🪷 सुन्दरकाण्ड · Sarga 52

Sundara-Kāṇḍa · The Book of Beauty · Sarga 52 · 26 ślokas

🪷 Devanāgarī Ślokas

Vālmīki 5.52.1
तस्य तद्वचनं श्रुत्वा वानरस्य महात्मनः ।आज्ञापयद्वधं तस्य रावणः क्रोधमूर्च्छितः ।। ५.५२.१।।।। ॥५-५२-१॥
Vālmīki 5.52.2
वधे तस्य समाज्ञप्ते रावणेन दुरात्मना ।निवेदितवतो दौत्यं नानुमेने विभीषणः ।। ५.५२.२।।।। ॥५-५२-२॥
Vālmīki 5.52.3
तं रक्षोधिपतिं क्रुद्धं तच्च कार्यमुपस्थितम् ।विदित्वा चिन्तयामास कार्यं कार्यविधौ स्थितः ।। ५.५२.३।।।। ॥५-५२-३॥
Vālmīki 5.52.4
निश्चितार्थस्ततः साम्ना ऽ ऽपूज्य शत्रुजिदग्रजम् ।उवाच हितमत्यर्थं वाक्यं वाक्यविशारदः ।। ५.५२.४।।।। ॥५-५२-४॥
Vālmīki 5.52.5
क्षमस्व रोषं त्यज राक्षसेन्द्र प्रसीद मद्वाक्यमिदं शृणुष्व ।वधं न कुर्वन्ति परावरज्ञा दूतस्य सन्तो वसुधाधिपेन्द्राः ।। ५.५२.५।।।। ॥५-५२-५॥
Vālmīki 5.52.6
राजधर्मविरुद्धं च लोकवृत्तेश्च गर्हितम् ।तव चासदृशं वीर कपेरस्य प्रमापणम् ।। ५.५२.६।।।। ॥५-५२-६॥
Vālmīki 5.52.7
धर्मज्ञश्च कृतज्ञश्च राजधर्मविशारदः ।परावरज्ञो भूतानां त्वमेव परमार्थवित् ।। ५.५२.७।।।। ॥५-५२-७॥
Vālmīki 5.52.8
गृह्यन्ते यदि रोषेण त्वादृशो ऽपि विपश्चितः ।ततः शास्त्रधर्मविपश्चित्त्वं श्रम एव हि केवलम् ।। ५.५२.८।।।। ॥५-५२-८॥
Vālmīki 5.52.9
तस्मात् प्रसीद शत्रुघ्न राक्षसेन्द्र दुरासद ।युक्तायुक्तं विनिश्चित्य दूतदण्डे विधीयताम् ।। ५.५२.९।।।। ॥५-५२-९॥
Vālmīki 5.52.10
विभीषणवचः श्रुत्वा रावणो राक्षसेश्वरः ।रोषेण महताविष्टो वाक्यमुत्तरमब्रवीत् ।। ५.५२.१०।।।। ॥५-५२-१०॥
Vālmīki 5.52.11
न पापानां वधे पापं विद्यते शत्रुसूदन ।तस्मादेनं वधिष्यामि वानरं पापचारिणम् ।। ५.५२.११।।।। ॥५-५२-११॥
Vālmīki 5.52.12
अधर्ममूलं बहुरोषयुक्तमनार्यजुष्टं वचनं निशम्य ।उवाच वाक्यं परमार्थतत्त्वं विभीषणो बुद्धिमतां वरिष्ठः ।। ५.५२.१२।।।। ॥५-५२-१२॥
Vālmīki 5.52.13
प्रसीद लङ्केश्वर राक्षसेन्द्र धर्मार्थयुक्तं वचनं शृणुष्व ।दूता न वध्याः समयेषु राजन् सर्वेषु सर्वत्र वदन्ति सन्तः ।। ५.५२.१३।।।। ॥५-५२-१३॥
Vālmīki 5.52.14
असंशयं शत्रुरयं प्रवृद्धः कृतं ह्यनेनाप्रियमप्रमेयम् ।न दूतवध्यां प्रवदन्ति सन्तो दूतस्य दृष्टा बहवो हि दण्डाः ।। ५.५२.१४।।।। ॥५-५२-१४॥
Vālmīki 5.52.15
वैरूप्यमङ्गेषु कशाभिघातो मौण्ड्यं(ढ्यं) तथा लक्षणसन्निपातः ।एतान् हि दूते प्रवदन्ति दण्डान् वधस्तु दूतस्य न नः श्रुतो ऽपि ।। ५.५२.१५।।।। ॥५-५२-१५॥
Vālmīki 5.52.16
कथं च धर्मार्थविनीतबुद्धिः परावरप्रत्ययनिश्चितार्थः ।भवद्विधः कोपवशे हि तिष्ठेत् कोपं नियच्छन्ति हि सत्त्ववन्तः ।। ५.५२.१६।।।। ॥५-५२-१६॥
Vālmīki 5.52.17
न धर्मवादे न च लोकवृत्ते न शास्त्रबुद्धिग्रहणेषु चापि ।विद्येत कश्चित्तव वीरतुल्यस्त्वं ह्युत्तमः सर्वसुरासुराणाम् ।। ५.५२.१७।।।। ॥५-५२-१७॥
Vālmīki 5.52.18
न चाप्यस्य कपेर्घाते कञ्चित् पश्याम्यहं गुणम् ।तेष्वयं पात्यतां दण्डो यैरयं प्रेषितः कपिः ।। ५.५२.१८।।।। ॥५-५२-१८॥
Vālmīki 5.52.19
साधुर्वा यदिवा ऽसाधुः परैरेष समर्पितः ।ब्रुवन् परार्थं परवान् न दूतो वधमर्हति ।। ५.५२.१९।।।। ॥५-५२-१९॥
Vālmīki 5.52.20
अपि चास्मिन् हते राजन् नान्यं पश्यामि खेचरम् ।इह यः पुनरागच्छेत् परं पारं महोदधेः ।। ५.५२.२०।।।। ॥५-५२-२०॥
Vālmīki 5.52.21
तस्मान्नास्य वदे यत्नः कार्यः परपुरञ्जय ।भवान् सेन्द्रेषु देवेषु यत्नमास्तातुमर्हति ।। ५.५२.२१।।।। ॥५-५२-२१॥
Vālmīki 5.52.22
अस्मिन् विनष्टे नहि दूतमन्यं पश्यामि यस्तौ नरराजपुत्रौ ।युद्धाय युद्धप्रिय दुर्विनीतावुद्योजयेद्दीर्घपथावरुद्धौ ।। ५.५२.२२।।।। ॥५-५२-२२॥
Vālmīki 5.52.23
पराक्रमोत्साहमनस्विनां च सुरासुराणामपि दुर्जयेन ।त्वया मनोनन्दन नैर्ऋतानां युद्धायतिर्नाशयितुं न युक्ता ।। ५.५२.२३।।।। ॥५-५२-२३॥
Vālmīki 5.52.24
हिताश्च शूराश्च समाहिताश्च कुलेषु जाताश्च महागुणेषु ।मनस्विनः शस्त्रभृतां वरिष्ठाः कोट्यग्रतस्ते सुभृताश्च योधाः ।। ५.५२.२४।।।। ॥५-५२-२४॥
Vālmīki 5.52.25
तदेकदेशेन बलस्य तावत् केचित्तवादेशकृतो ऽभियान्तु ।तौ राजपुत्रौ विनिगृह्य मूढौ परेषु ते भावयितुं प्रभावम् ।। ५.५२.२५।।।। ॥५-५२-२५॥
Vālmīki 5.52.26
निशाचराणामधिपो ऽनुजस्य विभीषणस्योत्तमवाक्यमिष्टम् ।जग्राह बुद्ध्या सुरलोकशत्रुर्महाबलो राक्षसराजमुख्यः ॥५-५२-२६॥

Navigation

Continue with Sundara-Kāṇḍa, the seven-Kāṇḍa reading index, or the Rāmcharitamānas companion reading. Source and rights documentation remains available in the editorial standards.

🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷