🪷 सुन्दरकाण्ड · Sarga 56

Sundara-Kāṇḍa · The Book of Beauty · Sarga 56 · 34 ślokas

🪷 Devanāgarī Ślokas

Vālmīki 5.56.1
ततस्तु शिंशुपामूले जानकीं पर्यवस्थिताम् ।अभिवाद्याब्रवीद्दिष्ट्या पश्यामि त्वामिहाक्षताम् ।। 5.56.1 ।।।। ॥५-५६-१॥
Vālmīki 5.56.2
ततस्तं प्रस्थितं सीता वीक्षमाणा पुनः पुनः ।भर्तृस्नेहान्वितं वाक्यं हनुमन्तमभाषत ।। 5.56.2 ।।।। ॥५-५६-२॥
Vālmīki 5.56.3
काममस्य त्वमेवैकः कार्यस्य परिसाधने ।पर्याप्तः परवीरघ्न यशस्यस्ते बलोदयः ।। 5.56.3 ।।।। ॥५-५६-३॥
Vālmīki 5.56.4
शरैस्तु सङ्कुलां कृत्वा लङ्कां परबलार्दनः ।मां नयेद्यदि काकुत्स्थस्तत्तस्य सदृशं भवेत् ।। 5.56.4 ।।।। ॥५-५६-४॥
Vālmīki 5.56.5
तद्यथा तस्य विक्रान्तमनुरूपं महात्मनः ।भवत्याहवशूरस्य तथा त्वमुपपादय ।। 5.56.5 ।।।। ॥५-५६-५॥
Vālmīki 5.56.6
तदर्थोपहितं वाक्यं प्रश्रितं हेतुसंहितम् ।निशम्य हनुमांस्तस्या वाक्यमुत्तरमब्रवीत् ।। 5.56.6 ।।।। ॥५-५६-६॥
Vālmīki 5.56.7
क्षिप्रमेष्यति काकुत्स्थो हर्यृक्षप्रवरैर्वृतः ।यस्ते युधि विजित्यारीन् शोकं व्यपनयिष्यति ।। 5.56.7 ।।।। ॥५-५६-७॥
Vālmīki 5.56.8
एवमाश्वास्य वैदेहीं हनुमान् मारुतात्मजः ।गमनाय मतिं कृत्वा वैदेहीमभ्यवादयत् ।। 5.56.8 ।।।। ॥५-५६-८॥
Vālmīki 5.56.9
ततः स कपिशार्दूलः स्वामिसन्दर्शनोत्सुकः ।आरुरोह गिरिश्रेष्ठमरिष्टमरिमर्दनः ।। 5.56.9 ।।।। ॥५-५६-९॥
Vālmīki 5.56.10
तुङ्गपद्मकजुष्टाभिर्नीलाभिर्वनराजिभिः ।सोत्तरीयमिवाम्भोदैः श्रृङ्गान्तरविलम्बिभिः ।। 5.56.10 ।।।। ॥५-५६-१०॥
Vālmīki 5.56.11
बोध्यमानमिव प्रीत्या दिवाकरकरैः शुभैः ।उन्मिषन्तमिवोद्धूतैर्लोचनैरिव धातुभिः ।। 5.56.11 ।।।। ॥५-५६-११॥
Vālmīki 5.56.12
तोयौघनिस्वनैर्मन्द्रैः प्राधीतमिव पर्वतम् ।प्रगीतमिव विस्पष्टैर्नानाप्रस्रवणस्वनैः ।। 5.56.12 ।।।। ॥५-५६-१२॥
Vālmīki 5.56.13
देवदारुभिरत्युच्चैरूर्ध्वबाहुमिव स्थितम् ।प्रपातजलनिर्घोषैः प्राक्रृष्टमिव सर्वतः ।। 5.56.13 ।।।। ॥५-५६-१३॥
Vālmīki 5.56.14
वेपमानमिव श्यामैः कम्पमानैः शरद्घनैः ।वेणुभिमारुतोद्धूतैः कूजन्तमिव कीचकैः ।। 5.56.14 ।।।। ॥५-५६-१४॥
Vālmīki 5.56.15
निःश्वसन्तमिवामर्षाद्घोरैराशीविषोत्तमैः ।नीहारकृतगम्भीरैर्ध्यायन्तमिव गह्वरैः ।। 5.56.15 ।।।। ॥५-५६-१५॥
Vālmīki 5.56.16
मेघपादनिभैः पादैः प्रक्रान्तमिव सर्वतः ।जृम्भमाणमिवाकाशे शिखरैरभ्रमालिभिः ।। 5.56.16 ।।।। ॥५-५६-१६॥
Vālmīki 5.56.17
कूटैश्च बहुधाकीर्णैः शोभितं बहुकन्दरैः ।सालतालाश्वकर्णैश्च वंशैश्च बहुभिर्वृतम् ।। 5.56.17 ।।।। ॥५-५६-१७॥
Vālmīki 5.56.18
लतावितानैर्विततैः पुष्पवद्भिरलङ्कृतम् ।नानामृगगणाकीर्णं धातुनिष्यन्दभूषितम् ।बहुप्रस्रवणोपेतं शिलासञ्चयसङ्कटम् ।। 5.56.18 ।।।। ॥५-५६-१८॥
Vālmīki 5.56.19
महर्षियक्षगन्धर्वकिन्नरोरगसेवितम् ।लतापादपसङ्घातं सिंहाध्युषितकन्दरम् ।। 5.56.19 ।।।। ॥५-५६-१९॥
Vālmīki 5.56.20
व्याघ्रसङ्घसमाकीर्णं स्वादुमूलकफलद्रुमम् ।। 5.56.20 ।।।। ॥५-५६-२०॥
Vālmīki 5.56.21
तमारुरोह हनुमान् पर्वतं पवनात्मजः ।रामदर्शनशीघ्रेण प्रहर्षेणाभिचोदितः ।। 5.56.21 ।।।। ॥५-५६-२१॥
Vālmīki 5.56.22
तेन पादतलाक्रान्ता रम्येषु गिरिसानुषु ।सघोषाः समशीर्यन्त शिलाश्चूर्णीकृतास्ततः ।। 5.56.22 ।।।। ॥५-५६-२२॥
Vālmīki 5.56.23
स तमारुह्य शैलेन्द्रं व्यवर्धत व्यवर्धत महाकपिः ।दक्षिणादुत्तरं पारं प्रार्थयन् लवणाम्भसः ।। 5.56.23 ।।।। ॥५-५६-२३॥
Vālmīki 5.56.24
अधिरूह्य ततो वीरः पर्वतं पवनात्मजः ।ददर्श सागरं भीमं मीनोरगनिषेवितम् ।। 5.56.24 ।।।। ॥५-५६-२४॥
Vālmīki 5.56.25
स मारुत इवाकाशं मारुतस्यात्मसम्भवः ।प्रपेदे हरिशार्दूलो दक्षिणादुत्तरां दिशम् ।। 5.56.25 ।।।। ॥५-५६-२५॥
Vālmīki 5.56.26
स तदा पीडितस्तेन कपिना पर्वतोत्तमः ।ररास सह तैर्भूतैः प्रविशन् वसुधातलम् ।कम्पमानैश्च शिखरैः पतद्भिरपि च द्रुमैः ।। 5.56.26 ।।।। ॥५-५६-२६॥
Vālmīki 5.56.27
तस्योरुवेगोन्मथिताः पादपाः पुष्पशालिनः ।निपेतुर्भूतले रुग्णाः शक्रायुधहता इव ।। 5.56.27 ।।।। ॥५-५६-२७॥
Vālmīki 5.56.28
कन्दरान्तरसंस्थानां पीडितानां महौजसाम् ।सिंहानां निनदो भीमो नभो भिन्दन् स शुश्रुवे ।। 5.56.28 ।।।। ॥५-५६-२८॥
Vālmīki 5.56.29
स्रस्तव्याविद्धवसना व्याकुलीकृतभूषणाः ।विद्याधर्यः समुत्पेतुः सहसा धरणीधरात् ।। 5.56.29 ।।।। ॥५-५६-२९॥
Vālmīki 5.56.30
अतिप्रमाणा बलिनो दीप्तजिह्वा महाविषाः ।निपीडितशिरोग्रीवा व्यवेष्टन्त महाहयः ।। 5.56.30 ।।।। ॥५-५६-३०॥
Vālmīki 5.56.31
किन्नरोरगगन्धर्वयक्षविद्याधरास्तदा ।पीडितं तं नगवरं त्यक्त्वा गगनमास्थिताः ।। 5.56.31 ।।।। ॥५-५६-३१॥
Vālmīki 5.56.32
स च भूमिधरः श्रीमान् बलिना तेन पीडितः ।सवृक्षशिखरोदग्रः प्रविवेश रसातलम् ।। 5.56.32 ।।।। ॥५-५६-३२॥
Vālmīki 5.56.33
दशयोजनविस्तारस्त्रिंशद्योजनमुच्छ्रितः ।धरण्यां समतां यातः स बभूव धराधरः ।। 5.56.33 ।।।। ॥५-५६-३३॥
Vālmīki 5.56.34
स लिलङ्घयिषुर्भीमं सलीलं लवणार्णवम् ।कल्लोलास्फालवेलान्तमुत्पपात नभो हरिः ॥५-५६-३४॥

Navigation

Continue with Sundara-Kāṇḍa, the seven-Kāṇḍa reading index, or the Rāmcharitamānas companion reading. Source and rights documentation remains available in the editorial standards.

🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷