🪷 सुन्दरकाण्ड · Sarga 58
Sundara-Kāṇḍa · The Book of Beauty · Sarga 58 · 167 ślokas
🪷 Devanāgarī Ślokas
ततस्तस्य गिरेः शृङ्गे महेन्द्रस्य महाबलाः ।हनुमत्प्रमुखाः प्रीतिं हरयो जग्मुरुत्तमाम् ।। ५.५८.१ ।।।। ॥५-५८-१॥
तं ततः प्रीतिसंहृष्टः प्रीतिमन्तं महाकपिम् ।जाम्बवान् कार्यवृत्तान्तमष्टच्छदनिलात्मजम् ।। ५.५८.२ ।।।। ॥५-५८-२॥
कथं दृष्टा त्वया देवी कथं वा तत्र वर्तते ।तस्यां वा स कथंवृत्तः क्रूरकर्मा दशाननः ।। ५.५८.३ ।।।। ॥५-५८-३॥
तत्त्वतः सर्वमेतन्नः प्रबूहि त्वं महाकपे ।श्रुतार्थाश्चिन्तयिष्यामो भूयः कार्यविनिश्चयम् ।। ५.५८.४ ।।।। ॥५-५८-४॥
यश्चार्थस्तत्र वक्तव्यो गतैरस्माभिरात्मवान् ।रक्षितव्यं च यत्तत्र तद्भवान् व्याकरोतु नः ।। ५.५८.५ ।।।। ॥५-५८-५॥
स नियुक्तस्ततस्तेन संप्रहृष्टतनूरुहः ।प्रणम्य शिरसा देव्यै सीतायै प्रत्यभाषत ।। ५.५८.६ ।।।। ॥५-५८-६॥
प्रत्यक्षमेव भवतां महेन्द्राग्रात् खमाप्लुतः ।उदधेर्दक्षिणं पारं कांक्षमाणः समाहितः ।। ५.५८.७ ।।।। ॥५-५८-७॥
गच्छतश्च हि मे घोरं विघ्नरूपमिवाभवत् ।काञ्चनं शिखरं दिव्यं पश्यामि सुमनोहरम् ।। ५.५८.८।।।। ॥५-५८-८॥
स्थितं पन्थानमावृत्य मेने विघ्नं च तं नगम् ।। ५.५८.९ ।।।। ॥५-५८-९॥
उपसङ्गम्य तं दिव्यं काञ्चनं नगसत्तमम् ।कृता मे मनसा बुद्धिर्भेत्तव्यो ऽयं मयेति च ।। ५.५८.१० ।।।। ॥५-५८-१०॥
प्रहतं च मया तस्य लांगूलेन महागिरेः ।शिखरं सूर्यसङ्काशं व्यशीर्यत सहस्रधा ।। ५.५८.११ ।।११७ ।।।। ॥५-५८-११॥
व्यवसायं च तं बुद्ध्वा स होवाच महागिरिः ।पुत्रेति मधुरां वाणीं मनः प्रह्लादयन्निव ।। ५.५८.१२ ।।।। ॥५-५८-१२॥
पितृव्यं चापि मां विद्धि सखायं मातरिश्वनः ।मैनाकमिति विख्यातं निवसन्तं महोदधौ ।। ५.५८.१३ ।।।। ॥५-५८-१३॥
पक्षवन्तः पुरा पुत्र बभूवुः पर्वतोत्तमाः ।छन्दतः पृथिवीं चेरुर्बाधमानाः समन्ततः ।। ५.५८.१४ ।।।। ॥५-५८-१४॥
श्रुत्वा नगानां चरितं महेन्द्रः पाकशासनः ।चिच्छेद भगवान् पक्षान् वज्रेणैषां सहस्रशः ।। ५.५८.१५ ।।।। ॥५-५८-१५॥
अहं तु मोक्षितस्तस्मात्तव पित्रा महात्मना ।मारुतेन तदा वत्स प्रक्षिप्तो ऽस्मि महार्णवे ।। ५.५८.१६ ।।।। ॥५-५८-१६॥
रामस्य च मया साह्ये वर्तितव्यमरिन्दम ।रामो धर्मभृतां श्रेष्ठो महेन्द्रसमविक्रमः ।। ५.५८.१७ ।।।। ॥५-५८-१७॥
एतच्छ्रुत्वा वचस्तस्य मैनाकस्य महात्मनः ।कार्यमावेद्य तु गिरेरुद्यतं च मनो मम ।। ५.५८.१८ ।।।। ॥५-५८-१८॥
तेन चाहमनुज्ञातो मैनाकेन महात्मना ।स चाप्यन्तर्हितः शैलो मानुषेण वपुष्मता ।शरीरेण महाशैलः शैलेन च महोदधौ ।। ५.५८.१९ ।।।। ॥५-५८-१९॥
उत्तमं जवमास्थाय शेषं पन्थानमास्थितः ।ततो ऽहं सुचिरं कालं वेगेनाभ्यगमं पथि ।। ५.५८.२० ।।।। ॥५-५८-२०॥
ततः पश्याम्यहं देवीं सुरसां नागमातरम् ।समुद्रमध्ये सा देवी वचनं मामभाषत ।। ५.५८.२१ ।।।। ॥५-५८-२१॥
मम भक्षः प्रदिष्टस्त्वममरैर्हरिसत्तम ।अतस्त्वां भक्षयिष्यामि विहितस्त्वं चिरस्य मे ।। ५.५८.२२ ।।।। ॥५-५८-२२॥
एवमुक्तः सुरसया प्राञ्जलिः प्रणतः स्थितः ।विवर्णवदनो भूत्वा वाक्यं चेदमुदीरयम् ।। ५.५८.२३ ।।।। ॥५-५८-२३॥
रामो दाशरथिः श्रीमान् प्रविष्टो दण्डकावनम् ।लक्ष्मणेन सह भ्रात्रा सीतया च परन्तपः ।। ५.५८.२४ ।।।। ॥५-५८-२४॥
तस्य सीता हृता भार्या रावणेन दुरात्मना ।तस्याः सकाशं दूतो ऽहं गमिष्ये रामशासनात् ।। ५.५८.२५ ।।।। ॥५-५८-२५॥
कर्तुमर्हसि रामस्य साहाय्यं विषये सती ।अथवा मैथिलीं दृष्ट्वा रामं चाक्लिष्टकारिणम् ।। ५.५८.२६ ।।।। ॥५-५८-२६॥
आगमिष्यामि ते वक्त्रं सत्यं प्रतिश्रृणोमि ते ।। ५.५८.२७ ।।।। ॥५-५८-२७॥
एवमुक्ता मया सा तु सुरसा कामरूपिणी ।अब्रवीन्नातिवर्तेत कश्चिदेष वरो मम ।। ५.५८.२८ ।।।। ॥५-५८-२८॥
एवमुक्तः सुरसया दशयोजनमायतः ।ततो ऽर्धगुणविस्तारो बभूवाहं क्षणेन तु ।मत्प्रमाणानुरूपं च व्यादितं तु मुखं तया ।। ५.५८.२९ ।।।। ॥५-५८-२९॥
तद्दृष्ट्वा व्यादितं चास्यं ह्रस्वं ह्यकरवं वपुः ।तस्मिन् मुहूर्ते च पुनर्बभूवाङ्गुष्ठमात्रकः ।। ५.५८.३० ।।।। ॥५-५८-३०॥
अभिपत्याशु तद्वक्रं निर्गतो ऽहं ततः क्षणात् ।अब्रवीत् सुरसा देवी स्वेन रूपेण मां पुनः ।। ५.५८.३१ ।।।। ॥५-५८-३१॥
अर्थसिद्ध्यै हरिश्रेष्ठ गच्छ सौम्य यथासुखम् ।समानय च वैदेहीं राघवेण महात्मना ।सुखी भव महाबाहो प्रीता ऽस्मि तव वानर ।। ५.५८.३२ ।।।। ॥५-५८-३२॥
ततो ऽहं साधु साध्वीति सर्वभूतैः प्रशंसितः ॥५-५८-३३॥
वैदेहीं राघवेण महात्मना ।ततो ऽन्तरिक्षं विपुलं प्लुतो ऽहं गरुडो यथा ।छाया मे निगृहीता च न च पश्यामि किंचन ।। ५.५८.३४ ।।।। ॥५-५८-३४॥
सो ऽहं विगतवेगस्तु दिशो दश विलोकयन् ।न किंचित्तत्र पश्यामि येन मे ऽपहृता गतिः ।। ५.५८.३५ ।।।। ॥५-५८-३५॥
ततो मे बुद्धिरुत्पन्ना किं नाम गगने मम ।ईदृशो विघ्न उत्पन्नो रूपं यत्र न दृश्यते ।। ५.५८.३६ ।।।। ॥५-५८-३६॥
अधोभागे न मे दृष्टिः शोचता पातिता मया ।ततो ऽद्राक्षमहं भीमां राक्षसीं सलिलेशयाम् ।। ५.५८.३७ ।।।। ॥५-५८-३७॥
प्रहस्य च महानादमुक्तो ऽहं भीमया तया ।अवस्थितमसम्भ्रान्तमिदं वाक्यमशोभनम् ।। ५.५८.३८ ।।।। ॥५-५८-३८॥
क्वासि यन्ता महाकाय क्षुधिताया ममेप्सितः ।भक्षः प्रीणय मे देहं चिरमाहारवर्जितम् ।। ५.५८.३९ ।।।। ॥५-५८-३९॥
बाढमित्येव तां वाणीं प्रत्यगृह्णामहं ततः ।आस्य प्रमाणादधिकं तस्याः कायमपूरयम् ।तस्याश्चास्यं महद्भीमं वर्धते मम भक्षणे ।। ५.५८.४० ।।।। ॥५-५८-४०॥
न च मां साधु बुबुधे मम वा निकृतं कृतम् ।। ५.५८.४१ ।।।। ॥५-५८-४१॥
ततो ऽहं विपुलं रूपं संक्षिप्य निमिषान्तरात् ।तस्या हृदयमादाय प्रपतामि नभःस्थलम् ।। ५.५८.४२ ।।।। ॥५-५८-४२॥
सा विसृष्टभुजा भीमा पपात लवणाम्भसि ।मया पर्वतसङ्काशा निकृत्तहृदया सती ।। ५.५८.४३ ।।।। ॥५-५८-४३॥
श्रृणोमि खगतानां च सिद्धानां चारणैः सह ।राक्षसी सिंहिका भीमा क्षिप्रं हनुमता हता ।। ५.५८.४४ ।।।। ॥५-५८-४४॥
तां हत्वा पुनरेवाहं कृत्यमात्ययिकं स्मरन् ।गत्वा चाहं महाध्वानं पश्यामि नगमण्डितम् ।। ५.५८.४५ ।।।। ॥५-५८-४५॥
दक्षिणं तीरमुदधेर्लङ्का यत्र च सा पुरी ।अस्तं दिनकरे याते रक्षसां निलयं पुरम् ।प्रविष्टो ऽहमविज्ञातो रक्षोभि र्भीमविक्रमैः ।। ५.५८.४६ ।।।। ॥५-५८-४६॥
तत्र प्रविशतश्चापि कल्पान्तघनसन्निभा ।अट्टहासं विमुञ्चन्ती नारी काप्युत्थिता पुरः ।। ५.५८.४७ ।।।। ॥५-५८-४७॥
जिघांसन्तीं ततस्तां तु ज्वलदग्निशिरोरुहाम् ।सव्यमुष्टिप्रहारेण पराजित्य सुभैरवाम् ।। ५.५८.४८ ।।।। ॥५-५८-४८॥
प्रदोषकाले प्रविशं भीतया ऽहं तयोदितः ।अहं लङ्कापुरी वीर निर्जिता विक्रमेण ते ।। ५.५८.४९ ।।।। ॥५-५८-४९॥
यस्मात्तस्माद्विजेतासि सर्व रक्षांस्यशेषतः ।। ५.५८.५० ।।।। ॥५-५८-५०॥
तत्राहं सर्वरात्रं तु विचिन्वन् जनकात्मजाम् ।रावणान्तःपुरगतो न चापश्यं सुमध्यमाम् ।। ५.५८.५१ ।।।। ॥५-५८-५१॥
ततः सीतामपश्यंस्तु रावणस्य निवेशने ।शोकसागरमासाद्य न पारमुपलक्षये ।। ५.५८.५२ ।।।। ॥५-५८-५२॥
शोचता च मया दृष्टं प्राकारेण समावृतम् ।काञ्चनेन विकृष्टेन गृहोपवनमुत्तमम् ।। ५.५८.५३ ।।।। ॥५-५८-५३॥
स प्राकारमवप्लुत्य पश्यामि बहुपादपम् ।। ५.५८.५४ ।।।। ॥५-५८-५४॥
अशोकवनिकामध्ये शिंशुपापादपो महान् ।तमारुह्य च पश्यामि काञ्चनं कदलीवनम् ।। ५.५८.५५ ।।।। ॥५-५८-५५॥
अदूरे शिंशुपावृक्षात् पश्यामि वरवर्णिनीम् ।श्यामां कमलपत्राक्षीमुपवासकृशाननाम् ।। ५.५८.५६ ।।।। ॥५-५८-५६॥
तदेकवासःसंवीतां रजोध्वस्तशिरोरुहाम् ।शोकसन्तापदीनाङ्गीं सीतां भर्तृहिते स्थिताम् ।। ५.५८.५७ ।।।। ॥५-५८-५७॥
राक्षसीभिर्विरूपाभिः क्रूराभिरभिसंवृताम् ।मांसशोणितभक्षाभिर्व्याघ्रीभिर्हरिणीमिव ।। ५.५८.५८ ।।।। ॥५-५८-५८॥
सामया राक्षसीमध्ये तर्ज्यमाना मुहुर्मुहुः ।एकवेणीधरा दीना भर्तृचिन्तापरायणा ।। ५.५८.५९ ।।।। ॥५-५८-५९॥
भूमिशय्या विवर्णाङ्गी पझिनीव हिमागमे ।रावणाद्विनिवृत्तार्था मर्तव्यकृतनिश्चया ।कथंचिन्मृगशावाक्षी तूर्णमासादिता मया ।। ५.५८.६० ।।।। ॥५-५८-६०॥
तां दृष्ट्वा तादृशीं नारीं रामपत्नीं यशस्विनीम् ।तत्रैव शिंशुपावृक्षे पश्यन्नहमवस्थितः ।। ५.५८.६१ ।।।। ॥५-५८-६१॥
ततो हलहलाशब्दं काञ्चीनूपुरमिश्रितम् ।शृणोम्यधिकगम्भीरं रावणस्य निवेशने ।। ५.५८.६२ ।।।। ॥५-५८-६२॥
ततो ऽहं परमोद्विग्नः स्वं रूपं प्रतिसंहरन् ।अहं तु शिंशुपावृक्षे पक्षीव गहने स्थितः ।। ५.५८.६३ ।।।। ॥५-५८-६३॥
ततो रावणदाराश्च रावणश्च महाबलः ।तं देशं समनुप्राप्त यत्र सीता ऽभवत् स्थिता ।। ५.५८.६४ ।।।। ॥५-५८-६४॥
तद् दृष्ट्वा ऽथ वरारोहा सीता रक्षोमहाबलम् ।सङ्कुच्योरू स्तनौ पीनौ बाहुभ्यां परिरभ्य च ।। ५.५८.६५ ।।।। ॥५-५८-६५॥
वित्रस्तां परमोद्विग्नां वीक्षमाणां ततस्ततः ।त्राणं किंचिदपश्यन्तीं वेपमानां तपस्विनीम् ।। ५.५८.६६ ।।।। ॥५-५८-६६॥
तामुवाच दशग्रीवः सीतां परमदुःखिताम् ।अवाक्छिराः प्रपतितो बहुमन्यस्व मामिति ।। ५.५८.६७ ।।।। ॥५-५८-६७॥
यदि चेत्त्वं तु दर्पान्मां नाभिनन्दसि गर्विते ।द्वौ मासावन्तरं सीते पास्यामि रुधिरं तव ।। ५.५८.६८ ।।।। ॥५-५८-६८॥
एतच्छ्रुत्वा वचस्तस्य रावणस्य दुरात्मनः ।उवाच परमक्रुद्धा सीता वचनमुत्तमम् ।। ५.५८.६९ ।।।। ॥५-५८-६९॥
राक्षसाधम रामस्य भार्यममिततेजसः ।इक्ष्वाकुकुलनाथस्य स्नुषां दशरथस्य च ।अवाच्यं वदतो जिह्वा कथं न पतिता तव ।। ५.५८.७० ।।।। ॥५-५८-७०॥
किंचिद्वीर्यं तवानार्य यो मां भर्तुरसन्निधौ ।अपहृत्यागतः पाप तेनादृष्टो महात्मना ।। ५.५८.७१ ।।।। ॥५-५८-७१॥
न त्वं रामस्य सदृशो दास्ये ऽप्यस्य न युज्यसे ।यज्ञीयः सत्यवादी च रणश्लाघी च राघवः ।। ५.५८.७२ ।।।। ॥५-५८-७२॥
जानक्या परुषं वाक्यमेवमुक्तो दशाननः ।जज्वाल सहसा कोपच्चितास्थ इव पावकः ।। ५.५८.७३ ।।।। ॥५-५८-७३॥
विवर्त्य नयने क्रूरे मुष्टिमुद्यम्य दक्षिणम् ।मैथिलीं हन्तुमारब्धः स्त्रीभिर्हा हा कृतं तदा ।। ५.५८.७४ ।।।। ॥५-५८-७४॥
स्त्रीणां मध्यात् समुत्पत्य तस्य भार्या दुरात्मनः ।वरा मण्डोदरी नाम तया स प्रतिषेधितः ।। ५.५८.७५ ।।।। ॥५-५८-७५॥
उक्तश्च मधुरां वाणीं तया स मदानार्दितः ।सीतया तव किं कार्यं महेन्द्रसमविक्रम ।। ५.५८.७६ ।।।। ॥५-५८-७६॥
देवगन्दर्वकान्याभिर्यक्षकन्याभिरेव च ।सार्धं प्रभो रमस्वेह सीतया किं करिष्यसि ।। ५.५८.७७ ।।।। ॥५-५८-७७॥
ततस्ताभिः समेताभिर्नारीभिः स महाबलः ।प्रसाद्य सहसा नीतो भवनं स्वं निशाचरः ।। ५.५८.७८ ।।।। ॥५-५८-७८॥
याते तस्मिन् दशग्रीवे राक्षस्यो विकृताननाः ।सीतां निर्भर्त्सयामासुर्वाक्यैः क्रूरैः सुदारुणैः ।। ५.५८.७९ ।।।। ॥५-५८-७९॥
तृणवद्भाषितं तासां गणयामास जानकी ।गर्जितं च तदा तासां सीतां प्राप्य निरर्थकम् ।। ५.५८.८० ।।।। ॥५-५८-८०॥
वृथागर्जितनिश्चेष्टा राक्षस्यः पिशिताशनाः ।रावणाय शशंसुस्ताः सीताध्यवसितं महत् ।। ५.५८.८१ ।।।। ॥५-५८-८१॥
ततस्ताः सहिताः सर्वा विहताशा निरुद्यमाः ।परिक्षिप्य समन्तात्तां निद्रावशमुपागताः ।। ५.५८.८२ ।।।। ॥५-५८-८२॥
तासु चैव प्रसुप्तासु सीता भर्तृहिते रता ।विलप्य करुणं दीना प्रशुशोच सुदुःखिता ।। ५.५८.८३ ।।।। ॥५-५८-८३॥
तासां मध्यात् समुत्थाय त्रिजटा वाक्यमब्रवीत् ।आत्मानं खादत क्षिप्रं न सीता विनशिष्यति ।। ५.५८.८४ ।।।। ॥५-५८-८४॥
जनकस्यात्मजा साध्वी स्नुषा दशरथस्य च ।स्वप्नो ह्यद्य मया दृष्टो दारुणो रोमहर्षणः ।। ५.५८.८५ ।।।। ॥५-५८-८५॥
रक्षसां च विनाशाय भर्तुरस्या जयाय च ।। ५.५८.८६ ।।।। ॥५-५८-८६॥
अलमस्मात् परित्रातुं राघवाद्राक्षसीगणम् ।अभियाचाम वैदेहीमेतद्धि मम रोचते ।। ५.५८.८७ ।।।। ॥५-५८-८७॥
यस्या ह्येवंविधः स्वप्नो दुःखितायाः प्रदृश्यते ।सा दुःखैर्विविधैर्मुक्ता सुखमाप्नोत्यनुत्तमम् ।। ५.५८.८८ ।।।। ॥५-५८-८८॥
प्रणिपातप्रसन्ना हि मैथिली जनकात्मजा ।। ५.५८.८९ ।।।। ॥५-५८-८९॥
ततः सा ह्रीमती बाला भर्तुर्विजयहर्षिता ।अवोचद्यदि तत्तथ्यं भवेयं शरणं हि वः ।। ५.५८.९० ।।।। ॥५-५८-९०॥
तां चाहं तादृशीं दृष्ट्वा सीताया दारुणां दशाम् ।चिन्तयामास विक्रान्तो न च मे निर्वृतं मनः ।। ५.५८.९१ ।।।। ॥५-५८-९१॥
सम्भाषणाथ च मया जानक्याश्चिन्तितो विधिः ।इक्ष्वाकूणां हि वशस्तु ततो मम पुरस्कृतः ।। ५.५८.९२ ।।।। ॥५-५८-९२॥
श्रुत्वा तु गदितां वाचं राजर्षिगणपूजिताम् ।प्रत्यभाषत मां देवी बाष्पैः पिहितलोचना ।। ५.५८.९३ ।।।। ॥५-५८-९३॥
कस्त्वं केन कथं चेह प्राप्तो वानरपुङ्गव ।का च रामेण ते प्रीतिस्तन्मे शंसितुमर्हसि ।। ५.५८.९४ ।।।। ॥५-५८-९४॥
तस्यास्तद्वचनं श्रुत्वा ह्यहमप्यब्रवं वचः ।देवि रामस्य भर्तुस्ते सहायो भीमविक्रमः ।सुग्रीवो नाम विक्रान्तो वानरेन्द्रो महाबलः ।। ५.५८.९५ ।।।। ॥५-५८-९५॥
तस्य मां विद्धि भृत्यं त्वं हनुमन्तमिहागतम् ।भर्त्रा ऽहं प्रेषितस्तुभ्यं रामेणाक्लिष्टकर्मणा ।। ५.५८.९६ ।।।। ॥५-५८-९६॥
इदं च पुरुषव्याघ्रः श्रीमान् दाशरथिः स्वयम् ।अङ्गुलीयमभिज्ञानमदात्तुभ्यं यशस्विनि ।। ५.५८.९७ ।।।। ॥५-५८-९७॥
तदिच्छामि त्वया ऽ ऽज्ञप्तं देवि किं करवाण्यहम् ।रामलक्ष्मणयोः पार्श्वं नयामि त्वां किमुत्तरम् ।। ५.५८.९८ ।।।। ॥५-५८-९८॥
एतच्छ्रुत्वा विदित्वा च सीता जनकनन्दिनी ।आह रावणमुत्साद्य राघवो मां नयत्विति ।। ५.५८.९९ ।।।। ॥५-५८-९९॥
प्रणम्य शिरसा देवीमहमार्यामनिन्दिताम् ।राघवस्य मनोह्लादमभिज्ञानमयाचिषम् ।। ५.५८.१०० ।।।। ॥५-५८-१००॥
अथ मामब्रवीत् सीता गृह्यतामयमुत्तमः ।मणिर्येन महाबाहू रामस्त्वां बहुमन्यते ।। ५.५८.१०१ ।।।। ॥५-५८-१०१॥
इत्यक्त्वा तु वरारोहा मणिप्रवरमद्भुतम् ।प्रायच्छत् परमोद्विग्ना वाचा मां संदिदेश ह ।। ५.५८.१०२ ।।।। ॥५-५८-१०२॥
ततस्तस्यै प्रणम्याहं राजपुत्र्यैः समाहितः ।प्रदक्षिणं परिक्राममिहाभ्युद्गतमानसः ।। ५.५८.१०३ ।।।। ॥५-५८-१०३॥
उत्तरं पुनरेवेदं निश्चित्य मनसा तया ।हनुमन् मम वृत्तान्तं वक्तुमर्हसि राघवे ।। ५.५८.१०४ ।।।। ॥५-५८-१०४॥
यथा श्रुत्वैव नचिरात्तावुभौ रामलक्ष्मणौ ।सुग्रीवसहितौ वीरावुपेयातां तथा कुरु ।। ५.५८.१०५ ।।।। ॥५-५८-१०५॥
यद्यन्यथा भवेदेतद्द्वौ मासौ जीवितं मम ।न मां द्रक्ष्यति काकुत्स्थो म्रिये सा ऽहमनाथवत् ।। ५.५८.१०६ ।।।। ॥५-५८-१०६॥
तच्छ्रुत्वा करुणं वाक्यं क्रोधो मामभ्यवर्तत ।उत्तरं च मया दृष्टं कार्यशेषमनन्तरम् ।। ५.५८.१०७ ।।।। ॥५-५८-१०७॥
ततो ऽवर्धत मे कायस्तदा पर्वतसन्निभः ।युद्धकाङ्क्षी वनं तच्च विनाशयितुमारभे ।। ५.५८.१०८ ।।।। ॥५-५८-१०८॥
तद्भग्नं वनषण्डं तु भ्रान्तत्रस्तमृगद्विजम् ।प्रतिबुद्धा निरीक्षन्ते राक्षस्यो विकृताननाः ।। ५.५८.१०९ ।।।। ॥५-५८-१०९॥
मां च दृष्ट्वा वने तस्मिन् समागम्य ततस्ततः ।ताः समभ्यागताः क्षिप्रं रावणायाचचक्षिरे ।। ५.५८.११० ।।।। ॥५-५८-११०॥
राजन् वनमिदं दुर्गं तव भग्नं दुरात्मना ।वानरेण ह्यविज्ञाय तव वीर्यं महाबल ।। ५.५८.१११ ।।।। ॥५-५८-१११॥
दुर्बुद्धेस्तस्य राजेन्द्र तव विप्रियकारिणः ।वधमाज्ञापय क्षिप्रं यथा ऽसौ विलयं व्रजेत् ।। ५.५८.११२ ।।।। ॥५-५८-११२॥
तच्छ्रुत्वा राक्षसेन्द्रेण विसृष्टा भृशदुर्जयाः ।राक्षसाः किङ्करा नाम रावणस्य मनोनुगाः ।। ५.५८.११३ ।।।। ॥५-५८-११३॥
तेषामशीतिसाहस्रं शूलमुद्गरपाणिनाम् ।मया तस्मिन् वनोद्देशे परिघेण निषूदितम् ।। ५.५८.११४ ।।।। ॥५-५८-११४॥
तेषां तु हतशेषा ये ते गत्वा लघुविक्रमाः ।निहतं च महत्सैन्यं रावणायाचचक्षिरे ।। ५.५८.११५ ।।।। ॥५-५८-११५॥
ततो मे बुद्धिरुत्पन्ना चैत्यप्रासादमाक्रमम् ।तत्रस्थान् राक्षसान् हत्वा शतं स्तम्भेन वै पुनः ।ललामभूतो लङ्कायाः स वै विध्वंसितो मया ।। ५.५८.११६ ।।।। ॥५-५८-११६॥
ततः प्रहस्तस्य सुतं जम्बुमालिनमादिशत् ।राक्षसैर्बहुभिः सार्धं घोररूपैर्भयानकैः ।। ५.५८.११७ ।।।। ॥५-५८-११७॥
तमहं बलसम्पन्नं राक्षसं रणकोविदम् ।परिघेणातिघोरेण सूदयामि सहानुगम् ।। ५.५८.११८ ।।५.५८.११७ ।।।। ॥५-५८-११८॥
तच्छ्रुत्वा राक्षसेन्द्रस्तु मन्त्रिपुत्रान् महाबलान् ।। ५.५८.११९ ।।म् ।। ५.५८.११८ ।।५.५८.११७ ।।।। ॥५-५८-११९॥
पदातिबलसम्पन्नान् प्रेषयामास रावणः ।परिघेणैव तान् सर्वान्नयामि यमसादनम् ।। ५.५८.१२० ।।११७ ।।।। ॥५-५८-१२०॥
मन्त्रिपुत्रान् हताञ्छ्रुत्वा समरे लघुविक्रमान् ।पञ्च सेनाग्रगाञ्छूरान् प्रेषयमास रावणः ।। ५.५८.१२१ ।।।। ॥५-५८-१२१॥
तानहं सहसैन्यान् वै सर्वानेवाभ्यसूदयम् ।ततः पुनर्दशग्रीवः पुत्रमक्षं महाबलम् ।। ५.५८.१२२ ।।।। ॥५-५८-१२२॥
बहुभी राक्षसैः सार्धं प्रेषयामास रावणः ।तं तु मन्दोदरीपुत्रं कुमारं रणपण्डितम् ।। ५.५८.१२३ ।।।। ॥५-५८-१२३॥
सहसा खं समुत्क्रान्तं पादयोश्च गृहीतवान् ।चर्मासिनं शतगुणं भ्रामयित्वा व्यपेषयम् ।तमक्षमागतं भग्नं निशम्य स दशाननः ।। ५.५८.१२४ ।।।। ॥५-५८-१२४॥
तत इन्द्रजितं नाम द्वितीयं रावणः सुतम् ।व्यादिदेश सुसंक्रुद्धो बलिनं युद्धदुर्मदम् ।। ५.५८.१२५ ।।।। ॥५-५८-१२५॥
तच्चाप्यहं बलं सर्वं तं च राक्षसपुङ्गवम् ।नष्टौजसं रणे कृत्वा परं हर्षमुपागमम् ।। ५.५८.१२६ ।।।। ॥५-५८-१२६॥
महतापि महाबाहुः प्रत्ययेन महाबलः ।प्रेषितो रावणेनैव सह वीरैर्मदोत्कटैः ।। ५.५८.१२७ ।।।। ॥५-५८-१२७॥
सो ऽविषह्यं हि मां बुद्ध्वा स्वबलं चावमर्दितम् ।ब्राह्मेणास्त्रेण स तु मां प्राबध्नाच्चातिवेगितः ।। ५.५८.१२८ ।।।। ॥५-५८-१२८॥
रज्जुभिश्चाभिबध्नन्ति ततो मां तत्र राक्षसाः ।रावणस्य समीपं च गृहीत्वा मामुपानयन् ।। ५.५८.१२९ ।।।। ॥५-५८-१२९॥
दृष्ट्वा सम्भाषितश्चाहं रावणेन दुरात्मना ।पृष्टश्च लङ्कागमनं राक्षसानां च तं वधम् ।। ५.५८.१३० ।।।। ॥५-५८-१३०॥
तत्सर्वं च मया तत्र सीतार्थमिति जल्पितम् ।। ५.५८.१३१ ।।।। ॥५-५८-१३१॥
अस्याहं दर्शनाकांक्षी प्राप्तस्त्वद्भवनं विभो ।मारुतस्यौरसः पुत्रो वानरो हनुमानहम् ।। ५.५८.१३२ ।।।। ॥५-५८-१३२॥
रामदूतं च मां विद्धि सुग्रीवसचिवं कपिम् ।सो ऽहं दूत्येन रामस्य त्वत्सकाशमिहागतः ।। ५.५८.१३३ ।।।। ॥५-५८-१३३॥
सुग्रीवश्च महातेजाः स त्वां कुशलमब्रवीत् ।धर्मार्थकामसहितं हितं पथ्यमुवाच च ।। ५.५८.१३४ ।।।। ॥५-५८-१३४॥
वसतो ऋश्यमूके मे पर्वते विपुलद्रुमे ।राघवो रणविक्रान्तो मित्रत्वं समुपागतः ।। ५.५८.१३५ ।।।। ॥५-५८-१३५॥
तेन मे कथितं राज्ञा भार्या मे रक्षसा हृता ।तत्र साहाय्यमस्माकं कार्यं सर्वात्मना त्वया ।। ५.५८.१३६ ।।।। ॥५-५८-१३६॥
मया च कथितं तस्मै वालिनश्च वधं प्रति ।तत्र साहाय्यहेतोर्मे समयं कर्तुमर्हसि ।। ५.५८.१३७ ।।।। ॥५-५८-१३७॥
वालिना हृतराज्येन सुग्रीवेण महाप्रभुः ।चक्रे ऽग्निसाक्षिकं सख्यं राघवः सहलक्ष्मणः ।। ५.५८.१३८ ।।।। ॥५-५८-१३८॥
तेन वालिनमुत्पाट्य शरेणैकेन संयुगे ।वानराणां महाराजः कृतः स प्लवता प्रभुः ।। ५.५८.१३९ ।।।। ॥५-५८-१३९॥
तस्य साहाय्यमस्माभिः कार्यं सर्वात्मना त्विह ।तेन प्रस्थापितस्तुभ्यं समीपमिह धर्मतः ।क्षिप्रमानीयतां सीता दीयतां राघवाय च ।। ५.५८.१४० ।।।। ॥५-५८-१४०॥
यावन्न हरयो वीरा विधमन्ति बलं तव ॥५-५८-१४१॥
तेन प्रस्थापितस्तुभ्यं समीपमिह धर्मतः ।वानराणां प्रभावो हि न केन विदितः पुरा ।देवतानां सकाशं च ये गच्छन्ति निमन्त्रिताः ।। ५.५८.१४२ ।।।। ॥५-५८-१४२॥
इति वानरराजस्त्वामाहेत्यभिहितो मया ।मामैक्षत ततः क्रुद्धश्चक्षुषा प्रदहन्निव ।। ५.५८.१४३ ।।।। ॥५-५८-१४३॥
तेन वध्यो ऽहमाज्ञप्तो रक्षसा रौद्रकर्मणा ।मत्प्रभावमविज्ञाय रावणेन दुरात्मना ।। ५.५८.१४४ ।।।। ॥५-५८-१४४॥
ततो विभीषणो नाम तस्य भ्राता महामतिः ।तेन राक्षसराजो ऽसौ याचितो मम कारणात् ।। ५.५८.१४५ ।।।। ॥५-५८-१४५॥
नैवं राक्षसशार्दूल त्यज्यतामेष निश्चयः ।राजशास्त्रव्यपेतो हि मार्गः संसेव्यते त्वया ।। ५.५८.१४६ ।।।। ॥५-५८-१४६॥
दूतवध्या न दृष्टा हि राजशास्त्रेषु राक्षस ।दूतेन वेदितव्यं च यथार्थं हितवादिना ।। ५.५८.१४७ ।।।। ॥५-५८-१४७॥
सुमहत्यपराधे ऽपि दूतस्यातुलविक्रम ।विरूपकरणं दृष्टं न वधो ऽस्तीति शास्त्रतः ।। ५.५८.१४८ ।।।। ॥५-५८-१४८॥
विभीषणेनैवमुक्तो रावणः संदिदेश तान् ।राक्षसानेतदेवास्य लाङ्गूलं दह्यतामिति ।। ५.५८.१४९ ।।।। ॥५-५८-१४९॥
ततस्तस्य वचः श्रुत्वा पुच्छं समन्ततः ।वेष्टितं शणवल्कैश्च जीर्णैः कार्पासजैः पटैः ।। ५.५८.१५० ।।।। ॥५-५८-१५०॥
राक्षसाः सिद्धसन्नाहास्ततस्ते चण्डविक्रमाः ।तदा ऽदह्यन्त मे पुच्छं निघ्नन्तः काष्ठमुष्टिभिः ।बद्धस्य बहुभिः पाशैर्यन्त्रितस्य च राक्षसैः ।। ५.५८.१५१ ।।।। ॥५-५८-१५१॥
ततस्ते राक्षसाः शूरा बद्धं मामग्निसंवृतम् ।अघोषयन् राजमार्गे नगरद्वारमागताः ।। ५.५८.१५२ ।।ः ।ततो ऽहं सुमहद्रूपं संक्षिप्य पुनरात्मनः ॥५-५८-१५२॥
राजमार्गे नगरद्वारमागताः ॥५-५८-१५३॥
ः ।विमोचयित्वा तं बन्धं प्रकृतिस्थः स्थितः पुनः ।आयसं परिघं गृह्य तानि रक्षांस्यसूदयम् ।ततस्तन्नगरद्वारं वेगेनाप्लुतवानहम् ।। ५.५८.१५४ ।।।। ॥५-५८-१५४॥
पुच्छेन च प्रदीप्तेन तां पुरीं साट्टगोपुराम् ।दहाम्यहमसम्भ्रान्तो युगान्ताग्निरिव प्रजाः ।। ५.५८.१५५ ।।।। ॥५-५८-१५५॥
विनष्टा जानकी व्यक्तं न ह्यदग्धः प्रदृश्यते ।लङ्कायां कश्चिदुद्देशः सर्वा भस्मीकृता पुरी ।। ५.५८.१५६ ।।।। ॥५-५८-१५६॥
दहता च मया लङ्कां दग्धा सीता न संशयः ।रामस्य हि महत् कार्यं मयेदं वितथीकृतम् ।। ५.५८.१५७ ।।।। ॥५-५८-१५७॥
इति शोकसमाविष्टश्चिन्तामहमुपागतः ।। ५.५८.१५८ ।।।। ॥५-५८-१५८॥
अथाहं वाचमश्रौषं चारणानां शुभाक्षराम् ।जानकी न च दग्धेति विस्मयोदन्तभाषिताम् ।। ५.५८.१५९ ।।।। ॥५-५८-१५९॥
ततो मे बुद्धिरुत्पन्ना श्रुत्वा तामद्भुतां गिरम् ।अदग्द्धा जानकीत्येवं निमित्तैश्चोपलक्षिता ।। ५.५८.१६० ।।।। ॥५-५८-१६०॥
दीप्यमाने तु लाङ्गूले न मां दहति पावकः ।हृदयं च प्रहृष्टं मे वाताः सुरभिगन्धिनः ।। ५.५८.१६१ ।।।। ॥५-५८-१६१॥
तैर्निमित्तैश्च दृष्टार्थैः कारणैश्च महागुणैः ।ऋषिवाक्यैश्च सिद्धार्थैरभवं हृष्टमानसः ।। ५.५८.१६२ ।।।। ॥५-५८-१६२॥
पुनर्दृष्ट्वा च वैदेहीं विसृष्टश्च तया पुनः ।। ५.५८.१६३ ।।।। ॥५-५८-१६३॥
ततः पर्वतमासाद्य तत्रारिष्टमहं पुनः ।प्रतिप्लवनमारेभे युष्मद्दर्शनकाङ्क्षया ।। ५.५८.१६४ ।।।। ॥५-५८-१६४॥
ततः पवनचन्द्रार्कसिद्धगन्धर्वसेवितम् ।पन्थानमहमाक्रम्य भवतो दृष्टवानिह ।। ५.५८.१६५ ।।।। ॥५-५८-१६५॥
राघवस्य प्रभावेन भवतां चैव तेजसा ।सुग्रीवस्य च कार्यार्थं मया सर्वमनुष्टितम् ।। ५.५८.१६६ ।।।। ॥५-५८-१६६॥
एतत्सर्वं मया तत्र यथावदुपपादितम् ।अत्र यन्न कृतं शेषं तत्सर्वं क्रियतामिति ॥५-५८-१६७॥
Navigation
- ← Previous: Sundara-Kāṇḍa Sarga 57
- Next: Sundara-Kāṇḍa Sarga 59 →
- Sundara-Kāṇḍa sarga-index
- Vālmīki Rāmāyaṇa master-index
- /rama · the non-dual singularity
Continue with Sundara-Kāṇḍa, the seven-Kāṇḍa reading index, or the Rāmcharitamānas companion reading. Source and rights documentation remains available in the editorial standards.
🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷