🪷 सुन्दरकाण्ड · Sarga 50

Sundara-Kāṇḍa · The Book of Beauty · Sarga 50 · 19 ślokas

🪷 Devanāgarī Ślokas

Vālmīki 5.50.1
तमुद्वीक्ष्य महाबाहुः पिङ्गाक्षं पुरतः स्थितम् ।कोपेन महता ऽ ऽविष्टो रावणो लोकरावणः ।। ५.५०.१।।।। ॥५-५०-१॥
Vālmīki 5.50.2
शङ्काहतात्मा दध्यौ स कपान्द्रं तेजसावृतम् ।किमेष भगवान्नन्दी भवेत् साक्षादिहागतः ।। ५.५०.२।।।। ॥५-५०-२॥
Vālmīki 5.50.3
येन शप्तो ऽस्मि कैलासे मया सञ्चालिते पुरा ।सो ऽयं वानरमूर्तिः स्यात् किंस्विद्बाणोपि वा ऽसुरः ।। ५.५०.३।।।। ॥५-५०-३॥
Vālmīki 5.50.4
स राजा रोषताम्राक्षः प्रहस्तं मन्त्रिसत्तमम् ।कालयुक्तमुवाजेदं वचो विपुलमर्थवत् ।। ५.५०.४।।।। ॥५-५०-४॥
Vālmīki 5.50.5
दुरात्मा पृच्छ्यतामेष कुतः किं वा ऽस्य कारणम् ।वनभङ्गे च को ऽस्यार्थो राक्षसीनां च तर्जने ।। ५.५०.५।।।। ॥५-५०-५॥
Vālmīki 5.50.6
मत्पुरीमप्रधृष्यां वा ऽ ऽगमने किं प्रयोजनम् ।आयोधने वा किं कार्यं त्वया कपे ।। ५.५०.६।।।। ॥५-५०-६॥
Vālmīki 5.50.7
रावणस्य वचः श्रुत्वा प्रहस्तो वाक्यमब्रवीत् ।समाश्वसिहि भद्रं ते न भीः कार्या त्वया कपे ।। ५.५०.७।।।। ॥५-५०-७॥
Vālmīki 5.50.8
यदि तावत्त्वमिन्द्रेण प्रेषितो रावणालयम् ।तत्त्वमाख्याहि मा भूत्ते भयं वानर मोक्ष्यसे ।। ५.५०.८।।।। ॥५-५०-८॥
Vālmīki 5.50.9
यदि वैश्रवणस्य त्वं यमस्य वरुणस्य च ।चाररूपमिदं कृत्वा प्रविष्टो नः पुरीमिमाम् ।विष्णुना प्रेषितो वापि दूतो विजयकाङ्क्षिणा ।। ५.५०.९।।।। ॥५-५०-९॥
Vālmīki 5.50.10
न हि ते वानरं तेजो रूपमात्रं तु वानरम् ।। ५.५०.१०।।।। ॥५-५०-१०॥
Vālmīki 5.50.11
तत्त्वतः कथयस्वाद्य ततो वानर मोक्ष्यसे ।अनृतं वदतश्चापि दुर्लभं तव जीवितम् ।अथवा यन्निमित्तं ते प्रवेशो रावणालये ।। ५.५०.११।।।। ॥५-५०-११॥
Vālmīki 5.50.12
एवमुक्तो हरिश्रेष्ठस्तदा रक्षोगणेश्वरम् ।। ५.५०.१२।।।। ॥५-५०-१२॥
Vālmīki 5.50.13
अब्रवीन्नास्मि शक्रस्य यमस्य वरुणस्य वा ।धनदेन न मे सख्यं विष्णुना नास्मि चोदितः ।। ५.५०.१३।।।। ॥५-५०-१३॥
Vālmīki 5.50.14
जातिरेव मम त्वेषा वानरो ऽहमिहागतः ।दर्शने राक्षसेन्द्रस्य दुर्लभे तदिदं मया ।। ५.५०.१४।।।। ॥५-५०-१४॥
Vālmīki 5.50.15
वनं राक्षसराजस्य दर्शनार्थे विनाशितम् ।ततस्ते राक्षसाः प्राप्ता बलिनो युद्धकाङ्क्षिणः ।। ५.५०.१५।।।। ॥५-५०-१५॥
Vālmīki 5.50.16
रक्षणार्थं तु देहस्य प्रतियुद्धा मया रणे ।अस्त्रपाशैर्न शक्यो ऽहं बद्धुं देवासुरैरपि ।। ५.५०.१६।।।। ॥५-५०-१६॥
Vālmīki 5.50.17
पितामहादेव वरो ममाप्येषो ऽभ्युपागतः ।राजानं द्रष्टुकामेन मयास्त्रमनुवर्तितम् ।। ५.५०.१७।।।। ॥५-५०-१७॥
Vālmīki 5.50.18
विमुक्तो ह्यहमस्त्रेण राक्षसैस्त्वभिपीडितः ।केनचिद्राजकार्येण संप्राप्तो ऽस्मि तवान्तिकम् ।। ५.५०.१८।।।। ॥५-५०-१८॥
Vālmīki 5.50.19
दूतो ऽहमिति विज्ञेयो राघवस्यामितौजसः ।श्रूयतां चापि वचनं मम पथ्यमिदं प्रभो ॥५-५०-१९॥

Navigation

Continue with Sundara-Kāṇḍa, the seven-Kāṇḍa reading index, or the Rāmcharitamānas companion reading. Source and rights documentation remains available in the editorial standards.

🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷