🪷 सुन्दरकाण्ड · Sarga 48

Sundara-Kāṇḍa · The Book of Beauty · Sarga 48 · 62 ślokas

🪷 Devanāgarī Ślokas

Vālmīki 5.48.1
ततः स रक्षोधिपतिर्महात्मा हनूमता ऽक्षे निहते कुमारे ।मनः समाधाय तदेन्द्रकल्पं समादिदेशेन्द्रजितं सरोषम् ।। ५.४८.१।।।। ॥५-४८-१॥
Vālmīki 5.48.2
त्वमस्त्रविच्छस्त्रविदां वरिष्ठः सुरासुराणामपि शोकदाता ।सुरेषु सेन्द्रेषु च दृष्टकर्मा पितामहाराधनऽञ्चितास्त्रः ।। ५.४८.२।।।। ॥५-४८-२॥
Vālmīki 5.48.3
तवास्त्रबलमासाद्य नासुरा न मरुद्गणाः ।न शेकुः समरे स्थातुं सुरेश्वरसमाश्रिताः ।। ५.४८.३।।।। ॥५-४८-३॥
Vālmīki 5.48.4
न कश्चित् त्रिषु लोकेषु संयुगे नगतश्रमः ।भुजवीर्याभिगुप्तश्च तपसा चाभिरक्षितः ।देशकालविभागज्ञस्त्वमेव मतिसत्तमः ।। ५.४८.४।।।। ॥५-४८-४॥
Vālmīki 5.48.5
न ते ऽस्त्यशक्यं समरेषु कर्मणा न ते ऽस्त्यकार्यं मतिपूर्वमन्त्रणे ।न सो ऽस्ति कश्चित् त्रिषु संग्रहेषु वै न वेद यस्ते ऽस्त्रबलं बलं च ते ।। ५.४८.५।।।। ॥५-४८-५॥
Vālmīki 5.48.6
ममानुरूपं तपसो बलं च ते पराक्रमश्चास्त्रबलं च संयुगे ।न त्वां समासाद्य रणावमर्दे मनः श्रमं गच्छति निश्चितार्थम् ।। ५.४८.६।।।। ॥५-४८-६॥
Vālmīki 5.48.7
निहताः किङ्कराः सर्वे जम्बुमाली च राक्षसः ।अमात्यपुत्रा वीराश्च पञ्च सेनाग्रयायिनः ।। ५.४८.७।।।। ॥५-४८-७॥
Vālmīki 5.48.8
बलानि सुसमृद्धानि साश्वनागरथानि च ।सहोदरस्ते दयितः कुमारो ऽक्षश्च सूदितः ।। ५.४८.८।।।। ॥५-४८-८॥
Vālmīki 5.48.9
न हि तेष्वेव मे सारो यस्त्वय्यरिनिषूदन ।। ५.४८.९।।।। ॥५-४८-९॥
Vālmīki 5.48.10
इदं हि दृष्ट्वा मतिमन्महद्बलं कपेः प्रभावं च पराक्रमं च ।त्वमात्मनश्चापि समीक्ष्य सारं कुरुष्व वेगं स्वबलानुरूपम् ।। ५.४८.१०।।।। ॥५-४८-१०॥
Vālmīki 5.48.11
बलावमर्दस्त्वयि सन्निकृष्टे यथा गते शाम्यति शान्तशत्रौ ।तथा समीक्ष्यात्मबलं परं च समारभस्वास्त्रविदां वरिष्ठ ।। ५.४८.११।।।। ॥५-४८-११॥
Vālmīki 5.48.12
न वीर सेना गणशोच्यवन्ति न वज्रमादाय विशालसारम् ।न मारुतस्यास्य गतेः प्रमाणं न चाग्निकल्पः करणेन हन्तुम् ।। ५.४८.१२।।।। ॥५-४८-१२॥
Vālmīki 5.48.13
तमेवमर्थं प्रसमीक्ष्य सम्यक् स्वकर्मसाम्याद्धि समाहितात्मा ।स्मरंश्च दिव्यं धनुषो ऽस्त्रवीर्यं व्रजाक्षतं कर्म समारभस्व ।। ५.४८.१३।।।। ॥५-४८-१३॥
Vālmīki 5.48.14
न खल्वियं मतिः श्रेष्ठा यत्त्वां संप्रेषयाम्यहम् ।इयं च राजधर्माणां क्षत्रस्य च मतिर्मता ।। ५.४८.१४।।।। ॥५-४८-१४॥
Vālmīki 5.48.15
नानाशस्त्रैश्च संग्रामे वैशारद्यमरिन्दम् ।अवश्यमेव बोद्धव्यं काम्यश्च विजयो रणे ।। ५.४८.१५।।।। ॥५-४८-१५॥
Vālmīki 5.48.16
ततः पितुस्तद्वचनं निशम्य प्रदक्षिणं दक्षसुतप्रभावः ।चकार भर्तारमदीनसत्त्वो रणाय वीरः प्रतिपन्नबुद्धिः ।। ५.४८.१६।।।। ॥५-४८-१६॥
Vālmīki 5.48.17
ततस्तैः स्वगणैरिष्टैरिन्द्रजत् प्रतिपूजितः ।युद्धोद्धतः कृतोत्साहः सग्रामं प्रत्यद्यत ।। ५.४८.१७।।।। ॥५-४८-१७॥
Vālmīki 5.48.18
श्रीमान् पद्मपलाशाक्षो राक्षसाधिपतेः सुतः ।निर्जगाम महातेजाः समुद्र इव पर्वसु ।। ५.४८.१८।।।। ॥५-४८-१८॥
Vālmīki 5.48.19
स पक्षिराजोपमतुल्यवेगैर्व्यालैश्चतुर्भिः सिततीक्ष्णदंष्ट्रैः ।रथं समायुक्तमसङ्गवेगं समारुरोहेन्द्रजिदिन्द्रकल्पः ।। ५.४८.१९।।।। ॥५-४८-१९॥
Vālmīki 5.48.20
स रथी धन्विनीं श्रेष्ठः शस्त्रज्ञो ऽस्त्रविदां वरः ।रथेनाभिययौ क्षिप्रं हनूमान् यत्र सो ऽभवत् ।। ५.४८.२०।।।। ॥५-४८-२०॥
Vālmīki 5.48.21
स तस्य रथनिर्घोषं ज्यास्वनं कार्मुकस्य च ।निशम्य हरिवीरो ऽसौ संप्रहृष्टतरो ऽभवत् ।। ५.४८.२१।।।। ॥५-४८-२१॥
Vālmīki 5.48.22
सुमहच्चापमादाय शितशल्यांश्च सायकान् ।हनुमन्तमभिप्रेत्य जगाम रणपण्डितः ।। ५.४८.२२।।।। ॥५-४८-२२॥
Vālmīki 5.48.23
तस्मिंस्ततः संयति जातहर्षे रणाय निर्गच्छति बाणपाणौ ।दिशश्च सर्वाः बभूवर्मृगाश्च रौद्रा बहुधा विनेदुः ।। ५.४८.२३।।।। ॥५-४८-२३॥
Vālmīki 5.48.24
समागतास्तत्र तु नागयक्षा महर्षयश्चक्रचराश्च सिद्धाः ।नभः समावृत्य च पक्षिसङ्घा विनेदुरुच्चैः परमप्रहृष्टाः ।। ५.४८.२४।।।। ॥५-४८-२४॥
Vālmīki 5.48.25
आयान्तं सरथं दृष्ट्वा तूर्णमिन्द्रजितं कपिः ।विननाद महानादं व्यवर्धत च वेगवान् ।। ५.४८.२५।।।। ॥५-४८-२५॥
Vālmīki 5.48.26
इन्द्रजित्तु रथं दिव्यमास्थितश्चित्रकार्मुकः ।धनुर्विस्फारयामास तडिदूर्जितनिःस्वनम् ।। ५.४८.२६।।।। ॥५-४८-२६॥
Vālmīki 5.48.27
ततः समेतावति तीक्ष्णवेगौ महाबलौ तौ रणनिर्विशङ्कौ ।कपिश्च रक्षोधिपतेश्च पुत्रः सुरासुरेन्द्राविव बद्धवैरौ ।। ५.४८.२७।।।। ॥५-४८-२७॥
Vālmīki 5.48.28
स तस्य वीरस्य महारथस्य धनुष्मतः संयति संमतस्य ।शरप्रवेगं व्यहनत् प्रवृद्धश्चचार मार्गे पितुरप्रमेये ।। ५.४८.२८।।।। ॥५-४८-२८॥
Vālmīki 5.48.29
ततः शरानायतीक्ष्णशल्यान् सुपत्रिणः काञ्चनचित्रपुङ्खान् ।मुमोच वीरः परवीरहन्ता सुसन्नतान् वज्रनिपातवेगान् ।। ५.४८.२९।।।। ॥५-४८-२९॥
Vālmīki 5.48.30
ततस्तु तत्स्यन्दननिःस्वनं च मृदङ्गभेरीपटहस्वनं च ।विकृष्यमाणस्य च कार्मुकस्य निशम्य घोषं पुनरुत्पपात ।। ५.४८.३०।।।। ॥५-४८-३०॥
Vālmīki 5.48.31
शराणामन्तरेष्वाशु व्यवर्तत महाकपिः ।हरिस्तस्याभिलक्ष्यस्य मोघयँल्लक्ष्यसंग्रहम् ।। ५.४८.३१।।।। ॥५-४८-३१॥
Vālmīki 5.48.32
शराणआमग्रतस्तस्य पुनः समभिवर्तत ।प्रसार्य हस्तौ हनुमानुत्पपातानिलात्मजः ।। ५.४८.३२।।।। ॥५-४८-३२॥
Vālmīki 5.48.33
तावुभौ वेगसम्पन्नौ रणकर्मविशारदौ ।सर्वभूतमनोग्राहि चक्रतुर्युद्धमुत्तमम् ।। ५.४८.३३।।।। ॥५-४८-३३॥
Vālmīki 5.48.34
हनूमतो वेद न राक्षसो ऽन्तरं न मारुतिस्तस्य महात्मनो ऽन्तरम् ।परस्परं निर्विषहौ बभूवतुः समेत्य तौ देवसमानविक्रमौ ।। ५.४८.३४।।।। ॥५-४८-३४॥
Vālmīki 5.48.35
ततस्तु लक्ष्ये स विहन्यमाने शरेष्वमोघेषु च संपतत्सु ।जागम चिन्तां महतीं महात्मा समाधिसंयोगसमाहितात्मा ।। ५.४८.३५।।।। ॥५-४८-३५॥
Vālmīki 5.48.36
ततो मतिं राक्षसराजसूनुश्चकार तस्मिन् हरिवीरमुख्ये ।अवध्यतां तस्य कपेः समीक्ष्य कथं निगच्छेदिति निग्रहार्थम् ।। ५.४८.३६।।।। ॥५-४८-३६॥
Vālmīki 5.48.37
ततः पैतामहं वीरः सो ऽस्त्रमस्त्रविदां वरः ।सन्दधे सुमहातेजास्तं हरिप्रवरं प्रति ।। ५.४८.३७।।।। ॥५-४८-३७॥
Vālmīki 5.48.38
अवध्यो ऽयमिति ज्ञात्वा तमस्त्रेणास्त्रतत्त्ववित् ।निजग्राह महाबाहुर्मारुतात्मजमिन्द्रजित् ।। ५.४८.३८।।।। ॥५-४८-३८॥
Vālmīki 5.48.39
तेन बद्धस्ततो ऽस्त्रेण राक्षसेन स वानरः ।अभवन्निर्विचेष्टश्च पपात च महीतले ।। ५.४८.३९।।।। ॥५-४८-३९॥
Vālmīki 5.48.40
ततो ऽथ बुद्ध्वा स तदस्त्रबन्धं प्रभोः प्रभावाद् विगतात्मवेगः ।पितामहानुग्रहमात्मनश्च विचिन्तयामास हरिप्रवीरः ।। ५.४८.४०।।।। ॥५-४८-४०॥
Vālmīki 5.48.41
ततः स्वायम्भुवैर्मन्त्रैर्ब्रह्मास्त्रमभिमन्त्रितम् ।हनूमांश्चिन्तयामास वरदानं पितामहात् ।। ५.४८.४१।।।। ॥५-४८-४१॥
Vālmīki 5.48.42
न मे ऽस्य बन्धस्य च शक्तिरस्ति विमोक्षणे लोकगुरोः प्रभावात् ।इत्येव मत्वा विहितो ऽस्त्रबन्धो मया ऽ ऽत्मयोनेरनुवर्तितव्यः ।। ५.४८.४२।।।। ॥५-४८-४२॥
Vālmīki 5.48.43
स वीर्यमस्त्रस्य कपिर्विचार्य पितामहानुग्रहमात्मनश्च ।विमोक्षशक्तिं परिचिन्तयित्वा पितामहाज्ञामनुवर्तते स्म ।। ५.४८.४३।।।। ॥५-४८-४३॥
Vālmīki 5.48.44
अस्त्रेणापि हि बद्धस्य भयं मम न जायते ।पितामहमहेन्द्राभ्यां रक्षितस्यानिलेन च ।। ५.४८.४४।।।। ॥५-४८-४४॥
Vālmīki 5.48.45
ग्रहणे चापि रक्षोभिर्महान् मे गुणदर्शनः ।राक्षसेन्द्रेण संवादस्तस्मादगृह्णन्तु मां परे ।। ५.४८.४५।।।। ॥५-४८-४५॥
Vālmīki 5.48.46
स निश्चितार्थः परिवीरहन्ता समीक्ष्यकारी विनिवृत्तचेष्टः ।परैः प्रसह्याभिगतैर्निगृह्य ननाद तैस्तैः परिभर्त्स्यमानः ।। ५.४८.४६।।।। ॥५-४८-४६॥
Vālmīki 5.48.47
ततस्तं राक्षसा दृष्ट्वा निर्विचेष्टमरिन्दमम् ।बबन्धुः शणवल्कैश्च द्रुमचीरैश्च संहतैः ।। ५.४८.४७।।।। ॥५-४८-४७॥
Vālmīki 5.48.48
स रोचयामास परैश्च बन्धं प्रसह्य वीरैरभिनिग्रहं च ।कौतूहलान्मां यदि राक्षसेन्द्रो द्रष्ठुं व्यवस्येदिति निश्चितार्थः ।। ५.४८.४८।।।। ॥५-४८-४८॥
Vālmīki 5.48.49
स बद्धस्तेन वल्केन विमुक्तो ऽस्त्रेण वीर्यवान् ।अस्त्रबन्धः स चान्यं हि न बन्धमनुवर्तते ।। ५.४८.४९।।।। ॥५-४८-४९॥
Vālmīki 5.48.50
अथेन्द्रजित्तुद्रुमचीरबद्धं विचार्य वीरः कपिसत्तमं तम् ।विमुक्तमस्त्रेण जगाम चिन्तां नान्येन बद्धो ह्यनुवर्तते ऽस्त्रम् ।। ५.४८.५०।।।। ॥५-४८-५०॥
Vālmīki 5.48.51
अहो महत् कर्म कृतं निरर्थकं न राक्षसैर्मन्त्रगतिर्विमृष्टा ।पुनश्च नास्त्रे विहते ऽस्त्रमन्यत् प्रवर्तते संशयिताः स्म सर्वे ।। ५.४८.५१।।।। ॥५-४८-५१॥
Vālmīki 5.48.52
अस्त्रेण हनुमान् मुक्तो नात्मानमवबुध्यत ।कृष्यमाणस्तु रक्षोभिस्तैश्च बन्धेर्निपीडितः ।। ५.४८.५२।।।। ॥५-४८-५२॥
Vālmīki 5.48.53
हन्यमानस्ततः क्रूरै राक्षसैः काष्ठमुष्टिभिः ।समीपं राक्षसेन्द्रस्य प्रकृष्यत स वानरः ।। ५.४८.५३।।।। ॥५-४८-५३॥
Vālmīki 5.48.54
अथेन्द्रजित्तं प्रसमीक्ष्य मुक्तमस्त्रेण बद्धं द्रुमचीरसूत्रैः ।व्यदर्शयत्तत्र महाबलं हरिप्रवीरं सगणाय राज्ञे ।। ५.४८.५४।।।। ॥५-४८-५४॥
Vālmīki 5.48.55
तं मत्तमिव मातङ्गं बद्धं कपिवरोत्तमम् ।राक्षसा राक्षसेन्द्राय रावणाय न्यवेदयन् ।। ५.४८.५५।।।। ॥५-४८-५५॥
Vālmīki 5.48.56
को ऽयं कस्य कुतो वा ऽत्र किं कार्यं को व्यपाश्रयः ।इति राक्षसवीराणां तत्र संजज्ञिरे कथाः ।। ५.४८.५६।।।। ॥५-४८-५६॥
Vālmīki 5.48.57
हन्यतां दह्यतां वापि भक्ष्यतामिति चापरे ।राक्षसास्तत्र संक्रुद्धाः परस्परमथाब्रुवन् ।। ५.४८.५७।।।। ॥५-४८-५७॥
Vālmīki 5.48.58
अतीत्य मार्गं सहसा महात्मा स तत्र रक्षोधिपपादमूले ।ददर्श राज्ञः परिचारवृद्धान् गृहं महारत्नविभूषितं च ।। ५.४८.५८।।।। ॥५-४८-५८॥
Vālmīki 5.48.59
स ददर्श महातेजा रावणः कपिसत्तमम् ।रक्षोभिर्विकृताकारैः कृष्यमाणमितस्ततः ।। ५.४८.५९।।।। ॥५-४८-५९॥
Vālmīki 5.48.60
राक्षसाधिपतिं चापि ददर्श कपिसत्तमः ।तेजोबलसमायुक्तं तपन्तमिव भास्करम् ।। ५.४८.६०।।।। ॥५-४८-६०॥
Vālmīki 5.48.61
स रोषसंवर्तितताम्रदृष्टिर्दशाननस्तं कपिमन्ववेक्ष्य ।अथोपविष्टान् कुलशीलवृद्धान् समादिशत्तं प्रति मन्त्रिमुख्यान् ।। ५.४८.६१।।।। ॥५-४८-६१॥
Vālmīki 5.48.62
यथाक्रमं तैः स कपिर्विपृष्टः कार्यार्थमर्थस्य च मूलमादौ ।निवेदयामास हरीश्वरस्य दूतः सकाशादहमागतो ऽस्मि ॥५-४८-६२॥

Navigation

Continue with Sundara-Kāṇḍa, the seven-Kāṇḍa reading index, or the Rāmcharitamānas companion reading. Source and rights documentation remains available in the editorial standards.

🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷