🪷 सुन्दरकाण्ड · Sarga 53
Sundara-Kāṇḍa · The Book of Beauty · Sarga 53 · 45 ślokas
🪷 Devanāgarī Ślokas
तस्य तद्वचनं श्रुत्वा दशग्रीवो महाबलः ।देशकालहितं वाक्यं भ्रातुरुत्तरमब्रवीत् ।। 5.53.1।।।। ॥५-५३-१॥
सम्यगुक्तं हि भवता दूतवध्या विगर्हिता ।अवश्यं तु वधादन्यः क्रियतामस्य निग्रहः ।। 5.53.2।।।। ॥५-५३-२॥
कपीनां किल लाङ्गूलमिष्टं भवति भूषणम् ।तदस्य दीप्यतां शीघ्रं तेन दग्धेन गच्छतु ।। 5.53.3।।।। ॥५-५३-३॥
ततः पश्यन्त्विमं दीनमङ्गवैरूप्यकर्शितम् ।समित्रज्ञातयः सर्वे बान्धवाः ससुहृज्जनाः ।। 5.53.4।।।। ॥५-५३-४॥
आज्ञापयद्राक्षसेन्द्रः पुरं सर्वं सचत्वरम् ।लाङ्गूलेन प्रदीप्तेन रक्षोभिः परिणीयताम् ।। 5.53.5।।।। ॥५-५३-५॥
वेष्टयन्ति स्म लाङ्गूलं जीर्णैः कार्पासकैः पटैः ।। 5.53.6।।।। ॥५-५३-६॥
संवेष्ट्यमाने लाङ्गूले व्यवर्धत महाकपिः ।शुष्कमिन्धनमासाद्य वनेष्विव हुताशनः ।तैलेन परिषिच्याथ ते ऽग्निं तत्राभ्यपातयन् ।। 5.53.7।।।। ॥५-५३-७॥
लाङूलेन प्रदीप्तेन राक्षसांस्तानपातयत् ।रोषामर्षपरीतात्मा बालसूर्यसमाननः ।। 5.53.8।।।। ॥५-५३-८॥
लाङ्गूलं संप्रदीप्तं तु द्रष्टुं तस्य हनूमतः ।सहस्त्रीबालवृद्धाश्च जग्मुः प्रीता निशाचराः ।। 5.53.9।।।। ॥५-५३-९॥
स भूयः सङ्गतैः क्रूरै राक्षसैर्हरिसत्तमः ।निबद्धः कृतवान् वीरस्तत्कालसदृशीं मतिम् ।। 5.53.10।।।। ॥५-५३-१०॥
कामं खलु न मे शक्ता निबद्धस्यापि राक्षसाः ।छित्त्वा पाशान् समुत्पत्य हन्यामहमिमान् पुनः ।। 5.53.11।।।। ॥५-५३-११॥
यदि भर्तृहितार्थाय चरन्तं भर्तृशासनात् ।बध्नन्त्येते दुरात्मानो न तु मे निष्कृतिः कृता ।। 5.53.12।।।। ॥५-५३-१२॥
सर्वेषामेव पर्याप्तो राक्षसानामहं युधि ।किं तु रामस्य प्रीत्यर्थं विषहिष्ये ऽहमीदृशम् ।। 5.53.13।।।। ॥५-५३-१३॥
लङ्का चारयितव्या वै पुनरेव भवेदिति ।रात्रौ न हि सुदृष्टा मे दुर्गकर्मविधानतः ।। 5.53.14।।।। ॥५-५३-१४॥
अवश्यमेव द्रष्टव्या मया लङ्का निशाक्षये ।। 5.53.15।।।। ॥५-५३-१५॥
कामं बद्धस्य मे भूयः पुच्छस्योद्दीपनेन च ।पीडां कुर्वन्तु रक्षांसि न मे ऽस्ति मनसः श्रमः ।। 5.53.16।।।। ॥५-५३-१६॥
ततस्ते संवृताकारं सत्त्ववन्तं महाकपिम् ।परिगृह्य ययुर्हृष्टा राक्षसाः कपिकुञ्जरम् ।। 5.53.17।।।। ॥५-५३-१७॥
शङ्खभेरीनिनादैस्तं घोयषयन्तः स्वकर्मभिः ।राक्षसाः क्रूरकर्माणश्चारयन्ति स्म तां पुरीम् ।। 5.53.18।।।। ॥५-५३-१८॥
अन्वीयमानो रक्षोभिर्ययौ सुखमरिन्दमः ।हनुमांश्चारयामास राक्षसानां महापुरीम् ।। 5.53.19।।।। ॥५-५३-१९॥
अथापश्यद्विमानानि विचित्राणि महाकपिः ।संवृतान् भूमिभागांश्च सुविभक्तांश्च चत्वरान् ।। 5.53.20।।।। ॥५-५३-२०॥
वीथीश्च गृहसंबाधाः कपिः श्रृङ्गाटकानि च ।तथा रथ्योपरथ्याश्च तथैव गृहकान्तरान् ।गृहांश्च मेघसङ्काशान् ददर्श पवनात्मजः ।। 5.53.21।।।। ॥५-५३-२१॥
चत्वरेषु चतुष्केषु राजमार्गे तथैव च ।घोषयन्ति कपिं सर्वे चारीक इति राक्षसाः ।। 5.53.22।।।। ॥५-५३-२२॥
स्त्रीबालवृद्धा निर्जग्मुस्तत्र तत्र कुतूहलात् ।तं प्रदीपितलाङ्गूलं हनुमन्तं दिदृक्षवः ।। 5.53.23।।।। ॥५-५३-२३॥
दीप्यमाने ततस्तस्य लांगूलाग्रे हनूमतः ।राक्षस्यस्ता विरूपाक्ष्यः शंसुर्देव्यास्तदप्रियम् ।। 5.53.24।।।। ॥५-५३-२४॥
यस्त्वया कृतसंवादः सीते ताम्रमुखः कपिः ।लाङ्गूलेन प्रदीप्तेन स एष परिणीयते ।। 5.53.25।।।। ॥५-५३-२५॥
श्रत्वा तद्वचनं क्रूरमात्मापहरणोपमम् ।वैदेही शोकसन्तप्ता हुताशनमुपागमत् ।। 5.53.26।।।। ॥५-५३-२६॥
मङ्गलाभिमुखी तस्य सा तदा ऽ ऽसीन्महाकपेः ।उपतस्थे विशालाक्षी प्रयता हव्यवाहनम् ।। 5.53.27।।।। ॥५-५३-२७॥
यद्यस्ति पतिशुश्रूषा यद्यस्ति चरितं तपः ।यदि चास्त्येकपत्नीत्वं शीतो भव हनूमतः ।। 5.53.28।।।। ॥५-५३-२८॥
यदि किंचिदनुक्रोशस्तस्य मय्यस्ति धीमतः ।यदि वा भाग्यशेषो मे शीतो भव हनूमतः ।। 5.53.29।।।। ॥५-५३-२९॥
यदि मां वृत्तसम्पन्नां तत्समागमलालसाम् ।स विजानाति धर्मात्मा शीतो भव हनूमतः ।। 5.53.30।।।। ॥५-५३-३०॥
यदि मां तारयेदार्यः सुग्रीवः सत्यसङ्गरः ।अस्माद्दुःखाम्बुसंरोधाच्छीतो भव हनूमतः ।। 5.53.31।।।। ॥५-५३-३१॥
ततस्तीक्ष्णार्चिरव्यग्रः प्रदक्षिणशिखो ऽनलः ।जज्वाल मृगशावाक्ष्याः शंसन्निव शिवं कपेः ।। 5.53.32।।।। ॥५-५३-३२॥
हनुमज्जनकश्चापि पुच्छानलयुतो ऽनिलः ।ववौ स्वास्थ्यकरो देव्याः प्रालेयानिलशीतलः ।। 5.53.33।।।। ॥५-५३-३३॥
दह्यमाने च लाङ्गूले चिन्तयामास वानरः ।। 5.53.34।।।। ॥५-५३-३४॥
प्रदीप्तो ऽग्निरयं कस्मान्न मां दहति सर्वतः ।दृश्यते च महाज्वालः करोति न च मे रुजम् ।शिशिरस्येव सम्पातो लाङ्गूलाग्रे प्रतिष्ठितः ।। 5.53.35।।।। ॥५-५३-३५॥
अथवा तदिदं व्यक्तं यद् दृष्टं प्लवता मया ।रामप्रभावादाश्चर्यं पर्वतः सरितां पतौ ।। 5.53.36।।।। ॥५-५३-३६॥
यदि तावत् समुद्रस्य मैनाकस्य च धीमतः ।रामार्थं सम्भ्रमस्तादृक् किमग्निर्न करिष्यति ।। 5.53.37।।।। ॥५-५३-३७॥
सीतायाश्चानृशंस्येन तेजसा राघवस्य च ।पितुश्च मम सख्येन न मां दहति पावकः ।। 5.53.38।।।। ॥५-५३-३८॥
भूयः स चिन्तयामास मुहूर्तं कपिकुञ्जरः ।। 5.53.39।।।। ॥५-५३-३९॥
उत्पपाताथ वेगेन ननाद च महाकपिः ।पुरद्वारं ततः श्रीमान् शैलशृङ्गमिवोन्नतम् ।।।। ॥५-५३-४०॥
विभक्तरक्षस्सम्बाधमाससादानिलात्मजः ।। 5.53.40।।।। ॥५-५३-४१॥
स भूत्वा शैलसङ्काशः क्षणेन पुनरात्मवान् ।ह्रस्वतां परमां प्राप्तो बन्धनान्यवशातयत् ।। 5.53.41।।।। ॥५-५३-४२॥
विमुक्तश्चाभवच्छ्रीमान् पुनः पर्वतसन्निभः ।वीक्षमाणश्च ददृशे परिघं तोरणाश्रितम् ।। 5.53.42।।।। ॥५-५३-४३॥
स तं गृह्य महाबाहुः कालायसपरिष्कृतम् ।रक्षिणस्तान् पुनः सर्वान् सूदयामास मारुतिः ।। 5.53.43।।।। ॥५-५३-४४॥
स तान्निहत्वा रणचण्डविक्रमः समीक्षमाणः पुनरेव लङ्काम् ।प्रदीप्तलाङ्गूलकृतार्चिमाली प्रकाशतादित्य इवार्चिमाली ॥५-५३-४५॥
Navigation
- ← Previous: Sundara-Kāṇḍa Sarga 52
- Next: Sundara-Kāṇḍa Sarga 54 →
- Sundara-Kāṇḍa sarga-index
- Vālmīki Rāmāyaṇa master-index
- /rama · the non-dual singularity
Continue with Sundara-Kāṇḍa, the seven-Kāṇḍa reading index, or the Rāmcharitamānas companion reading. Source and rights documentation remains available in the editorial standards.
🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷