🪷 किष्किन्धाकाण्ड · Sarga 40
Kiṣkindhā-Kāṇḍa · The Book of Kiṣkindhā · Sarga 40 · 71 ślokas
Vālmīki Detail Source-Anchor Spine
This sarga page exposes the exact local source route, parent Kāṇḍa, Rāma janma proof anchors where applicable, and the wider Vālmīki/Rāma source spine.
Vālmīki 4.40local sarga route with all Sanskrit ślokasKiṣkindhā-Kāṇḍaparent Kāṇḍa sarga index/valmiki-ramayanamaster index for the 7 Kāṇḍas and 22,742 ślokasBāla 1.18Rāma-janma sarga and primary birth-spec anchorVālmīki 1.18.8first Rāma-janma astronomical śloka routeVālmīki 1.18.15closing verse of the janma-spec rangeVālmīki 2.26.9Bṛhaspati-Puṣya coronation-eve witness routeVālmīki 6.93.65war-window Krishna-pakṣa timing witnessVālmīki 6.103Rāvaṇa-vadha anchor doorway for the year+41 witness/ramaRāma-Krishna non-dual singularity and three-anchor proof surface/chart/ramapublished Rāma janma-kuṇḍalī output for the 1,626,102 BCE claimRāma janma dayreader-visible pañchāṅga/day output for the birth anchor/computational-moatSūrya-Siddhānta deep-time verification boundary/festival/rama-navamiCaitra Śukla Navamī festival mūrti-page/ramcharitamanasTulsidās bhakti voice of the same Rāma-līlāRāmopākhyānaVyāsa's Rāma-kathā inside the Mahābhārata/binduDiamond of Darśanas · Rāma/Krishna as one Bindu aperture/philosophyConstitutional Principles and Rāma-Krishna recognition
🪷 The Ślokas · canonical Devanāgarī Sanskrit yathārtha
अथ राजा समृद्ध अर्थः सुग्रीवः प्लवगेश्वरः ।उवाच नरशार्दूलम् रामम् परबलार्दनम् ॥४-४०-१॥
आगता विनिविष्टाः च बलिनः कामरूपिणः ।वानरेन्द्रा महेन्द्र आभा ये मत् विषय वासिनः ॥४-४०-२॥
त इमे बहु विक्रान्तैः बलिभिः भीम विक्रमैः ।आगता वानरा घोरा दैत्य दानव संनिभाः ॥४-४०-३॥
ख्यात कर्म अपदानाः च बलवन्तो जित क्लमाः ।पराक्रमेषु विख्याता व्यवसायेषु च उत्तमाः ॥४-४०-४॥
पृथिवि अंबु चरा राम नाना नग निवासिनः ।कोटि ओघाः च इमे प्राप्ता वानराः तव किंकराः ॥४-४०-५॥
निदेश वर्तिनः सर्वे सर्वे गुरु हिते स्थिताः ।अभिप्रेतम् अनुष्ठातुम् तव शक्ष्यन्ति अरिंदम ॥४-४०-६॥
त इमे बहु साहस्रैः अनेकैः बहु विक्रमैः ।आगता वानरा घोरा दैत्य दानव संनिभाः ॥४-४०-७॥
यत् मन्यसे नरव्याघ्र प्राप्त कालम् तत् उच्यताम् ।तत् सैन्यम् त्वत् वशे युक्तम् आज्ञापयितुम् अर्हसि ॥४-४०-८॥
कामम् एषाम् इदम् कार्यम् विदितम् मम तत्त्वतः ।तथा अपि तु यथा युक्तम् आज्ञापयितुम् अर्हसि ॥४-४०-९॥
तथा ब्रुवाणम् सुग्रीवम् रामो दशरथात्मजः ।बाहुभ्याम् संपरिष्वज्य इदम् वचनम् अब्रवीत् ॥४-४०-१०॥
ज्ञायताम् सौम्य वैदेही यदि जीवति वा न वा ।स च देशो महाप्राज्ञ यस्मिन् वसति रावणः ॥४-४०-११॥
अधिगम्य तु वैदेहीम् निलयम् रावणस्य च ।प्राप्त कालम् विधास्यामि तस्मिन् काले सह त्वया ॥४-४०-१२॥
न अहम् अस्मिन् प्रभुः कार्ये वानरेन्द्र न लक्ष्मणः ।त्वम् अस्य हेतुः कार्यस्य प्रभुः च प्लवगेश्वर ॥४-४०-१३॥
त्वम् एव आज्ञापय विभो मम कार्य विनिश्चयम् ।त्वम् हि जानासि यत् कार्यम् मम वीर न संशयः ॥४-४०-१४॥
सुहृद् द्वितीयो विक्रान्तः प्राज्ञः काल विशेष वित् ।भवान् अस्मत् हिते युक्तः सुहृद् आप्तो अर्थवित्तमः ॥४-४०-१५॥
एवम् उक्तः तु सुग्रीवो विनतम् नाम यूथपम् ।अब्रवीत् राम सांनिध्ये लक्ष्मणस्य च धीमतः ॥४-४०-१६॥
शैलाभम् मेघ निर्घोषम् ऊर्जितम् प्लवगेश्वरम् ।सोम सूर्य निभैः सार्धम् वानरैः वानरोत्तम ॥४-४०-१७॥
देश काल नयैः युक्तः विज्ञः कार्य विनिश्चये ।वृतः शत सहस्रेण वानराणाम् तरस्विनाम् ॥४-४०-१८॥
अधिगच्छ दिशम् पूर्वाम् स शैल वन काननाम् ।तत्र सीताम् च वैदेहीम् निलयम् रावणस्य च ॥४-४०-१९॥
मार्गध्वम् गिरि दुर्गेषु वनेषु च नदीषु च ।नदीम् भागीरथीम् रम्याम् सरयूम् कौशिकीम् तथा ॥४-४०-२०॥
कालिंदीम् यमुनाम् रम्याम् यामुनम् च महागिरिम् ।सरस्वतीम् च सिंधुम् च शोणम् मणि निभ उदकम् ॥४-४०-२१॥
महीम् कालमहीम् चैव शैल कानन शोभिताम् ।ब्रह्ममालान् विदेहान् च मालवान् काशि कोसलान् ॥४-४०-२२॥
मागधाम् च महाग्रामान् पुण्ड्रान् अंगाम् तथैव च ।भूमिम् च कोशकाराणाम् भूमिम् च रजत आकराम् ॥४-४०-२३॥
सर्वम् च तत् विचेतव्यम् मार्गयद्भिः ततः ततः ।रामस्य दयिताम् भार्याम् सीताम् दशरथः स्नुषाम् ॥४-४०-२४॥
समुद्रम् अवगाढान् च पर्वतान् पत्तनानि च ।मंदरस्य च ये कोटिम् संश्रिताः केचित् आलयाः ॥४-४०-२५॥
कर्ण प्रावरणाः चैव तथा च अपि ओष्ठ कर्णकाः ।घोर लोह मुखाः चैव जवनाः च एक पादकाः ॥४-४०-२६॥
अक्षया बलवंतः च तथैव पुरुष आदकाः ।किराताः तीक्ष्ण चूडाः च हेमाभाः प्रिय दर्शनाः ॥४-४०-२७॥
आम मीन अशनाः चापि किराता द्वीप वासिनः ।अंतर् जल चरा घोरा नरव्याघ्रा इति स्मृताः ॥४-४०-२८॥
एतेषाम् आश्रयाः सर्वे विचेयाः कानन ओकसः ।गिरिभिर् ये च गम्यन्ते प्लवनेन प्लवेन च ॥४-४०-२९॥
यत्नवन्तो यव द्वीपम् सप्त राज्य उपशोभितम् ।सुवर्ण रूप्यकम् द्वीपम् सुवर्ण आकर मण्डितम् ॥४-४०-३०॥
यव द्वीपम् अतिक्रम्य शिशिरो नाम पर्वतः ।दिवम् स्पृशति शृन्गेण देव दानव सेवितः ॥४-४०-३१॥
एतेषाम् गिरि दुर्गेषु प्रपातेषु वनेषु च ।मार्गध्वम् सहिताः सर्वे राम पत्नीम् यशस्विनीम् ॥४-४०-३२॥
ततो रक्त जलम् प्राप्य शोण आख्यम् शीघ्र वाहिनीम् ।गत्वा पारम् समुद्रस्य सिद्ध चारण सेवितम् ॥४-४०-३३॥
तस्य तीर्थेषु रम्येषु विचित्रेषु वनेषु च ।रावणः सह वैदेह्या मार्गितव्यः ततः ततः ॥४-४०-३४॥
पर्वत प्रभवा नद्यः सुभीम बहु निष्कुटाः ।मार्गितव्या दरीमन्तः पर्वताः च वनानि च ॥४-४०-३५॥
ततः समुद्र द्वीपान् च सुभीमान् द्रष्टुम् अर्हथ ।ऊर्मिमंतम् महारौद्रम् क्रोशंतम् अनिल उद्धितम् ॥४-४०-३६॥
तत्र असुरा महाकायाः छायाम् गृह्णन्ति नित्यशः ।ब्रह्मणा समनुज्ञाता दीर्घ कालम् बुभुक्षिताः ॥४-४०-३७॥
तम् काल मेघ प्रतिमम् महोरग निषेवितम् ।अभिगम्य महानादम् तीर्थेन एव महोदधिम् ॥४-४०-३८॥
ततो रक्तजलम् भीमम् लोहितम् नाम सागरम् ।गत्वा प्रेक्ष्यथ ताम् चैव बृहतीम् कूटशाल्मलीम् ॥४-४०-३९॥
गृहम् च वैनतेयस्य नाना रत्न विभूषितम् ।तत्र कैलास संकाशम् विहितम् विश्वकर्मणा ॥४-४०-४०॥
तत्र शैल निभा भीमा मन्देहा नाम राक्षसाः ।शैल शृंगेषु लंबन्ते नाना रूपा भयावहाः ॥४-४०-४१॥
ते पतन्ति जले नित्यम् सूर्यस्य उदयनम् प्रति ।अभितप्ताः च सूर्येण लंबन्ते स्म पुनः पुनः ॥४-४०-४२॥
निहता ब्रह्म तेजोभिः अहनि अहनि राक्षसाः ।ततः पाण्डुर मेघाभम् क्षीरौदम् नाम सागरम् ॥४-४०-४३॥
गत्वा द्रक्ष्यथ दुर्धर्षा मुक्ता हारम् इव ऊर्मिभिः ।तस्य मध्ये महा श्वेतो ऋषभो नाम पर्वतः ॥४-४०-४४॥
दिव्य गन्धैः कुसुमितै आचितैः च नगैः वृतः ।सरः च राजतैः पद्मैः ज्वलितैः हेम केसरैः ॥४-४०-४५॥
नाम्ना सुदर्शनम् नाम राजहंसैः समाकुलम् ।विबुधाः चारणा यक्षाः किन्नराः स अप्सरो गणाः ॥४-४०-४६॥
हृष्टाः समधिगच्छन्ति नलिनीम् ताम् रिरंसवः ।क्षीरोदम् समतिक्रम्य ततो द्रक्ष्यथ वानराः ॥४-४०-४७॥
जलोदम् सागरम् शीघ्रम् सर्व भूत भयावहम् ।तत्र तत् कोपजम् तेजः कृतम् हयमुखम् महत् ॥४-४०-४८॥
अस्य आहुः तन् महावेगम् ओदनम् स चराचरम् ।तत्र विक्रोशताम् नादो भूतानाम् सागर ओकसाम् ।श्रूयते च असमर्थानाम् दृष्ट्वा तत् वडवा मुखम् ॥४-४०-४९॥
स्वादु उदस्य उत्तरे देशे योजनानि त्रयोदश ।जातरूप शिलो नाम सुमहान् कनक प्रभः ॥४-४०-५०॥
तत्र चन्द्र प्रतीकाशम् पन्नगम् धरणी धरम् ।पद्म पत्र विशालाक्षम् ततो द्रक्ष्यध वानराः ॥४-४०-५१॥
आसीनम् पर्वतस्य अग्रे सर्व भूत नमस्कृतम् ।सहस्र शिरसम् देवम् अनंतम् नील वाससम् ॥४-४०-५२॥
त्रिशिराः कांचनः केतुः तालः तस्य महात्मनः ।स्थापितः पर्वतस्य अग्रे विराजति स वेदिकः ॥४-४०-५३॥
पूर्वस्याम् दिशि निर्माणम् कृतम् तत् त्रिदशेश्वरैः ।ततः परम् हेममयः श्रीमान् उदय पर्वतः ॥४-४०-५४॥
तस्य कोटिः दिवम् स्पृष्ट्वा शत योजनम् आयता ।जातरूपमयी दिव्या विराजति स वेदिका ॥४-४०-५५॥
सालैः तालैः तमालैः च कर्णिकारैः च पुष्पितैः ।जातरूपमयैः दिव्यैः शोभते सूर्य सन्निभैः ॥४-४०-५६॥
तत्र योजन विस्तारम् उच्छ्रितम् दश योजनम् ।शृंगम् सौमनसम् नाम जातरूपमयम् ध्रुवम् ॥४-४०-५७॥
तत्र पूर्वम् पदम् कृत्वा पुरा विष्णुः त्रिविक्रमे ।द्वितीयम् शिखरम् मेरोः चकार पुरुषोत्तमः ॥४-४०-५८॥
उत्तरेण परिक्रम्य जंबू द्वीपम् दिवाकरः ।दृश्यो भवति भूयिष्ठम् शिखरम् तन् महोच्छ्रयम् ॥४-४०-५९॥
तत्र वैखानसा नाम वालखिल्या महर्षयः ।प्रकाशमाना दृश्यन्ते सूर्य वर्णाः तपस्विनः ॥४-४०-६०॥
अयम् सुदर्शनो द्वीपः पुरो यस्य प्रकाशते ।तस्मिन् तेजः च चक्षुः च सर्व प्राणभृताम् अपि ॥४-४०-६१॥
शैलस्य तस्य पृष्ठेषु कंदरेषु वनेषु च ।रावणः सह वैदेह्या मार्गितव्यः ततः ततः ॥४-४०-६२॥
कांचनस्य च शैलस्य सूर्यस्य च महात्मनः ।आविष्टा तेजसा संध्या पूर्वा रक्ता प्रकाशते ॥४-४०-६३॥
पूर्वम् एतत् कृतम् द्वारम् पृथिव्या भुवनस्य च ।सूर्यस्य उदयनम् चैव पूर्वा हि एषा दिक् उच्यते ॥४-४०-६४॥
तस्य शलस्य पृष्ठेषु निर्झरेषु गुहासु च ।रावणः सह वैदेह्या मार्गतव्या ततः ततः ॥४-४०-६५॥
ततः परम् अगम्या स्यात् दिक् पूर्वा त्रिदश आवृता ।रहिता चन्द्र सूर्याभ्याम् अदृश्या तिमिर आवृता ॥४-४०-६६॥
शैलेषु तेषु सर्वेषु कंदरेषु वनेषु च ।ये च न उक्ता मयोद्देशा विचेया तेषु जानकी ॥४-४०-६७॥
एतावत् वानरैः शक्यम् गन्तुम् वानर पुंगवाः ।अभास्करम् अमर्यादम् न जानीमः ततः परम् ॥४-४०-६८॥
अभिगम्य तु वैदेहीम् निलयम् रावणस्य च ।मासे पूर्णे निवर्तध्वम् उदयम् प्राप्य पर्वतम् ॥४-४०-६९॥
ऊर्ध्वम् मासात् न वस्तव्यम् वसन् वध्यो भवेन् मम ।सिद्ध अर्थाः संनिवर्तध्वम् अधिगम्य च मैथिलीम् ॥४-४०-७०॥
महेन्द्र कांताम् वन षण्ड मण्डिताम्दिशम् चरित्वा निपुणेन वानराः ।अवाप्य सीताम् रघु वंशज प्रियाम्ततो निवृत्ताः सुखिनो भविष्यथ ॥४-४०-७१॥
Navigation
- ← Previous: Kiṣkindhā-Kāṇḍa Sarga 39
- Next: Kiṣkindhā-Kāṇḍa Sarga 41 →
- Kiṣkindhā-Kāṇḍa sarga-index
- Vālmīki Rāmāyaṇa master-index
- /rama · the non-dual singularity
🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷