🪷 किष्किन्धाकाण्ड · Sarga 41
Kiṣkindhā-Kāṇḍa · The Book of Kiṣkindhā · Sarga 41 · 49 ślokas
Vālmīki Detail Source-Anchor Spine
This sarga page exposes the exact local source route, parent Kāṇḍa, Rāma janma proof anchors where applicable, and the wider Vālmīki/Rāma source spine.
Vālmīki 4.41local sarga route with all Sanskrit ślokasKiṣkindhā-Kāṇḍaparent Kāṇḍa sarga index/valmiki-ramayanamaster index for the 7 Kāṇḍas and 22,742 ślokasBāla 1.18Rāma-janma sarga and primary birth-spec anchorVālmīki 1.18.8first Rāma-janma astronomical śloka routeVālmīki 1.18.15closing verse of the janma-spec rangeVālmīki 2.26.9Bṛhaspati-Puṣya coronation-eve witness routeVālmīki 6.93.65war-window Krishna-pakṣa timing witnessVālmīki 6.103Rāvaṇa-vadha anchor doorway for the year+41 witness/ramaRāma-Krishna non-dual singularity and three-anchor proof surface/chart/ramapublished Rāma janma-kuṇḍalī output for the 1,626,102 BCE claimRāma janma dayreader-visible pañchāṅga/day output for the birth anchor/computational-moatSūrya-Siddhānta deep-time verification boundary/festival/rama-navamiCaitra Śukla Navamī festival mūrti-page/ramcharitamanasTulsidās bhakti voice of the same Rāma-līlāRāmopākhyānaVyāsa's Rāma-kathā inside the Mahābhārata/binduDiamond of Darśanas · Rāma/Krishna as one Bindu aperture/philosophyConstitutional Principles and Rāma-Krishna recognition
🪷 The Ślokas · canonical Devanāgarī Sanskrit yathārtha
ततः प्रस्थाप्य सुग्रीवः तन् महत् वानरम् बलम् ।दक्षिणाम् प्रेषयामास वानरान् अभिलक्षितान् ॥४-४१-१॥
नीलम् अग्नि सुतम् चैव हनूमन्तम् च वानरम् ।पितामह सुतम् चैव जांबवंतम् महोजसम् ॥४-४१-२॥
सुहोत्रम् च शरारिम् च शरगुल्मम् तथा एव च ।गजम् गवाक्षम् गवयम् सुषेणम् वृषभम् तथा ॥४-४१-३॥
मैन्दम् च द्विविदम् चैव सुषेणम् गन्धमादनम् ।उल्कामुखम् अनंगम् च हुतशन सुतौ उभौ ॥४-४१-४॥
अंगद प्रमुखान् वीरान् वीरः कपि गण ईश्वरः ।वेग विक्रम संपन्नान् संदिदेश विशेषवित् ॥४-४१-५॥
तेषाम् अग्रेसरम् चैव बृहद् बलम् अथ अंगदम् ।विधाय हरि वीराणाम् आदिशद् दक्षिणाम् दिशम् ॥४-४१-६॥
ये केचन समुद्देशाः तस्याम् दिशि सुदुर्गमाः ।कपीइशः कपि मुख्यानाम् स तेषाम् समुदाहरत् ॥४-४१-७॥
सहस्र शिरसम् विंध्यम् नाना द्रुम लता आयुतम् ।नर्मदाम् च नदीम् रम्याम् महोरग निषेविताम् ॥४-४१-८॥
ततो गोदावरीम् रम्याम् कृष्णावेणीम् महानदीम् ।वरदाम् च महाभागाम् महोरग निषेविताम् ।मेखलान् उत्कलाम् चैव दशार्ण नगराणि अपि ॥४-४१-९॥
अब्रवंतीम् अवंतीम् च सर्वम् एव अनुपश्यत ।विदर्भान् ऋष्टिकान् चैव रम्यान् माहिषकान् अपि ॥४-४१-१०॥
तथा वन्गान् कलिन्गाम् च कौशिकान् च समंततः ।अन्वीक्ष्य दण्डक अरण्यम् स पर्वत नदी गुहम् ॥४-४१-११॥
नदीम् गोदावरीम् चैव सर्वम् एव अनुपश्यत ।तथैव आन्ध्रान् च पुण्ड्रान् च चोलान् पाण्ड्यान् केरलान् ॥४-४१-१२॥
अयोमुखः च गंतव्यः पर्वतो धातु मण्डितः ।विचित्र शिखरः श्रीमान् चित्र पुष्पित काननः ॥४-४१-१३॥
सुचंदन वनोद्देशो मार्गितव्यो महागिरिः ।ततः ताम् आपगाम् दिव्याम् प्रसन्न सलिलाशयान् ॥४-४१-१४॥
तत्र द्रक्ष्यथ कावेरीम् विहृताम् अप्सरो गणैः ।तस्य आसीनम् नगस्य अग्रे मलयस्य महोजसम् ॥४-४१-१५॥
द्रक्ष्यथ आदित्य संकाशम् अगस्त्यम् ऋषि सत्तमम् ।ततः तेन अभ्यनुज्ञाताः प्रसन्नेन महात्मना ॥४-४१-१६॥
ताम्रपर्णीम् ग्राह जुष्टाम् तरिष्यथ महानदीम् ।सा चन्दन वनैः चित्रैः प्रच्छन्ना द्वीप वारिणी ॥४-४१-१७॥
कान्ता इव युवती कान्तम् समुद्रम् अवगाहते ।ततो हेममयम् दिव्यम् मुक्ता मणि विभूषितम् ॥४-४१-१८॥
युक्तम् कवाटम् पाण्ड्यानाम् गता द्रक्ष्यथ वानराः ।ततः समुद्रम् आसाद्य संप्रधार्य अर्थ निश्चयम् ॥४-४१-१९॥
अगस्त्येन अन्तरे तत्र सागरे विनिवेशितः ।चित्र सानु नगः श्रीमान् महेन्द्रः पर्वतोत्तमः ॥४-४१-२०॥
जात रूपमयः श्रीमान् अवगाढो महार्णवम् ।नाना विधैः नगैः फुल्लैः लताभिः च उपशोभितम् ॥४-४१-२१॥
देव ऋषि यक्ष प्रवरैः अप्सरोभिः च सेवितम् ।सिद्ध चारण संघैः च प्रकीर्णम् सुमनोहरम् ॥४-४१-२२॥
तम् उपैति सहस्राक्षः सदा पर्वसु पर्वसु ।द्वीपः तस्य अपरे पारे शत योजन विसृतः ॥४-४१-२३॥
अगम्यो मानुषैः दीप्तः तम् मार्गध्वम् समंततः ।तत्र सर्व आत्मना सीता मार्गितव्या विशेषतः ॥४-४१-२४॥
स हि देशः तु वध्यस्य रावणस्य दुरात्मनः ।राक्षस अधिपतेः वासः सहस्राक्ष समद्युतेः ॥४-४१-२५॥
दक्षिणस्य समुद्रस्य मध्ये तस्य तु राक्षसी ।अंगारक इति विख्याता चायाम् आक्षिप्य भोजिनी ॥४-४१-२६॥
एवम् निःसंशयान् कृत्वा संशयान् नष्ट संशयाः ।मृगयध्वम् नरेन्द्रस्य पत्नीम् अमित ओजसः ॥४-४१-२७॥
तम् अतिक्रम्य लक्ष्मीवान् समुद्रे शत योजने ।गिरिः पुष्पितको नाम सिद्ध चारण सेवितः ॥४-४१-२८॥
चन्द्र सूर्य अंशु संकाशः सागर अंबु समाश्रयः ।भ्राजते विपुलैः शृन्गैः अम्बरम् विलिखन् इव ॥४-४१-२९॥
तस्य एकम् कांचनम् शृंगम् सेवते यम् दिवाकरः ।श्वेतम् राजतम् एकम् च सेवते यम् निशाकरः ।न तम् कृतघ्नाः पश्यन्ति न नृशंसा न नास्तिकाः ॥४-४१-३०॥
प्रणम्य शिरसा शैलम् तम् विमार्गथ वानराः ।तम् अतिक्रम्य दुर्धर्षम् सूर्यवान् नाम पर्वतः ॥४-४१-३१॥
अध्वना दुर्विगाहेन योजनानि चतुर्दश ।ततः तम् अपि अतिक्रम्य वैद्युतो नाम पर्वतः ॥४-४१-३२॥
सर्व काम फलैः वृक्षैः सर्व काल मनोहरैः ।तत्र भुक्त्वा वर अर्हाणि मूलानि च फलानि च ॥४-४१-३३॥
मधूनि पीत्वा जुष्टानि परम् गच्छत वानराः ।तत्र नेत्र मनः कांतः कुंजरो नाम पर्वतः ॥४-४१-३४॥
अगस्त्य भवनम् यत्र निर्मितम् विश्वकर्मणा ।तत्र योजन विस्तारम् उच्छ्रितम् दश योजनम् ॥४-४१-३५॥
शरणम् कांचनम् दिव्यम् नाना रत्न विभूषितम् ।तत्र भोगवती नाम सर्पाणाम् आलयः पुरी ॥४-४१-३६॥
विशाल रथ्या दुर्धर्षा सर्वतः परिरक्षिता ।रक्षिता पन्नगैः घोरैः तीष्क्ण दम्ष्ट्रैः महा विषैः ॥४-४१-३७॥
सर्प राजो महाघोरो यस्याम् वसति वासुकिः ।निर्याय मार्गितव्या च सा च भोगवती पुरी ॥४-४१-३८॥
तत्र च अंतरोद्देशा ये केचन समावृताः ।तम् च देशम् अतिक्रम्य महान् ऋषभ संस्थितिः ॥४-४१-३९॥
सर्व रत्नमयः श्रीमान् ऋषभो नाम पर्वतः ।गोशीर्षकम् पद्मकम् च हरिश्यामम् च चन्दनम् ॥४-४१-४०॥
दिव्यम् उत्पद्यते यत्र तत् चैव अग्नि सम प्रभम् ।न तु तत् चन्दनम् दृष्ट्वा स्प्रष्टव्यम् च कदाचन ॥४-४१-४१॥
रोहिता नाम गंधर्वा घोरम् रक्षन्ति तद् वनम् ।तत्र गंधर्व पतयः पंच सूर्य सम प्रभाः ॥४-४१-४२॥
शैलूषो ग्रामणीः शिक्षः शुको बभ्रुः तथैव च ।रवि सोम अग्नि वपुषा निवासः पुण्य कर्मणाम् ॥४-४१-४३॥
अन्ते पृथिव्या दुर्धर्षाः ततः स्वर्ग जितः स्थिताः ।ततः परम् न वः सेव्यः पितृ लोकः सुदारुणः ॥४-४१-४४॥
राजधानी यमस्य एषा कष्टेन तमसा आवृता ।एतावत् एव युष्माभिः वीरा वानर पुंगवाः ।शक्यम् विचेतुम् गन्तुम् वा न अतो गतिमताम् गतिः ॥४-४१-४५॥
सर्वम् एतत् समालोक्य यत् च अन्यत् अपि दृश्यते ।गतिम् विदित्वा वैदेह्याः संनिवर्तितम् अर्हथ ॥४-४१-४६॥
यः च मासान् निवृत्तो अग्रे दृष्टा सीत इति वक्ष्यति ।मत् तुल्य विभवो भोगैः सुखम् स विहरिष्यति ॥४-४१-४७॥
ततः प्रियतरो न अस्ति मम प्राणात् विशेषतः ।कृत अपराधो बहुशो मम बन्धुः भविष्यति ॥४-४१-४८॥
अमित बल पराक्रमा भवन्तोविपुल गुणेषु कुलेषु च प्रसूताः ।मनुज पति सुताम् यथा लभध्वम्तत् अधिगुणम् पुरुषार्थम् आरभध्वम् ॥४-४१-४९॥
Navigation
- ← Previous: Kiṣkindhā-Kāṇḍa Sarga 40
- Next: Kiṣkindhā-Kāṇḍa Sarga 42 →
- Kiṣkindhā-Kāṇḍa sarga-index
- Vālmīki Rāmāyaṇa master-index
- /rama · the non-dual singularity
🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷