🪷 सुन्दरकाण्ड · Sarga 49
Sundara-Kāṇḍa · The Book of Beauty · Sarga 49 · 20 ślokas
🪷 Devanāgarī Ślokas
ततः स कर्मणा तस्य विस्मितो भीमविक्रमः ।हनुमान् रोषताम्राक्षो रक्षोधिपमवैक्षत ।। ५.४९.१।।।। ॥५-४९-१॥
भ्राजमानं महार्हेण काञ्चनेन विराजता ।मुक्ताजालावृतेनाथ मुकुटेन महाद्युतिम् ।। ५.४९.२।।।। ॥५-४९-२॥
वज्रसंयोगसंयुक्तैर्महार्हमणिविग्रहैः ।हैमैराभरणैश्चित्रैर्मनसेव प्रकल्पितैः ।। ५.४९.३।।।। ॥५-४९-३॥
महार्हक्षौमसंवीतं रक्तचन्दनरूषितम् ।स्वनुलिप्तं विचित्राभिर्विविधाभिश्च भक्तिभिः ।। ५.४९.४।।।। ॥५-४९-४॥
विवृतैर्दर्शनीयैश्च रक्ताक्षैर्भीमदर्शनैः ।दीप्ततीक्ष्णमहादंष्ट्रैः प्रलम्बदशनच्छदैः ।। ५.४९.५।।।। ॥५-४९-५॥
शिरोभिर्दशभिर्वीरं भ्राजमानं महौजसम् ।नानाव्यालसमाकीर्णैः शिखरैरिव मन्दरम् ।। ५.४९.६।।।। ॥५-४९-६॥
नीलाञ्जनचयप्रख्यं हारेणोरसि राजता ।पूर्णचन्द्राभवक्रेण सबलाकमिवाम्बुदम् ।। ५.४९.७।।।। ॥५-४९-७॥
बाहुभिर्बद्धकेयूरैश्चन्दनोत्तमरूषितैः ।भ्राजमानाङ्गदैः पीनैः पञ्चशीर्षौरिवोरगैः ।। ५.४९.८।।।। ॥५-४९-८॥
महति स्फाटिके चित्रे रत्नसंयोगसंस्कृते ।उत्तमास्तरणास्तीर्णे सूपविष्टं वरासने ।। ५.४९.९।।।। ॥५-४९-९॥
अलंकृताभिरत्यर्थं प्रमदाभिः समन्ततः ।वालव्यजनहस्ताभिरारात् समुपसेवितम् ।। ५.४९.१०।।।। ॥५-४९-१०॥
दुर्धरेण प्रहस्तेन महापार्श्वेन रक्षसा ।मन्त्रिभिर्मन्त्रतत्त्वज्ञैर्निकुम्भेन च मन्त्रिणा ।। ५.४९.११।।।। ॥५-४९-११॥
सुखोपविष्टं रक्षोभिश्चतुर्भिर्बलदर्पितैः ।कृत्स्न परिवृतं लोकं चतुर्भिरिव सागरैः ।। ५.४९.१२।।।। ॥५-४९-१२॥
सचिवैर्मन्त्रतत्त्वज्ञैरन्यैश्च शुभबुद्धिभिः ।अन्वास्यमानं रक्षोभिः सुरैरिव सुरेश्वरम् ।। ५.४९.१३।।।। ॥५-४९-१३॥
अपश्यद्राक्षसपतिं हनुमानतितेजसम् ।विष्ठितं मेरुशिखरे सतोयमिव तोयदम् ।। ५.४९.१४।।।। ॥५-४९-१४॥
स तैः संपीड्यमानो ऽपि रक्षोभिर्भीमविक्रमैः ।विस्मयं परमं गत्वा रक्षोधिपमवैक्षत ।। ५.४९.१५।।।। ॥५-४९-१५॥
भ्राजमानं ततो दृष्ट्वा हनुमान् राक्षसेश्वरम् ।मनसा चिन्तयामास तेजसा तस्य मोहितः ।। ५.४९.१६।।।। ॥५-४९-१६॥
अहो रूपमहो धैर्यमहो सत्त्वमहो द्युतिः ।अहो राक्षसराजस्य सर्वलक्षणयुक्तता ।। ५.४९.१७।।।। ॥५-४९-१७॥
यद्यधर्मो न बलवान् स्यादयं राक्षसेश्वरः ।स्यादय सुरलोकस्य सशक्रस्यापि रक्षिता ।। ५.४९.१८।।।। ॥५-४९-१८॥
अस्य क्रूरैर्नृशंसैश्च कर्मभिर्लोककुत्सितैः ।तेन बिभ्यति खल्वस्माल्लोकाः सामरदानवाः ।। ५.४९.१९।।।। ॥५-४९-१९॥
अयं ह्युत्सहते क्रुद्धः कर्तुमेकार्णवं जगत् ।इति चिन्तां बहुविधामकरोन्मतिमान् हरिः ।दृष्ट्वा राक्षसराजस्य प्रभावममितौजसः ॥५-४९-२०॥
Navigation
- ← Previous: Sundara-Kāṇḍa Sarga 48
- Next: Sundara-Kāṇḍa Sarga 50 →
- Sundara-Kāṇḍa sarga-index
- Vālmīki Rāmāyaṇa master-index
- /rama · the non-dual singularity
Continue with Sundara-Kāṇḍa, the seven-Kāṇḍa reading index, or the Rāmcharitamānas companion reading. Source and rights documentation remains available in the editorial standards.
🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷