🪷 सुन्दरकाण्ड · Sarga 57
Sundara-Kāṇḍa · The Book of Beauty · Sarga 57 · 51 ślokas
Vālmīki Detail Source-Anchor Spine
This sarga page exposes the exact local source route, parent Kāṇḍa, Rāma janma proof anchors where applicable, and the wider Vālmīki/Rāma source spine.
Vālmīki 5.57local sarga route with all Sanskrit ślokasSundara-Kāṇḍaparent Kāṇḍa sarga index/valmiki-ramayanamaster index for the 7 Kāṇḍas and 22,742 ślokasBāla 1.18Rāma-janma sarga and primary birth-spec anchorVālmīki 1.18.8first Rāma-janma astronomical śloka routeVālmīki 1.18.15closing verse of the janma-spec rangeVālmīki 2.26.9Bṛhaspati-Puṣya coronation-eve witness routeVālmīki 6.93.65war-window Krishna-pakṣa timing witnessVālmīki 6.103Rāvaṇa-vadha anchor doorway for the year+41 witness/ramaRāma-Krishna non-dual singularity and three-anchor proof surface/chart/ramapublished Rāma janma-kuṇḍalī output for the 1,626,102 BCE claimRāma janma dayreader-visible pañchāṅga/day output for the birth anchor/computational-moatSūrya-Siddhānta deep-time verification boundary/festival/rama-navamiCaitra Śukla Navamī festival mūrti-page/ramcharitamanasTulsidās bhakti voice of the same Rāma-līlāRāmopākhyānaVyāsa's Rāma-kathā inside the Mahābhārata/binduDiamond of Darśanas · Rāma/Krishna as one Bindu aperture/philosophyConstitutional Principles and Rāma-Krishna recognition
🪷 The Ślokas · canonical Devanāgarī Sanskrit yathārtha
सचन्द्रकुमुदं रम्यं सार्ककारण्डवं शुभम् ।तिष्यश्रवणकादम्बमभ्रशैवालशाद्वलम् ।। 5.57.1 ।।।।
पुलर्वसुमहामीनं लोहिताङ्गमहाग्रहम् ।ऐरावतमहाद्वीपं स्वातीहंसविलोलितम् ।। 5.57.2 ।।।।
वातसङ्घातजातोर्मिचन्द्रांशुशिशिराम्बुमत् ।भुजङ्गयक्षगन्धर्वप्रबुद्धकमलोत्पलम् ।। 5.57.3 ।।।।
हनुमान् मारुतगतिर्महानौरिव सागरम् ।अपारमपरिश्रान्तः पुप्लुवे गगनार्णवम् ।। 5.57.4 ।।।।
ग्रसमान इवाकाशं ताराधिपमिवोल्लिखन् ।हरन्निव सनक्षत्रं गगनं सार्कमण्डलम् ।। 5.57.5 ।।।।
मारुतस्यात्मजः श्रीमान् कपिर्व्योमचरो महान् ।हनुमान् मेघजालानि विकर्षन्निव गच्छति ।। 5.57.6 ।।।।
पाण्डरारुणवर्णानि नीलमाञ्जिष्ठकानि च ।हरितारुणवर्णानि महाभ्राणि चकाशिरे ।। 5.57.7 ।।।।
प्रविशन्नभ्रजालानि निष्पतंश्च पुनः पुनः ।प्रच्छन्नश्च प्रकाशश्च चन्द्रमा इव लक्ष्यते ।। 5.57.8 ।।।।
विविधाभ्रघनापन्नगोचरो धवलाम्बरः ।दृश्यादृश्यतनुर्वीरस्तदा चन्द्रायते ऽम्बरे ।। 5.57.9 ।।।।
तार्क्ष्यायमाणो गगने बभासे वायुनन्दनः ।दारयन् मेघवृन्दानि निष्पतंश्च पुनः पुनः ।। 5.57.10 ।।।।
नदन्नादेन महता मेघस्वनमहास्वनः ।प्रवरान् राक्षसान् हत्वा नाम विश्राव्य चात्मनः ।। 5.57.11 ।।।।
आकुलां नगरीं कृत्वा व्यथयित्वा च रावणम् ।अर्दयित्वा बलं घोरं वैदेहीमभिवाद्य च ।। 5.57.12 ।।।।
आजगाम महातेजाः पुनर्मध्येन सागरम् ।। 5.57.13 ।।।।
पर्वतेन्द्रं सुनाभं च समुपस्पृश्य वीर्यवान् ।ज्यामुक्त इव नाराचो महावेगो ऽभ्युपागतः ।। 5.57.14 ।।।।
स किंचिदनुसंप्राप्तः समालोक्य महागिरिम् ।महेन्द्रमेघसङ्काशं ननाद हरिपुङ्गवः ।। 5.57.15 ।।।।
स पूरयामास कपिर्दिशो दश समन्ततः ।नदन्नादेन महता मेघस्वनमहास्वनः ।। 5.57.16 ।।।।
स तं देशमनुप्राप्तः सुहृद्दर्शनलालसः ।ननाद हरिशाद्रूलो लाङ्गूलं चाप्यकम्पयत् ।। 5.57.17 ।।।।
तस्य नानद्यमानस्य सुपर्णचरिते पथि ।फलतीवास्य घोषेण गगनं सार्कमण्डलम् ।। 5.57.18 ।।।।
ये तु तत्रोत्तरे तीरे समुद्रस्य महाबलाः ।पूर्वं संविष्ठिताः शूरा वायुपुत्रदिदृक्षवः ।। 5.57.19 ।।।।
महतो वायुनुन्नस्य तोयदस्येव गर्जितम् ।शुश्रुवुस्ते तदा घोषमूरुवेगं हनूमतः ।। 5.57.20 ।।।।
ते दीनमनसः सर्वे शुश्रुवुः काननौकसः ।वानरेन्द्रस्य निर्घोषं पर्जन्यनिनदोपमम् ।। 5.57.21 ।।।।
निशम्य नदतो नादं वानरास्ते समन्ततः ।बभूवुरुत्सुकाः सर्वे सुहृद्दर्शनकाङ्क्षिणः ।। 5.57.22 ।।।।
जाम्बवान् स हरिश्रेष्ठः प्रीतिसंहृष्टमानसः ।उपामन्त्र्य हरीन् सर्वानिदं वचनमब्रवीत् ।। 5.57.23 ।।।।
सर्वथा कृतकार्यो ऽसौ हनूमान्नात्र संशयः ।न ह्यस्याकृतकार्यस्य नाद एवंविधो भवेत् ।। 5.57.24 ।।।।
तस्य बाहूरुवेगं च निनादं च महात्मनः ।निशम्य हरयो हृष्टाः समुत्पेतुस्ततस्ततः ।। 5.57.25 ।।।।
ते नगाग्रान्नगाग्राणि शिखराच्छिखराणि च ।प्रहृष्टाः समपद्यन्त हनूमन्तं दिदृक्षवः ।। 5.57.26 ।।।।
ते प्रीताः पादपाग्रेषु गृह्य शाखाः सुविष्ठिताः ।वासांसीव प्रशाखाश्च समाविध्यन्त वानराः ।। 5.57.27 ।।।।
गिरिगह्वरसंलीनो यथा गर्जति मारुतः ।एवं जगर्ज बलवान् हनूमान् मारुतात्मजः ।। 5.57.28 ।।।।
तमभ्रघनसङ्काशमापतन्तं महाकपिम् ।दृष्ट्वा ते वानराः सर्वे तस्थुः प्राञ्जलयस्तदा ।। 5.57.29 ।।।।
ततस्तु वेगवांस्तस्य गिरेर्गिरिनिभः कपिः ।निपपात महेन्द्रस्य शिखरे पादपाकुले ।। 5.57.30 ।।।।
हर्षेणापूर्यमाणो ऽसौ रम्ये पर्वतनिर्झरे ।छिन्नपक्ष इवाकाशात् पपात धरणीधरः ।। 5.57.31 ।।।।
ततस्ते प्रीतमनसः सर्वे वानरपुङ्गवाः ।हनूमन्तं महात्मानं परिवार्योपतस्थिरे ।परिवार्य च ते सर्वे परां प्रीतिमुपागताः ।। 5.57.32 ।।।।
प्रहृष्टवदनाः सर्वे तमरोगमुपागतम् ।उपायनानि चादाय मूलानि च फलानि च ।प्रत्यर्चयन् हरिश्रेष्ठं हरयो मारुतात्मजम् ।। 5.57.33 ।।।।
हनुमांस्तु गुरून् वृद्धान् जाम्बवत्प्रमुखांस्तदा ।कुमारमङ्गदं चैव सो ऽवन्दत महाकपिः ।। 5.57.34 ।।।।
स ताभ्यां पूजितः पूज्यः कपिभिश्च प्रसादितः ।दृष्टा सीतेति विक्रान्तः संक्षेपेण न्यवेदयत् ।। 5.57.35 ।।।।
निषसाद च हस्तेन गृहीत्वा वालिनः सुतम् ।रमणीये वनोद्देशे महेन्द्रस्य गिरेस्तदा ।। 5.57.36 ।।।।
हनुमानब्रवीद्धृष्टस्तदा तान् वानरर्षभान् ।। 5.57.37 ।।।।
अशोकवनिकासंस्था दृष्टा सा जनकात्मजा ।रक्ष्यमाणा सुघोराभी राक्षसीभिरनिन्दिता ।। 5.57.38 ।।।।
एकवेणीधरा बाला रामदर्शनलालसा ।उपवासपरिश्रान्ता जटिला मलिना कृशा ।। 5.57.39 ।।।।
ततो दृष्टेति वचनं महार्थममृतोपमम् ।निशम्य मारुतेः सर्वे मुदिता वानरा भवन् ।। 5.57.40 ।।।।
क्ष्वेलन्त्यन्ये नदन्त्यन्ये गर्जन्त्यन्ये महाबलाः ।चक्रुः किलिकिलामन्ये प्रतिगर्जन्ति चापरे ।। 5.57.41 ।।।।
केचिदुच्छ्रितलाङ्गूलाः प्रहृष्टाः कपिकुञ्जराः ।अञ्चिता यतदीर्घाणि लांगूलानि प्रविव्यधुः ।। 5.57.42 ।।।।
अपरे च हनूमन्तं वानरा वारणोपमम् ।आप्लुत्य गिरिशृङ्गेभ्यः संस्पृशन्ति स्म हर्षिताः ।। 5.57.43 ।।।।
उक्तवाक्यं हनूमन्तमङ्गदस्तमथाब्रवीत् ।सर्वेषां हरिवीराणां मध्ये वचनमुत्तमम् ।। 5.57.44 ।।।।
सत्त्वे वीर्ये न ते कश्चित् समो वानर विद्यते ।यदवप्लुत्य विस्तीर्णं सागरं पुनरागतः ।। 5.57.45 ।।।।
अहो स्वामिनि ते भक्तिरहो वीर्यमहो धृतिः ।दिष्ट्या दृष्टा त्वया देवी रामपत्नी यशस्विनी ।। 5.57.46 ।।।।
दिष्ट्या त्यक्ष्यति काकुत्स्थः शोकं सीतावियोगजम् ।ततो ऽङ्गदं हनूमन्तं जाम्बवन्तं च वानराः ।। 5.57.47 ।।।।
परिवार्य प्रमुदिता भेजिरे विपुलाः शिलाः ।श्रोतुकामाः समुद्रस्य लङ्घनं वानरोत्तमाः ।। 5.57.48 ।।।।
दर्शनं चापि लङ्कायाः सीताया रावणस्य च ।तस्थुः प्राञ्जलयः सर्वे हनुमद्वदनोन्मुखाः ।। 5.57.49 ।।।।
तस्थौ तत्राङ्गदः श्रीमान् वानरैर्बहुभिर्वृतः ।उपास्यमानो विबुधैर्दिवि देवपतिर्यथा ।। 5.57.50 ।।।।
हनूमता कीर्तिमता यशस्विना तथा ऽङ्गदेनाङ्गदबद्धबाहुना ।मुदा तदाध्यासितमुन्नतं महन्महीधराग्रं ज्वलितं श्रिया ऽभवत् ।। 5.57.51 ।।
Navigation
- ← Previous: Sundara-Kāṇḍa Sarga 56
- Next: Sundara-Kāṇḍa Sarga 58 →
- Sundara-Kāṇḍa sarga-index
- Vālmīki Rāmāyaṇa master-index
- /rama · the non-dual singularity
🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷