🪷 सुन्दरकाण्ड · Sarga 54

Sundara-Kāṇḍa · The Book of Beauty · Sarga 54 · 51 ślokas

🪷 Devanāgarī Ślokas

Vālmīki 5.54.1
वीक्षमाणस्ततो लङ्कां कपिः कृतमनोरथः ।वर्धमानसमुत्साहः कार्यशेषमचिन्तयत् ।। 5.54.1 ।।।। ॥५-५४-१॥
Vālmīki 5.54.2
किं नु खल्ववशिष्टं मे कर्तव्यमिह साम्प्रतम् ।यदेषां रक्षसां भूयः सन्तापजननं भवेत् ।। 5.54.2 ।।।। ॥५-५४-२॥
Vālmīki 5.54.3
वनं तावत् प्रमथितं प्रकृष्टा राक्षसा हताः ।बलैकदेशः क्षपितः शेषं दुर्गविनाशनम् ।। 5.54.3 ।।।। ॥५-५४-३॥
Vālmīki 5.54.4
दुर्गे विनाशिते कर्म भवेत् सुखपरिश्रमम् ।अल्पयत्नेन कार्ये ऽस्मिन् मम स्यात् सफलः श्रमः ।। 5.54.4 ।।।। ॥५-५४-४॥
Vālmīki 5.54.5
यो ह्ययं मम लांगूले दीप्यते हव्यवाहनः ।अस्य सन्तर्पणं न्याय्यं कर्तुमेभिर्गृहोत्तमैः ।। 5.54.5 ।।।। ॥५-५४-५॥
Vālmīki 5.54.6
ततः प्रदीप्तलाङ्गूलः सविद्युदिव तोयदः ।भवनाग्रेषु लङ्काया विचचार महाकपिः ।। 5.54.6 ।।।। ॥५-५४-६॥
Vālmīki 5.54.7
गृहाद् गृहं राक्षसानामुद्यानानि च वानरः ।वीक्षमाणो ह्यसन्त्रस्तः प्रासादांश्च चचार सः ।। 5.54.7 ।।।। ॥५-५४-७॥
Vālmīki 5.54.8
अवप्लुत्य महावेगः प्रहस्तस्य निवेशनम् ।अग्निं तत्र स निक्षिप्य श्वसनेन समो बली ।। 5.54.8 ।।।। ॥५-५४-८॥
Vālmīki 5.54.9
ततो ऽन्यत् पुप्लुवे वेश्म महापार्श्वस्य वीर्यवान् ।मुमोच हनुमानग्निं कालानलशिखोपमम् ।। 5.54.9 ।।।। ॥५-५४-९॥
Vālmīki 5.54.10
वज्रदंष्ट्रस्य च तथा पुप्लुवे स महाकपिः ।शुकस्य च महातेजाः सारणस्य च धीमतः ।तथा चेन्द्रजितो वेश्म ददाह हरियूथपः ।। 5.54.10 ।।।। ॥५-५४-१०॥
Vālmīki 5.54.11
जम्बुमालेः सुमालेश्च ददाह भवनं ततः ॥५-५४-११॥
Vālmīki 5.54.12
।।्य च महातेजाः सारणस्य च धीमतः ।रश्मिमकेतोश्च भवनं सूर्यशत्रोस्तथैव च ।ह्रस्वकर्णस्य दंष्ट्रस्य रोमशस्य च रक्षसः ।। 5.54.12 ।।।। ॥५-५४-१२॥
Vālmīki 5.54.13
युद्धोन्मत्तस्य मत्तस्य ध्वजग्रीवस्य रक्षसः ।विद्युज्जिह्वस्य घोरस्य तथा हस्तिमुखस्य च ।। 5.54.13 ।।।। ॥५-५४-१३॥
Vālmīki 5.54.14
करालस्य पिशाचस्य शोणिताक्षस्य चैव हि ।कुम्भकर्णस्य भवनं मकराक्षस्य चैव हि ।। 5.54.14 ।।।। ॥५-५४-१४॥
Vālmīki 5.54.15
यज्ञशत्रोश्च भवनं ब्रह्मशत्रोस्तथैव च ।नरान्तकस्य कुम्भस्य निकुम्भस्य दुरात्मनः ।। 5.54.15 ।।।। ॥५-५४-१५॥
Vālmīki 5.54.16
वर्जयित्वा महातेजा विभीषणगृहं प्रति ।क्रममाणः क्रमेणैव ददाह हरिपुङ्गवः ।। 5.54.16 ।।।। ॥५-५४-१६॥
Vālmīki 5.54.17
तेषु तेषु महार्हेषु भवनेषु महायशाः ।गृहेष्वृद्धिमतामृद्धिं ददाह स महाकपिः ।। 5.54.17 ।।।। ॥५-५४-१७॥
Vālmīki 5.54.18
सर्वेषां समतिक्रम्य राक्षसेन्द्रस्य वीर्यवान् ।आससादाथ लक्ष्मीवान् रावणस्य निवेशनम् ।। 5.54.18 ।।।। ॥५-५४-१८॥
Vālmīki 5.54.19
ततस्तस्मिन् गृहे मुख्ये नानारत्नविभूषिते ।मेरुमन्दरसङ्काशे सर्वमङ्गलशोभिते ।। 5.54.19 ।।।। ॥५-५४-१९॥
Vālmīki 5.54.20
प्रदीप्तमग्निमुत्सृज्य लाङ्गूलाग्रे प्रतिष्ठितम् ।ननाद हनुमान् वीरो युगान्तजलदो यथा ।। 5.54.20 ।।।। ॥५-५४-२०॥
Vālmīki 5.54.21
श्वसनेन च संयोगादतिवेगो महाबलः ।कालाग्निरिव जज्वाल प्रावर्धत हुताशनः ।। 5.54.21 ।।।। ॥५-५४-२१॥
Vālmīki 5.54.22
प्रदीप्तमग्निं पवनस्तेषु वेश्मस्वचारयत् ।अभूच्छ्वसनसंयोगादतिवेगो हुताशनः ।। 5.54.22 ।।।। ॥५-५४-२२॥
Vālmīki 5.54.23
तानि काञ्चनजालानि मुक्तामणिमयानि च ।भवनान्यवशीर्यन्त रत्नवन्ति महान्ति च ।। 5.54.23 ।।।। ॥५-५४-२३॥
Vālmīki 5.54.24
तानि भग्नविमानानि निपेतुर्वसुधातले ।भवनानीव सिद्धानामम्बरात् पुण्यसंक्षये ।। 5.54.24 ।।।। ॥५-५४-२४॥
Vālmīki 5.54.25
संजज्ञे तुमुलः शब्दो राक्षसानां प्रधावताम् ।स्वगृहस्य परित्राणे भग्नोत्साहगतश्रियाम् ।नूनमेषो ऽग्निरायातः कपिरूपेण हा इति ।। 5.54.25 ।।।। ॥५-५४-२५॥
Vālmīki 5.54.26
क्रन्दन्त्यः सहसा पेतुः स्तनन्दयधराः स्त्रियः ।काश्चिदग्निपरीतेभ्यो हर्म्येभ्यो मुक्तमूर्धजाः ।। 5.54.26 ।।।। ॥५-५४-२६॥
Vālmīki 5.54.27
पतन्त्यो रेजिरे ऽभ्रेभ्यः सौदामिन्य इवाम्बरात् ।। 5.54.27 ।।।। ॥५-५४-२७॥
Vālmīki 5.54.28
वज्रविद्रुमवैदूर्यमुकारजतसंहितान् ।विचित्रान् भवनान् धातून् स्यान्दमानान् ददर्श सः ।। 5.54.28 ।।।। ॥५-५४-२८॥
Vālmīki 5.54.29
नाग्निस्तृप्यति काष्ठानां तृणानां हरियूथपः ।नाग्नेर्नापि विशस्तानां राक्षसानां वसुन्धरा ।। 5.54.29 ।।।। ॥५-५४-२९॥
Vālmīki 5.54.30
क्वचित् किंशुकसङ्काशाः क्वचिच्छाल्मलिसन्निभाः ।क्वचित् कुङ्कुमसङ्काशाः शिखा वह्नेश्चकाशिरे ।। 5.54.30 ।।।। ॥५-५४-३०॥
Vālmīki 5.54.31
हनूमता वेगवता वानरेण महात्मना ।लङ्कापुरं प्रदग्धं तद्रुद्रेण त्रिपुरं यथा ।। 5.54.31 ।।।। ॥५-५४-३१॥
Vālmīki 5.54.32
ततस्तु लङ्कापुरपर्वताग्रे समुत्थितो भीमपराक्रमो ऽग्निः ।प्रमार्य चूडावलयं प्रदीप्तो हनूमता वेगवता विसृष्टः ।। 5.54.32 ।।।। ॥५-५४-३२॥
Vālmīki 5.54.33
युगान्तकालानलतुल्यवेगः समारुतो ऽग्निर्ववृधे दिविस्पृक् ।विधूमरश्मिर्भवनेषु सक्तो रक्षश्शरीराज्य समर्पितार्चिः ।। 5.54.33 ।।।। ॥५-५४-३३॥
Vālmīki 5.54.34
आदित्यकोटीसदृशः सुतेजा लङ्कां समाप्तां परिवार्य तिष्ठन् ।शब्दैरनेकैरशनिप्ररूढैर्भिन्दन्निवाण्डं प्रबभौ महाग्निः ।। 5.54.34 ।।।। ॥५-५४-३४॥
Vālmīki 5.54.35
तत्राम्बरादग्निरतिप्रवृद्धो रूक्षप्रभः किंशुकपुष्पचूडः ।निर्वाणधूमाकुलराजयश्च नीलोत्पलाभाः प्रचकाशिरे ऽभ्राः ।। 5.54.35 ।।।। ॥५-५४-३५॥
Vālmīki 5.54.36
वज्री महेन्द्रस्त्रिदशेश्वरो वा साक्षाद्यमो वा वरुणो ऽनिलो वा ।रुद्रो ऽग्निरर्को धनदश्च सोमो न वानरो ऽयं स्वयमेव कालः ।। 5.54.36 ।।।। ॥५-५४-३६॥
Vālmīki 5.54.37
किं ब्रह्मणः सर्वपितामहस्य सर्वस्य धातुश्चतुराननस्य ।इहागतोवाग्रूपधारीरक्षोपसंहारकरः प्रकोपः ॥५-५४-३७॥
Vālmīki 5.54.38
।किं वैष्णवं वा कपिरूपमेत्य रक्षोविनाशाय परं सुतेजः ।अनन्तमव्यक्तमचिन्त्यमेकं स्वमायया साम्प्रतमागतं वा ।। 5.54.38 ।।।। ॥५-५४-३८॥
Vālmīki 5.54.39
इत्येवमूचुर्बहवो विशिष्टा रक्षोगणास्तत्र समेत्य सर्वे ।सप्राणिसङ्घां सगृहां सवृक्षां दग्धां पुरीं तां सहसा समीक्ष्य ।। 5.54.39 ।।।। ॥५-५४-३९॥
Vālmīki 5.54.40
ततस्तु लङ्का सहसा प्रदग्धा सराक्षसा साश्वरथा सनागा ।सपक्षिसङ्घा समृगा सवृक्षा रुरोद दीना तुमुलं सशब्दम् ।। 5.54.40 ।।।। ॥५-५४-४०॥
Vālmīki 5.54.41
हा तात हा पुत्रक कान्त मित्र हा जीवितं भोगयुतं सुपुण्यम् ।रक्षोभिरेवं बहुधा ब्रुवद्भिः शब्दः कृतो घोरतरः सुभीमः ।। 5.54.41 ।।।। ॥५-५४-४१॥
Vālmīki 5.54.42
हुताशनज्वालसमावृता सा हतप्रवीरा परिवृत्तयोधा ।हनूमतः क्रोधबलाभिभूता बभूव शापोपहतेव लङ्का ।। 5.54.42 ।।।। ॥५-५४-४२॥
Vālmīki 5.54.43
स सम्भ्रमत्रस्तविषण्णराक्षसां समुज्ज्वलज्ज्वालहुताशनाङ्किताम् ।ददर्श लङ्कां हनुमान् महामनाः स्वयम्भुकोपोपहतामिवावनिम् ।। 5.54.43 ।।।। ॥५-५४-४३॥
Vālmīki 5.54.44
भङ्क्त्वा वनं पादपरत्नसङ्कुलं हत्वा तु रक्षांसि महान्ति संयुगे ।दग्ध्वा पुरीं तां गृहरत्नमालिनीं तस्थौ हनूमान् पवनात्मजः कपिः ।। 5.54.44 ।।।। ॥५-५४-४४॥
Vālmīki 5.54.45
त्रिकूटशृङ्गाग्रतले विचित्रे प्रतिष्ठितो वानरराजसिंहः ।प्रदीप्तलाङ्गूलकृतार्चिमाली व्यराजतादित्य इवांशुमाली ।। 5.54.45 ।।।। ॥५-५४-४५॥
Vālmīki 5.54.46
स राक्षसांस्तान् सुबहूंश्च हत्वा वनं च भङ्क्त्वा बहुपादपं तत् ।विसृज्य रक्षोभवनेषु चाग्निं जगाम रामं मनसा महात्मा ।। 5.54.46 ।।।। ॥५-५४-४६॥
Vālmīki 5.54.47
ततस्तु तं वानरवीरमुख्यं महाबलं मारुततुल्यवेगम् ।महामतिं वायुसुतं वरिष्ठं प्रतुष्टुवुर्देवगणाश्च सर्वे ।। 5.54.47 ।।।। ॥५-५४-४७॥
Vālmīki 5.54.48
भङ्क्त्वा वनं महातेजा हत्वा रक्षांसि संयुगे ।दग्ध्वा लङ्कापुरीं रम्यां रराज स महाकपिः ।। 5.54.48 ।।।। ॥५-५४-४८॥
Vālmīki 5.54.49
तत्र देवाः सगन्धर्वाः सिद्धाश्च परमर्षयः ।दृष्ट्वा प्रदग्धां तां विस्मयं परमं गताः ।। 5.54.49 ।।।। ॥५-५४-४९॥
Vālmīki 5.54.50
तं दृष्ट्वा वानरश्रेष्ठं हनुमन्तं महाकपिम् ।कालाग्निरिति सञ्चिन्त्य सर्वभूतानि तत्रसुः ।। 5.54.50 ।।।। ॥५-५४-५०॥
Vālmīki 5.54.51
देवाश्च सर्वे मुनिपुङ्गवाश्च गन्धर्वविद्याधरनागयक्षाः ।भूतानि सर्वाणि महान्ति तत्र जग्मुः परां प्रीतिमतुल्यरूपाम् ॥५-५४-५१॥

Navigation

Continue with Sundara-Kāṇḍa, the seven-Kāṇḍa reading index, or the Rāmcharitamānas companion reading. Source and rights documentation remains available in the editorial standards.

🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷