् क्रुद्धो वा निर्दहेदपि ।सर्वथा ऽतिप्रवृद्धो ऽसौ रावणो राक्षसाधिपः ।तस्य तां स्पृशतो गात्रं तपसा न विनाशितम् ।। ५.५९.३ ।।।। ॥५-५९-३॥
Vālmīki 5.59.4
न तदग्निशिखा कुर्यात् संस्पृष्टा पाणिना सती ।जनकस्यात्मजा कुर्याद्यत् क्रोधकलुषीकृता ।। ५.५९.४ ।।।। ॥५-५९-४॥
Vālmīki 5.59.5
जाम्बवत्प्रमुखान् सर्वाननुज्ञाप्य महाहरीन् ।अस्मिन्नेवंगते कार्ये भवतां च निवेदिते ।। ५.५९.५ ।।।। ॥५-५९-५॥
Vālmīki 5.59.6
न्याय्यं स्म सह वैदेह्या द्रष्टुं तौ पार्थिवात्मजौ ।। ५.५९.६ ।।।। ॥५-५९-६॥
Vālmīki 5.59.7
अहमेको ऽपि पर्याप्तः सराक्षसगणां पुरीम् ।तां लङ्कां तपसा हन्तुं रावणं च महाबलम् ।। ५.५९.७ ।।।। ॥५-५९-७॥
Vālmīki 5.59.8
किं पुनः सहितो वीरैर्बलवद्भिः कृतात्मभिः ।कृतास्त्रैः प्लवगैः शूरैर्भवद्भिर्विजयैषिभिः ।। ५.५९.८ ।।।। ॥५-५९-८॥
Vālmīki 5.59.9
अहं तु रावणं युद्धे ससैन्यं सपुरस्सरम् ।सहपुत्रं वधिष्यामि सहोदरयुतं युधि ।। ५.५९.९ ।।।। ॥५-५९-९॥
Vālmīki 5.59.10
ब्राह्ममैन्द्रं च रौद्रं च वायव्यं वारुणं तथा ।यदि शक्रजितो ऽस्त्राणि दुर्निरीक्षाणि संयुगे ।। ५.५९.१० ।।।। ॥५-५९-१०॥
Vālmīki 5.59.11
तान्यहं विधामिष्यामि निहनिष्यामि राक्षसान् ।भवतामभ्यनुज्ञातो विक्रमो मे रुणाद्धि तम् ।। ५.५९.११ ।।।। ॥५-५९-११॥
Vālmīki 5.59.12
मया ऽतुला विसृष्टा हि शैलवृष्टिर्निरन्तरा ।देवानपि रणे हन्यात् किं पुनस्तान्निशाचरान् ।। ५.५९.१२ ।।।। ॥५-५९-१२॥
Vālmīki 5.59.13
सागरो ऽप्यतियाद्वेलां मन्दरः प्रचलेदपि ।न जाम्बवन्तं समरे कम्पयेदरिवाहिनी ।। ५.५९.१३ ।।।। ॥५-५९-१३॥
Vālmīki 5.59.14
सर्वराक्षससङ्घानां राक्षसा ये च पूर्वकाः ।अलमेको विनाशाय वीरो वालिसुतः कपिः ।। ५.५९.१४ ।।।। ॥५-५९-१४॥
Vālmīki 5.59.15
पनसस्योरुवेगेन नीलस्य च महात्मनः ।मन्दरो ऽप्यवशीर्येत किं पुनर्युधि राक्षसाः ।। ५.५९.१५ ।।।। ॥५-५९-१५॥
Vālmīki 5.59.16
सदेवासुरयक्षेषु गन्धर्वोरगपक्षिषु ।मैन्दस्य प्रतियोद्धारं शंसत द्विविदस्य वा ।। ५.५९.१६ ।।।। ॥५-५९-१६॥
Vālmīki 5.59.17
अश्विपुत्रौ महाभागावेतौ प्लवगसत्तमौ ।एतयोः प्रतियोद्धारं न पश्यामि रणाजिरे ।। ५.५९.१७ ।।।। ॥५-५९-१७॥
Vālmīki 5.59.18
पितामहवरोत्सेकात् परमं दर्पमास्थितौ ।अमृतप्राशिनावेतौ सर्ववानरसत्तमौ ।। ५.५९.१८ ।।।। ॥५-५९-१८॥
Vālmīki 5.59.19
अश्विनोर्माननार्थं हि सर्वलोकपितामहः ।सर्वावध्यत्वमतुलमनयोर्दत्तवान् पुरा ।। ५.५९.१९ ।।।। ॥५-५९-१९॥
Vālmīki 5.59.20
करोत्सेकेन मुक्तौ च प्रमथ्य महतीं चमूम् ।सुराणाममृतं वीरौ पीतवन्तौ प्लवङ्गमौ ।। ५.५९.२० ।।।। ॥५-५९-२०॥
Vālmīki 5.59.21
एतावेव हि संक्रुद्धौ सवाजिरथकुञ्जराम् ।लङ्कां नाशयितुं शक्तौ सर्वे तिष्ठन्तु वानराः ।। ५.५९.२१ ।।।। ॥५-५९-२१॥
Vālmīki 5.59.22
मयैव निहता लङ्कां दग्धा भस्मीकृता पुनः ।राजमार्गेषु सर्वत्र नाम विश्रावितं मया ।। ५.५९.२२ ।।।। ॥५-५९-२२॥
Vālmīki 5.59.23
जयत्यतिबलो रामो लक्ष्मणश्च महाबलः ।राजा जयति सुग्रीवो राघवेणाभिपालितः ।। ५.५९.२३ ।।।। ॥५-५९-२३॥
Vālmīki 5.59.24
अहं कोसलराजस्य दासः पवनसम्भवः ।हनुमानिति सर्वत्र नाम विश्रावितं मया ।। ५.५९.२४ ।।।। ॥५-५९-२४॥
Vālmīki 5.59.25
अशोकवनिकामध्ये रावणस्य दुरात्मनः ।अधस्ताच्छिंशुपावृक्षे साध्वी करुणमास्थिता ।। ५.५९.२५ ।।।। ॥५-५९-२५॥
Vālmīki 5.59.26
राक्षसीभिः परिवृता शोकसन्तापकर्शिता ।मेघलेखापरिवृता चन्द्रलेखेव निष्प्रभा ।अचिन्तयन्ती वैदेही रावणं बलदर्पितम् ।। ५.५९.२६ ।।।। ॥५-५९-२६॥
Vālmīki 5.59.27
पतिव्रता च सुश्रोणी अवष्टब्धा च जानकी ॥५-५९-२७॥
Vālmīki 5.59.28
वृता चन्द्रलेखेव निष्प्रभा ।अनुरक्ता हि वैदेही रामं सर्वात्मना शुभा ।अनन्यचित्ता रामे च पौलोमीव पुरन्दरे ।। ५.५९.२८ ।।।। ॥५-५९-२८॥
Vālmīki 5.59.29
तदेकवासः संवीता रजोध्वस्ता तथैव च ।शोकसन्तापदीनाङ्गी सीता भर्तृहिते रता ।। ५.५९.२९ ।।।। ॥५-५९-२९॥
Vālmīki 5.59.30
सा मया राक्षसीमध्ये तर्ज्यमाना मुहुर्मुहुः ।राक्षसीभिर्विरूपाभिर्दृष्टा हि प्रमदावने ।। ५.५९.३० ।।।। ॥५-५९-३०॥
Vālmīki 5.59.31
एकवेणीधरा दीना भर्तृचिन्तापरायणा ।अधः शय्या विवर्णाङ्गी पद्मिनीव हिमागमे ।। ५.५९.३१ ।।।। ॥५-५९-३१॥
Vālmīki 5.59.32
रावणाद् विनिवृत्तार्था मर्तव्यकृतनिश्चया ।कथंचिन्मृगशावाक्षी विश्वासमुपपादिता ।। ५.५९.३२ ।।।। ॥५-५९-३२॥
Vālmīki 5.59.33
ततः सम्भाषिता चैव सर्वमर्थं च दर्शिता ।रामसुग्रीवसख्यं च श्रुत्वा प्रीतिमुपागता ।। ५.५९.३३ ।।।। ॥५-५९-३३॥
Vālmīki 5.59.34
नियतः समुदाचारो भक्तिर्भर्तरि चोत्तमा ।यन्न हन्ति दशग्रीवं स महात्मा कृतागसम् ।निमित्तमात्रं रामस्तु वधे तस्य भविष्यति ।। ५.५९.३४ ।।।। ॥५-५९-३४॥
Vālmīki 5.59.35
सा प्रकृत्यैव तन्वङ्गी तद्वियोगाच्च कर्शिता ।प्रतिपत्पाठशीलस्य विद्येव तनुतां गता ।। ५.५९.३५ ।।।। ॥५-५९-३५॥
Vālmīki 5.59.36
एवमास्ते महाभागा सीता शोकपरायणा ।यदत्र प्रतिकर्तव्यं तत्सर्वमुपपद्यताम् ॥५-५९-३६॥

Navigation

Continue with Sundara-Kāṇḍa, the seven-Kāṇḍa reading index, or the Rāmcharitamānas companion reading. Source and rights documentation remains available in the editorial standards.

🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷