🪷 किष्किन्धाकाण्ड · Sarga 39
Kiṣkindhā-Kāṇḍa · The Book of Kiṣkindhā · Sarga 39 · 44 ślokas
Vālmīki Detail Source-Anchor Spine
This sarga page exposes the exact local source route, parent Kāṇḍa, Rāma janma proof anchors where applicable, and the wider Vālmīki/Rāma source spine.
Vālmīki 4.39local sarga route with all Sanskrit ślokasKiṣkindhā-Kāṇḍaparent Kāṇḍa sarga index/valmiki-ramayanamaster index for the 7 Kāṇḍas and 22,742 ślokasBāla 1.18Rāma-janma sarga and primary birth-spec anchorVālmīki 1.18.8first Rāma-janma astronomical śloka routeVālmīki 1.18.15closing verse of the janma-spec rangeVālmīki 2.26.9Bṛhaspati-Puṣya coronation-eve witness routeVālmīki 6.93.65war-window Krishna-pakṣa timing witnessVālmīki 6.103Rāvaṇa-vadha anchor doorway for the year+41 witness/ramaRāma-Krishna non-dual singularity and three-anchor proof surface/chart/ramapublished Rāma janma-kuṇḍalī output for the 1,626,102 BCE claimRāma janma dayreader-visible pañchāṅga/day output for the birth anchor/computational-moatSūrya-Siddhānta deep-time verification boundary/festival/rama-navamiCaitra Śukla Navamī festival mūrti-page/ramcharitamanasTulsidās bhakti voice of the same Rāma-līlāRāmopākhyānaVyāsa's Rāma-kathā inside the Mahābhārata/binduDiamond of Darśanas · Rāma/Krishna as one Bindu aperture/philosophyConstitutional Principles and Rāma-Krishna recognition
🪷 The Ślokas · canonical Devanāgarī Sanskrit yathārtha
इति ब्रुवाणम् सुग्रीवम् रामो धर्मभृताम् वरः ।बाहुभ्याम् संपरिष्वज्य प्रत्युवाच कृतांजलिम् ॥४-३९-१॥
यत् इन्द्रो वर्षते वर्षम् न तत् चित्रम् भविष्यति ।आदित्यो असौ सहस्रांशुः कुर्यात् वितिमिरम् नभः ॥४-३९-२॥
चन्द्रमा रजनीम् कुर्यात् प्रभया सौम्य निर्मलाम् ।त्वत् विधो वा अपि मित्राणाम् प्रीतिम् कुर्यात् परंतप ॥४-३९-३॥
एवम् त्वयि तत् न चित्रम् भवेत् यत् सौम्य शोभनम् ।जानामि अहम् त्वाम् सुग्रीव सततम् प्रिय वादिनम् ॥४-३९-४॥
त्वत् स नाथः सखे संख्ये जेता अस्मि सकलान् अरीन् ।त्वम् एव मे सुहृत् मित्रम् साहाय्यम् कर्तुम् अर्हसि ॥४-३९-५॥
जहार आत्म विनाशाय वैदेहीम् राक्षस अधमः ।वंचयित्वा तु पौलोमीम् अनुह्लादो यथा शचीम् ॥४-३९-६॥
न चिरात् तम् हनिष्यामि रावणम् निशितैः शरैः ।पौलोम्याः पितरम् दृप्तम् शत क्रतुः इव अरिहा ॥४-३९-७॥
एतस्मिन् अन्तरे च एव रजः समभिवर्तत ।उष्णाम् तीव्राम् सहस्रांशोः छादयत् गगने प्रभाम् ॥४-३९-८॥
दिशः पर्याकुलाः च आसन् तमसा तेन दूषिताः ।चचाल च मही सर्वा स शैल वन कानना ॥४-३९-९॥
ततो नगेन्द्र संकाशैः तीक्ष्ण दन्ष्ट्रैः महाबलैः ।कृत्स्ना संछादिता भूमिः असंख्येयैः प्लवंगमैः ॥४-३९-१०॥
निमेष अंतर मात्रेण ततः तैः हरि यूथपैः ।कोटी शत परीवारैः कामरूपिभिः आवृता ॥४-३९-११॥
नादेयैः पार्वतेयैः च सामुद्रैः च महाबलैः ।हरिभिः मेघ निर्ह्रादैः अन्यैः च वन वासिभिः ॥४-३९-१२॥
तरुण आदित्य वर्णैः च शशि गौरैः च वानरैः ।पद्म केसर वर्णैः च श्वेतैः मेरु कृत आलयैः ॥४-३९-१३॥
कोटी सहस्रैः दशभिः श्रीमान् परिवृतः तदा ।वीरः शतबलिः नाम वानरः प्रत्यदृश्यत ॥४-३९-१४॥
ततः कांचन शैल आभः ताराया वीर्यवान् पिता ।अनेकैः बहु साहस्रैः कोटिभिः प्रत्यदृश्यत ॥४-३९-१५॥
तथा अपरेण कोटीनाम् साहस्रेण समन्वितः ।पिता रुमयाः संप्राप्तः सुग्रीव श्वशुरो विभुः ॥४-३९-१६॥
पद्म केसर संकाशः तरुण अर्क निभ आननः ।बुद्धिमान् वानर श्रेष्ठः सर्व वानर सत्तमः ॥४-३९-१७॥
अनीकैः बहु साहस्रैः वानराणाम् समन्वितः ।पिता हनुमतः श्रीमान् केसरी प्रत्यदृश्यत ॥४-३९-१८॥
गो लांगूल महाराजो गवाक्षो भीम विक्रमः ।वृतः कोटि सहस्रेण वानराणाम् अदृश्यत ॥४-३९-१९॥
ऋक्षाणाम् भीम वेगानाम् धूम्रः शत्रु निबर्हणः ।वृतः कोटि सहस्राभ्याम् द्वाभ्याम् समभिवर्तत ॥४-३९-२०॥
महा अचल निभैः घोरैः पनसो नाम यूथपः ।आजगाम महावीर्यः तिसृभिः कोटिभिः वृतः ॥४-३९-२१॥
नील अंजन चय आकारो नीलो नाम अथ यूथपः ।अदृश्यत महाकायः कोटिभिः दशभिः वृतः ॥४-३९-२२॥
ततः कांचन आभो गवयो नाम यूथपः ।आजगाम महावीर्यः कोटिभिः पंचभिः वृतः ॥४-३९-२३॥
दरीमुखः च बलवान् यूथपो अभ्याययौ तदा ।वृतः कोटि सहस्रेण सुग्रीवम् समुपस्थितः ॥४-३९-२४॥
मैन्दः च द्विविदः च उभौ अश्वि पुत्रौ महाबलौ ।कोटि कोटि सहस्रेण वानराणाम् अदृश्यताम् ॥४-३९-२५॥
गजः च बलवान् वीरः त्रिसृभिः कोटिभिः वृतः ।आजगाम महातेजाः सुग्रीवस्य समीपतः ॥४-३९-२६॥
ऋक्ष राजो महातेजा जांबवान् नाम नामतः ।कोटिभिः दशभिः व्याप्तः सुग्रीवस्य वशे स्थितः ॥४-३९-२७॥
रुमणो नाम तेजस्वी विक्रान्तैः वानरैः वृतः ।आगतो बलवान् तूर्णम् कोटि शत समावृतः ॥४-३९-२८॥
ततः कोटि सहस्राणाम् सहस्रेण शतेन च ।पृष्ठतो अनुगतः प्राप्तो हरिभिः गंधमादनः ॥४-३९-२९॥
ततः पद्म सहस्रेण वृतः शन्कु शतेन च ।युव राजो अंगदः प्राप्तः पितृ तुल्य पराक्रमः ॥४-३९-३०॥
ततः तारा द्युतिः तारो हरिः भीम पराक्रमः ।पंचभिः हरि कोटीभिः दूरतः प्रत्यदृश्यत ॥४-३९-३१॥
इन्द्रजानुः कपिः वीरो यूथपः प्रत्यदृश्यत ।एकादशानाम् कोटीनाम् ईश्वरः तैः च सम्वृतः ॥४-३९-३२॥
ततो रंभः तु अनुप्राप्तः तरुण आदित्य संनिभः ।आयुतेन वृतः चैव सहस्रेण शतेन च ॥४-३९-३३॥
ततो यूथ पतिः वीरो दुर्मुखो नाम वानरः ।प्रत्यदृश्यत कोटिभ्याम् द्वाभ्याम् परिवृतो बली ॥४-३९-३४॥
कैलास शिखर आकारैः वानरैः भीम विक्रमैः ।वृतः कोटि सहस्रेण हनुमान् प्रत्यदृश्यत ॥४-३९-३५॥
नलः च अपि महावीर्यः संवृतो द्रुम वासिभिः ।कोटी शतेन संप्राप्तः सहस्रेण शतेन च ॥४-३९-३६॥
ततो दधिमुखः श्रीमान् कोटिभिः दशभिः वृतः ।संप्राप्तो अभिनदन् तस्य सुग्रीवस्य महात्मनः ॥४-३९-३७॥
शरभः कुमुदो वह्निः वानरो रंहः एव च ।एते च अन्ये च बहवो वानराः काम रूपिणः ॥४-३९-३८॥
आवृत्य पृथिवीम् सर्वाम् पर्वतान् च वनानि च ।यूथपाः समनुप्राप्ता एषाम् संख्या न विद्यते ॥४-३९-३९॥
आगताः च निविष्टाः च पृथिव्याम् सर्व वानराः ।आप्लवंतः प्लवंतः च गर्जंतः च प्लवंगमाः ।अभ्यवर्तन्त सुग्रीवम् सूर्यम् अभ्र गणा इव ॥४-३९-४०॥
कुर्वाणा बहु शब्दान् च प्रकृष्टा बलशालिनः ।शिरोभिः वानरेन्द्राय सुग्रीवाय न्यवेदयन् ॥४-३९-४१॥
अपरे वानर श्रेष्ठाः संगम्य च यथा उचितम् ।सुग्रीवेण समागम्य स्थिताः प्रांजलयः तदा ॥४-३९-४२॥
सुग्रीवः त्वरितो रामे सर्वान् तान् वानरर्षभान् ।निवेदयित्वा धर्मज्ञः स्थितः प्रान्जलिः अब्रवीत् ॥४-३९-४३॥
यथा सुखम् पर्वत निर्झरेषुवनेषु सर्वेषु च वानरेन्द्राः ।निवेशयित्वा विधिवत् बलानिबलम् बलज्ञः प्रतिपत्तुम् ईष्टे ॥४-३९-४४॥
Navigation
- ← Previous: Kiṣkindhā-Kāṇḍa Sarga 38
- Next: Kiṣkindhā-Kāṇḍa Sarga 40 →
- Kiṣkindhā-Kāṇḍa sarga-index
- Vālmīki Rāmāyaṇa master-index
- /rama · the non-dual singularity
🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷