🪷 सुन्दरकाण्ड · Sarga 57
Sundara-Kāṇḍa · The Book of Beauty · Sarga 57 · 51 ślokas
🪷 Devanāgarī Ślokas
सचन्द्रकुमुदं रम्यं सार्ककारण्डवं शुभम् ।तिष्यश्रवणकादम्बमभ्रशैवालशाद्वलम् ।। 5.57.1 ।।।। ॥५-५७-१॥
पुलर्वसुमहामीनं लोहिताङ्गमहाग्रहम् ।ऐरावतमहाद्वीपं स्वातीहंसविलोलितम् ।। 5.57.2 ।।।। ॥५-५७-२॥
वातसङ्घातजातोर्मिचन्द्रांशुशिशिराम्बुमत् ।भुजङ्गयक्षगन्धर्वप्रबुद्धकमलोत्पलम् ।। 5.57.3 ।।।। ॥५-५७-३॥
हनुमान् मारुतगतिर्महानौरिव सागरम् ।अपारमपरिश्रान्तः पुप्लुवे गगनार्णवम् ।। 5.57.4 ।।।। ॥५-५७-४॥
ग्रसमान इवाकाशं ताराधिपमिवोल्लिखन् ।हरन्निव सनक्षत्रं गगनं सार्कमण्डलम् ।। 5.57.5 ।।।। ॥५-५७-५॥
मारुतस्यात्मजः श्रीमान् कपिर्व्योमचरो महान् ।हनुमान् मेघजालानि विकर्षन्निव गच्छति ।। 5.57.6 ।।।। ॥५-५७-६॥
पाण्डरारुणवर्णानि नीलमाञ्जिष्ठकानि च ।हरितारुणवर्णानि महाभ्राणि चकाशिरे ।। 5.57.7 ।।।। ॥५-५७-७॥
प्रविशन्नभ्रजालानि निष्पतंश्च पुनः पुनः ।प्रच्छन्नश्च प्रकाशश्च चन्द्रमा इव लक्ष्यते ।। 5.57.8 ।।।। ॥५-५७-८॥
विविधाभ्रघनापन्नगोचरो धवलाम्बरः ।दृश्यादृश्यतनुर्वीरस्तदा चन्द्रायते ऽम्बरे ।। 5.57.9 ।।।। ॥५-५७-९॥
तार्क्ष्यायमाणो गगने बभासे वायुनन्दनः ।दारयन् मेघवृन्दानि निष्पतंश्च पुनः पुनः ।। 5.57.10 ।।।। ॥५-५७-१०॥
नदन्नादेन महता मेघस्वनमहास्वनः ।प्रवरान् राक्षसान् हत्वा नाम विश्राव्य चात्मनः ।। 5.57.11 ।।।। ॥५-५७-११॥
आकुलां नगरीं कृत्वा व्यथयित्वा च रावणम् ।अर्दयित्वा बलं घोरं वैदेहीमभिवाद्य च ।। 5.57.12 ।।।। ॥५-५७-१२॥
आजगाम महातेजाः पुनर्मध्येन सागरम् ।। 5.57.13 ।।।। ॥५-५७-१३॥
पर्वतेन्द्रं सुनाभं च समुपस्पृश्य वीर्यवान् ।ज्यामुक्त इव नाराचो महावेगो ऽभ्युपागतः ।। 5.57.14 ।।।। ॥५-५७-१४॥
स किंचिदनुसंप्राप्तः समालोक्य महागिरिम् ।महेन्द्रमेघसङ्काशं ननाद हरिपुङ्गवः ।। 5.57.15 ।।।। ॥५-५७-१५॥
स पूरयामास कपिर्दिशो दश समन्ततः ।नदन्नादेन महता मेघस्वनमहास्वनः ।। 5.57.16 ।।।। ॥५-५७-१६॥
स तं देशमनुप्राप्तः सुहृद्दर्शनलालसः ।ननाद हरिशाद्रूलो लाङ्गूलं चाप्यकम्पयत् ।। 5.57.17 ।।।। ॥५-५७-१७॥
तस्य नानद्यमानस्य सुपर्णचरिते पथि ।फलतीवास्य घोषेण गगनं सार्कमण्डलम् ।। 5.57.18 ।।।। ॥५-५७-१८॥
ये तु तत्रोत्तरे तीरे समुद्रस्य महाबलाः ।पूर्वं संविष्ठिताः शूरा वायुपुत्रदिदृक्षवः ।। 5.57.19 ।।।। ॥५-५७-१९॥
महतो वायुनुन्नस्य तोयदस्येव गर्जितम् ।शुश्रुवुस्ते तदा घोषमूरुवेगं हनूमतः ।। 5.57.20 ।।।। ॥५-५७-२०॥
ते दीनमनसः सर्वे शुश्रुवुः काननौकसः ।वानरेन्द्रस्य निर्घोषं पर्जन्यनिनदोपमम् ।। 5.57.21 ।।।। ॥५-५७-२१॥
निशम्य नदतो नादं वानरास्ते समन्ततः ।बभूवुरुत्सुकाः सर्वे सुहृद्दर्शनकाङ्क्षिणः ।। 5.57.22 ।।।। ॥५-५७-२२॥
जाम्बवान् स हरिश्रेष्ठः प्रीतिसंहृष्टमानसः ।उपामन्त्र्य हरीन् सर्वानिदं वचनमब्रवीत् ।। 5.57.23 ।।।। ॥५-५७-२३॥
सर्वथा कृतकार्यो ऽसौ हनूमान्नात्र संशयः ।न ह्यस्याकृतकार्यस्य नाद एवंविधो भवेत् ।। 5.57.24 ।।।। ॥५-५७-२४॥
तस्य बाहूरुवेगं च निनादं च महात्मनः ।निशम्य हरयो हृष्टाः समुत्पेतुस्ततस्ततः ।। 5.57.25 ।।।। ॥५-५७-२५॥
ते नगाग्रान्नगाग्राणि शिखराच्छिखराणि च ।प्रहृष्टाः समपद्यन्त हनूमन्तं दिदृक्षवः ।। 5.57.26 ।।।। ॥५-५७-२६॥
ते प्रीताः पादपाग्रेषु गृह्य शाखाः सुविष्ठिताः ।वासांसीव प्रशाखाश्च समाविध्यन्त वानराः ।। 5.57.27 ।।।। ॥५-५७-२७॥
गिरिगह्वरसंलीनो यथा गर्जति मारुतः ।एवं जगर्ज बलवान् हनूमान् मारुतात्मजः ।। 5.57.28 ।।।। ॥५-५७-२८॥
तमभ्रघनसङ्काशमापतन्तं महाकपिम् ।दृष्ट्वा ते वानराः सर्वे तस्थुः प्राञ्जलयस्तदा ।। 5.57.29 ।।।। ॥५-५७-२९॥
ततस्तु वेगवांस्तस्य गिरेर्गिरिनिभः कपिः ।निपपात महेन्द्रस्य शिखरे पादपाकुले ।। 5.57.30 ।।।। ॥५-५७-३०॥
हर्षेणापूर्यमाणो ऽसौ रम्ये पर्वतनिर्झरे ।छिन्नपक्ष इवाकाशात् पपात धरणीधरः ।। 5.57.31 ।।।। ॥५-५७-३१॥
ततस्ते प्रीतमनसः सर्वे वानरपुङ्गवाः ।हनूमन्तं महात्मानं परिवार्योपतस्थिरे ।परिवार्य च ते सर्वे परां प्रीतिमुपागताः ।। 5.57.32 ।।।। ॥५-५७-३२॥
प्रहृष्टवदनाः सर्वे तमरोगमुपागतम् ।उपायनानि चादाय मूलानि च फलानि च ।प्रत्यर्चयन् हरिश्रेष्ठं हरयो मारुतात्मजम् ।। 5.57.33 ।।।। ॥५-५७-३३॥
हनुमांस्तु गुरून् वृद्धान् जाम्बवत्प्रमुखांस्तदा ।कुमारमङ्गदं चैव सो ऽवन्दत महाकपिः ।। 5.57.34 ।।।। ॥५-५७-३४॥
स ताभ्यां पूजितः पूज्यः कपिभिश्च प्रसादितः ।दृष्टा सीतेति विक्रान्तः संक्षेपेण न्यवेदयत् ।। 5.57.35 ।।।। ॥५-५७-३५॥
निषसाद च हस्तेन गृहीत्वा वालिनः सुतम् ।रमणीये वनोद्देशे महेन्द्रस्य गिरेस्तदा ।। 5.57.36 ।।।। ॥५-५७-३६॥
हनुमानब्रवीद्धृष्टस्तदा तान् वानरर्षभान् ।। 5.57.37 ।।।। ॥५-५७-३७॥
अशोकवनिकासंस्था दृष्टा सा जनकात्मजा ।रक्ष्यमाणा सुघोराभी राक्षसीभिरनिन्दिता ।। 5.57.38 ।।।। ॥५-५७-३८॥
एकवेणीधरा बाला रामदर्शनलालसा ।उपवासपरिश्रान्ता जटिला मलिना कृशा ।। 5.57.39 ।।।। ॥५-५७-३९॥
ततो दृष्टेति वचनं महार्थममृतोपमम् ।निशम्य मारुतेः सर्वे मुदिता वानरा भवन् ।। 5.57.40 ।।।। ॥५-५७-४०॥
क्ष्वेलन्त्यन्ये नदन्त्यन्ये गर्जन्त्यन्ये महाबलाः ।चक्रुः किलिकिलामन्ये प्रतिगर्जन्ति चापरे ।। 5.57.41 ।।।। ॥५-५७-४१॥
केचिदुच्छ्रितलाङ्गूलाः प्रहृष्टाः कपिकुञ्जराः ।अञ्चिता यतदीर्घाणि लांगूलानि प्रविव्यधुः ।। 5.57.42 ।।।। ॥५-५७-४२॥
अपरे च हनूमन्तं वानरा वारणोपमम् ।आप्लुत्य गिरिशृङ्गेभ्यः संस्पृशन्ति स्म हर्षिताः ।। 5.57.43 ।।।। ॥५-५७-४३॥
उक्तवाक्यं हनूमन्तमङ्गदस्तमथाब्रवीत् ।सर्वेषां हरिवीराणां मध्ये वचनमुत्तमम् ।। 5.57.44 ।।।। ॥५-५७-४४॥
सत्त्वे वीर्ये न ते कश्चित् समो वानर विद्यते ।यदवप्लुत्य विस्तीर्णं सागरं पुनरागतः ।। 5.57.45 ।।।। ॥५-५७-४५॥
अहो स्वामिनि ते भक्तिरहो वीर्यमहो धृतिः ।दिष्ट्या दृष्टा त्वया देवी रामपत्नी यशस्विनी ।। 5.57.46 ।।।। ॥५-५७-४६॥
दिष्ट्या त्यक्ष्यति काकुत्स्थः शोकं सीतावियोगजम् ।ततो ऽङ्गदं हनूमन्तं जाम्बवन्तं च वानराः ।। 5.57.47 ।।।। ॥५-५७-४७॥
परिवार्य प्रमुदिता भेजिरे विपुलाः शिलाः ।श्रोतुकामाः समुद्रस्य लङ्घनं वानरोत्तमाः ।। 5.57.48 ।।।। ॥५-५७-४८॥
दर्शनं चापि लङ्कायाः सीताया रावणस्य च ।तस्थुः प्राञ्जलयः सर्वे हनुमद्वदनोन्मुखाः ।। 5.57.49 ।।।। ॥५-५७-४९॥
तस्थौ तत्राङ्गदः श्रीमान् वानरैर्बहुभिर्वृतः ।उपास्यमानो विबुधैर्दिवि देवपतिर्यथा ।। 5.57.50 ।।।। ॥५-५७-५०॥
हनूमता कीर्तिमता यशस्विना तथा ऽङ्गदेनाङ्गदबद्धबाहुना ।मुदा तदाध्यासितमुन्नतं महन्महीधराग्रं ज्वलितं श्रिया ऽभवत् ॥५-५७-५१॥
Navigation
- ← Previous: Sundara-Kāṇḍa Sarga 56
- Next: Sundara-Kāṇḍa Sarga 58 →
- Sundara-Kāṇḍa sarga-index
- Vālmīki Rāmāyaṇa master-index
- /rama · the non-dual singularity
Continue with Sundara-Kāṇḍa, the seven-Kāṇḍa reading index, or the Rāmcharitamānas companion reading. Source and rights documentation remains available in the editorial standards.
🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷