🪷 सुन्दरकाण्ड · Sarga 51
Sundara-Kāṇḍa · The Book of Beauty · Sarga 51 · 46 ślokas
🪷 Devanāgarī Ślokas
तं समीक्ष्य महासत्त्वं सत्त्ववान् हरिसत्तमः ।वाक्यमर्थवदव्यग्रस्तमुवाच दशाननम् ।। ५.५१.१।।।। ॥५-५१-१॥
अहं सुग्रीवसन्देशादिह प्राप्तस्तवालयम् ।राक्षसेन्द्र हरीशस्त्वां भ्राता कुशलमब्रवीत् ।। ५.५१.२।।।। ॥५-५१-२॥
भ्रातुः शृणु समादेशं सुग्रीवस्य महात्मनः ।धर्मार्थोपहितं वाक्यमिह चामुत्र च क्षमम् ।। ५.५१.३।।।। ॥५-५१-३॥
राजा दशरथो नाम रथकुञ्जरवाजिमान् ।पितेव बन्धुर्लोकस्य सुरेश्वरसमद्युतिः ।। ५.५१.४।।।। ॥५-५१-४॥
ज्येष्ठस्तस्य महाबाहुः पुत्रः प्रियकरः प्रभुः ।पितुर्निर्देशान्निष्क्रान्तः प्रविष्टो दण्डकावनम् ।। ५.५१.५।।।। ॥५-५१-५॥
लक्ष्मणेन सह भ्रात्रा सीतया चापि भार्यया ।रामो नाम महातेजा धर्म्यं पन्थानमाश्रितः ।। ५.५१.६।।।। ॥५-५१-६॥
तस्य भार्या वने नष्टा सीता पतिमनुव्रता ।वैदेहस्य सुता राज्ञो जनकस्य महात्मनः ।। ५.५१.७।।।। ॥५-५१-७॥
स मार्गमाणस्तां देवीं राजपुत्रः सहानुजः ।ऋश्यमूकमनुप्राप्तः सुग्रीवेण समागतः ।। ५.५१.८।।।। ॥५-५१-८॥
तस्य तेन प्रतिज्ञातं सीतायाः परिमार्गणम् ।सुग्रीवस्यापि रामेण हरिराज्यं निवेदितम् ।। ५.५१.९।।।। ॥५-५१-९॥
ततस्तेन मृधे हत्वा राजपुत्रेण वालिनम् ।सुग्रीवः स्थापितो राज्ये हर्यृक्षाणां गणेश्वरः ।। ५.५१.१०।।।। ॥५-५१-१०॥
त्वया विज्ञातपूर्वश्च वाली वानरपुङ्गवः ।रामेण निहतः सङ्ख्ये शरेणैकेन वानरः ।। ५.५१.११।।।। ॥५-५१-११॥
स सीतामार्गणे व्यग्रः सुग्रीवः सत्यसङ्गरः ।हरीन् संप्रेषयामास दिशः सर्वा हरीश्वरः ।। ५.५१.१२।।।। ॥५-५१-१२॥
तां हरीणां सहस्राणि शतानि नियुतानि च ।दिक्षु सर्वासु मार्गन्ते ह्यधश्चोपरि चाम्बरे ।। ५.५१.१३।।।। ॥५-५१-१३॥
वैनतेयसमाः केचित् केचित्तत्रानिलोपमाः ।असङ्गगतयः शीघ्रा हरिवीरा महाबलाः ।। ५.५१.१४।।।। ॥५-५१-१४॥
अहं तु हनुमान्नाम मारुतस्यौरसः सुतः ।सीतायास्तु कृते तूर्णं शतयोजनमायतम् ।। ५.५१.१५।।।। ॥५-५१-१५॥
समुद्रं लङ्घयित्वैव तां दिदृक्षुरिहागतः ।भ्रमता च मया दृष्टा गृहे ते जनकात्मजा ।। ५.५१.१६।।।। ॥५-५१-१६॥
तद्भवान् दृष्टधर्मार्थस्तपः कृतपरिग्रहः ।परदारान् महाप्राज्ञ नोपरोद्धुं त्वमर्हसि ।। ५.५१.१७।।।। ॥५-५१-१७॥
न हि धर्मविरुद्धेषु बह्वपायेषु कर्मसु ।मूलघातिषु सज्जन्ते बुद्धिमन्तो भवद्विधाः ।। ५.५१.१८।।।। ॥५-५१-१८॥
कश्च लक्ष्मणमुक्तानां रामकोपानुवर्तिनाम् ।शराणामग्रतः स्थातुं शक्तो देवासुरेष्वपि ।। ५.५१.१९।।।। ॥५-५१-१९॥
न चापि त्रिषु लोकेषु राजन् विद्येत कश्चन ।राघवस्य व्यलीकं यः कृत्वा सुखमवाप्नुयात् ।। ५.५१.२०।।।। ॥५-५१-२०॥
तत्त्रिकालहितं वाक्यं धर्म्यमर्थानुबन्धि च ।मन्यस्व नरदेवाय जानकी प्रतिदीयताम् ।। ५.५१.२१।।।। ॥५-५१-२१॥
दृष्टा हीयं मया देवी लब्धं यदिह दुर्लभम् ।उत्तरं कर्म यच्छेषं निमित्तं तत्र राघवः ।। ५.५१.२२।।।। ॥५-५१-२२॥
लक्षितेयं मया सीता तथा शोकपायणा ।गृह्य यां नाभिजानासि पञ्चास्यामिव पन्नगीम् ।। ५.५१.२३।।।। ॥५-५१-२३॥
नेयं जरयितुं शक्या सासुरैरमरैरपि ।विषसंसृष्टमत्यर्थं भुक्तमन्नमिवौजसा ।। ५.५१.२४।।।। ॥५-५१-२४॥
तपस्सन्तापलब्धस्ते यो ऽय धर्मपरिग्रहः ।न स नाशयितुं न्याय्यमात्मप्राणपरिग्रहः ।।। ५.५१.२५।।।। ॥५-५१-२५॥
अवध्यतां तपो ऽभिर्यां भवान् समनुपश्यति ।आत्मनः सासुरैर्देवैर्हेतुस्तत्राप्ययं महान् ।। ५.५१.२६।।।। ॥५-५१-२६॥
सुग्रीवो न हि देवो ऽयं नासुरो न च राक्षसः ।न दानवो न गन्धर्वो न यक्षो न च पन्नगः ।तस्मात् प्राणपरित्राणं कथं राजन् करिष्यसि ।। ५.५१.२७।।।। ॥५-५१-२७॥
न तु धर्मोपसंहारमधर्मफलसंहितम् ।तदेव फलमन्वेति धर्मश्चाधर्मनाशनः ।। ५.५१.२८।।।। ॥५-५१-२८॥
प्राप्तं धर्मफलं तावद्भवता नात्र संशयः ।फलमस्याप्यधर्मस्य क्षिप्रमेव प्रपत्स्यसे ।। ५.५१.२९।।।। ॥५-५१-२९॥
जनस्थानवधं बुद्ध्वा बुद्ध्वा वालिवधं तथा ।रामसुग्रीवसख्यं च बुद्ध्यस्व हितमात्मनः ।। ५.५१.३०।।।। ॥५-५१-३०॥
कामं खल्वहमप्येकः सवाजिरथकुञ्जराम् ।लङ्कां नाशयितुं शक्तस्तस्यैष तु न निश्चयः ।। ५.५१.३१।।।। ॥५-५१-३१॥
रामेण हि प्रतिज्ञातं हर्यृक्षगणसन्निधौ ।उत्सादनममित्राणां सीता यैस्तु प्रधर्षिता ।। ५.५१.३२।।।। ॥५-५१-३२॥
अपकुर्वन् हि रामस्य साक्षादपि पुरन्दरः ।न सुखं प्राप्नुयादन्यः किं पुनस्त्वद्विधो जनः ।। ५.५१.३३।।।। ॥५-५१-३३॥
यां सीतेत्यभिजानासि येयं तिष्ठति ते वशे ।कालरात्रीति तां विद्धि सर्वलङ्काविनाशिनीम् ।। ५.५१.३४।।।। ॥५-५१-३४॥
तदलं कालपाशेन सीताविग्रहरूपिणा ।स्वयं स्कन्धावसक्तेन क्षममात्मनि चिन्त्यताम् ।। ५.५१.३५।।।। ॥५-५१-३५॥
सीतायास्तेजसा दग्धां रामकोपप्रपीडिताम् ।दह्यमानामिमां पश्य पुरीं साट्टप्रतोलिकाम् ।। ५.५१.३६।।।। ॥५-५१-३६॥
स्वानि मित्राणि मन्त्रीश्च ज्ञातीन् भ्रातऽन् सुतान् हितान् ।भोगान् दारांश्च लङ्कां च मा विनाशमुपानय ।। ५.५१.३७।।।। ॥५-५१-३७॥
सत्यं राक्षसराजेन्द्र शृणुष्व वचनं मम ।रामदासस्य दृतस्य वानरस्य विशेषतः ।। ५.५१.३८।।।। ॥५-५१-३८॥
सर्वान्लोकान् सुसंहृत्य सभूतान् सचराचरान् ।पुनरेव तथा स्रष्टुं शक्तो रामो महायशाः ।। ५.५१.३९।।।। ॥५-५१-३९॥
देवासुरनरेन्द्रेषु यक्षरक्षोगणेषु च ।विद्याधरेषु सर्वेषु गन्धर्वेषूरगेषु च ।। ५.५१.४०।।।। ॥५-५१-४०॥
सिद्धेषु किन्नरेन्द्रेषु पतत्त्रिषु च सर्वतः ।। ५.५१.४१।।।। ॥५-५१-४१॥
सर्वभूतेषु सर्वत्र सर्वकालेषु नास्ति सः ।यो रामं प्रतियुद्ध्येत विष्णुतुल्यपराक्रमम् ।। ५.५१.४२।।।। ॥५-५१-४२॥
सर्वलोकेश्वरस्यैवं कृत्वा विप्रियमुत्तमम् ।रामस्य राजसिंहस्य दुर्लभं तव जीवितम् ।। ५.५१.४३।।।। ॥५-५१-४३॥
देवाश्च दैत्याश्च निशाचरेन्द्र गन्धर्वविद्याधरनागयक्षाः ।रामस्य लोकत्रयनायकस्य स्थातुं न शक्ताः समरेषु सर्वे ।। ५.५१.४४।।।। ॥५-५१-४४॥
ब्रह्मा स्वयम्भूश्चतुराननो वा रुद्रस्त्रिनेत्रस्त्रिपुरान्तको वा ।इन्द्रो महेन्द्रः सुरनायको वा त्रातुं न शक्ता युधि रामवध्यम् ।। ५.५१.४५।।।। ॥५-५१-४५॥
स सौष्ठवोपेतमदीनवादिनः कपेर्निशम्याप्रतिमो ऽप्रियं वचः ।दशाननः कोपविवृत्तलोचनः समादिशत् तस्य वधं महाकपेः ॥५-५१-४६॥
Navigation
- ← Previous: Sundara-Kāṇḍa Sarga 50
- Next: Sundara-Kāṇḍa Sarga 52 →
- Sundara-Kāṇḍa sarga-index
- Vālmīki Rāmāyaṇa master-index
- /rama · the non-dual singularity
Continue with Sundara-Kāṇḍa, the seven-Kāṇḍa reading index, or the Rāmcharitamānas companion reading. Source and rights documentation remains available in the editorial standards.
🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷