🪷 किष्किन्धाकाण्ड · Sarga 36
Kiṣkindhā-Kāṇḍa · The Book of Kiṣkindhā · Sarga 36 · 20 ślokas
🪷 Devanāgarī Ślokas
इति उक्तः तारया वाक्यम् प्रश्रितम् धर्म संहितम् ।मृदु स्वभावः सौमित्रिः प्रतिजग्राह तत् वचः ॥४-३६-१॥
तस्मिन् प्रतिगृहीते तु वाक्ये हरि गण ईश्वरः ।लक्ष्मणात् सुमहत् त्रासम् वस्त्रम् क्लिन्नम् इव अत्यजत् ॥४-३६-२॥
ततः कण्ठ गतम् माल्यम् चित्रम् बहु गुणम् महत् ।चिच्छेद विमदः च आसीत् सुग्रीवो वानर ईश्वरः ॥४-३६-३॥
स लक्ष्मणम् भीम बलम् सर्व वानर सत्तमः ।अब्रवीत् प्रश्रितम् वाक्यम् सुग्रीवः संप्रहर्षयन् ॥४-३६-४॥
प्रनष्टा श्रीः च कीर्तिः च कपि राज्यम् च शाश्वतम् ।राम प्रसादात् सौमित्रे पुनः च आप्तम् इदम् मया ॥४-३६-५॥
कः शक्तः तस्य देवस्य ख्यातस्य स्वेन कर्मणा ।तादृशम् प्रतिकुर्वीत अंशेन अपि नृपात्मज ॥४-३६-६॥
सीताम् प्राप्स्यति धर्मात्मा वधिष्यति च रावणम् ।सहाय मात्रेण मया राघवः स्वेन तेजसा ॥४-३६-७॥
सहाय कृत्यम् किम् तस्य येन सप्त महाद्रुमाः ।शैलः च वसुधा चैव बाणेन एकेन दारिताः ॥४-३६-८॥
धनुर् विस्फारमाणस्य यस्य शब्देन लक्ष्मण ।स शैला कम्पिता भूमिः सहायैः किम् नु तस्य वै ॥४-३६-९॥
अनुयात्राम् नर इन्द्रस्य करिष्ये अहम् नरषभ ।गच्छतो रावणम् हन्तुम् वैरिणम् स पुरःसरम् ॥४-३६-१०॥
यदि किंचित् अतिक्रान्तम् विश्वासात् प्रणयेन वा ।प्रेष्यस्य क्षमितव्यम् मे न कश्चिन् न अपराध्यति ॥४-३६-११॥
इति तस्य ब्रुवाणस्य सुग्रीवस्य महात्मनः ।अभवत् लक्ष्मणः प्रीतः प्रेम्णा च इदम् उवाच ह ॥४-३६-१२॥
सर्वथा हि मम भ्राता स नाथो वानरेश्वर ।त्वया नाथेन सुग्रीव प्रश्रितेन विशेषतः ॥४-३६-१३॥
यः ते प्रभावः सुग्रीव यत् च ते शौचम् ईदृशम् ।अर्हः तम् कपि राज्यस्य श्रियम् भोक्तुम् अनुत्तमाम् ॥४-३६-१४॥
सहायेन च सुग्रीव त्वया रामः प्रतापवान् ।वधिष्यति रणे शत्रून् अचिरात् न अत्र संशयः ॥४-३६-१५॥
धर्मज्ञस्य कृतज्ञस्य संग्रामेषु अनिवर्तिनः ।उपपन्नम् च युक्तम् च सुग्रीव तव भाषितम् ॥४-३६-१६॥
दोषज्ञः सति सामर्थ्ये को अन्यो भाषितुम् अर्हति ।वर्जयित्वा मम ज्येष्ठम् त्वाम् च वानर सत्तम ॥४-३६-१७॥
सदृशः च असि रामस्य विक्रमेण बलेन च ।सहायो दैवतैः दत्तः चिराय हरि पुंगव ॥४-३६-१८॥
किम् तु शीघ्रम् इतो वीर निष्क्राम त्वम् मया सह ।सान्त्वयस्व वयस्यम् च भार्या हरण दुःखितम् ॥४-३६-१९॥
यत् च शोक अभिभूतस्य श्रुत्वा रामस्य भाषितम् ।मया त्वम् परुषाणि उक्तः तत् क्षमस्व सखे मम ॥४-३६-२०॥
Navigation
- ← Previous: Kiṣkindhā-Kāṇḍa Sarga 35
- Next: Kiṣkindhā-Kāṇḍa Sarga 37 →
- Kiṣkindhā-Kāṇḍa sarga-index
- Vālmīki Rāmāyaṇa master-index
- /rama · the non-dual singularity
Continue with Kiṣkindhā-Kāṇḍa, the seven-Kāṇḍa reading index, or the Rāmcharitamānas companion reading. Source and rights documentation remains available in the editorial standards.
🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷