🪷 किष्किन्धाकाण्ड · Sarga 37

Kiṣkindhā-Kāṇḍa · The Book of Kiṣkindhā · Sarga 37 · 37 ślokas

Vālmīki Detail Source-Anchor Spine

This sarga page exposes the exact local source route, parent Kāṇḍa, Rāma janma proof anchors where applicable, and the wider Vālmīki/Rāma source spine.

Vālmīki 4.37local sarga route with all Sanskrit ślokasKiṣkindhā-Kāṇḍaparent Kāṇḍa sarga index/valmiki-ramayanamaster index for the 7 Kāṇḍas and 22,742 ślokasBāla 1.18Rāma-janma sarga and primary birth-spec anchorVālmīki 1.18.8first Rāma-janma astronomical śloka routeVālmīki 1.18.15closing verse of the janma-spec rangeVālmīki 2.26.9Bṛhaspati-Puṣya coronation-eve witness routeVālmīki 6.93.65war-window Krishna-pakṣa timing witnessVālmīki 6.103Rāvaṇa-vadha anchor doorway for the year+41 witness/ramaRāma-Krishna non-dual singularity and three-anchor proof surface/chart/ramapublished Rāma janma-kuṇḍalī output for the 1,626,102 BCE claimRāma janma dayreader-visible pañchāṅga/day output for the birth anchor/computational-moatSūrya-Siddhānta deep-time verification boundary/festival/rama-navamiCaitra Śukla Navamī festival mūrti-page/ramcharitamanasTulsidās bhakti voice of the same Rāma-līlāRāmopākhyānaVyāsa's Rāma-kathā inside the Mahābhārata/binduDiamond of Darśanas · Rāma/Krishna as one Bindu aperture/philosophyConstitutional Principles and Rāma-Krishna recognition

🪷 The Ślokas · canonical Devanāgarī Sanskrit yathārtha

Vālmīki 4.37.1
एवम् उक्तः तु सुग्रीवो लक्ष्मणेन महात्मना ।हनूमन्तम् स्थितम् पार्श्वे वचनम् च इदम् अब्रवीत् ॥४-३७-१॥
Vālmīki 4.37.2
महेन्द्र हिमवत् विंध्य कैलास शिखरेषु च ।मन्दरे पाण्डु शिखरे पंच शैलेषु ये स्थिताः ॥४-३७-२॥
Vālmīki 4.37.3
तरुण आदित्य वर्णेषु भ्राजमानेषु नित्यशः ।पर्वतेषु समुद्र अंते पश्चिमस्याम् तु ये दिशि ॥४-३७-३॥
Vālmīki 4.37.4
आदित्य भवने चैव गिरौ संध्या अभ्र संनिभे ।पद्म ताल वनम् भीमाः संश्रिता हरि पुंगवाः ॥४-३७-४॥
Vālmīki 4.37.5
अंजन अंबुद संकाशाः कुंजर प्रतिम ओजसः ।अंजने पर्वते चैव ये वसन्ति प्लवंगमाः ॥४-३७-५॥
Vālmīki 4.37.6
महाशैल गुहा आवासा वानराः कनक प्रभाः ।मेरु पार्श्व गताः चैव ये च धूम्र गिरिम् श्रिताः ॥४-३७-६॥
Vālmīki 4.37.7
तरुण आदित्य वर्णाः च पर्वते ये महाअरुणे ।पिबंतो मधु मैरेयम् भीम वेगाः प्लवंगमाः ॥४-३७-७॥
Vālmīki 4.37.8
वनेषु च सुरम्येषु सुगन्धिषु महत्सु च ।तापस आश्रम रम्येषु वन अन्तेषु समंततः ॥४-३७-८॥
Vālmīki 4.37.9
तान् तान् त्वम् आनय क्षिप्रम् पृथिव्याम् सर्व वानरान् ।साम दान आदिभिः कल्पैः वानरैः वेगवत्तरैः ॥४-३७-९॥
Vālmīki 4.37.10
प्रेषिताः प्रथमम् ये च मया आज्ञाताः महाजवाः ।त्वरण अर्थम् तु भूयः त्वम् संप्रेषय हरीश्वरान् ॥४-३७-१०॥
Vālmīki 4.37.11
ये प्रसक्ताः च कामेषु दीर्घ सूत्राः च वानराः ।इह आनयस्व तान् शीघ्रम् सर्वान् एव कपीश्वरान् ॥४-३७-११॥
Vālmīki 4.37.12
अहोभिः दशभिः ये च न आगच्छन्ति मम आज्ञया ।हन्तव्याः ते दुरात्मानो राज शासन दूषकाः ॥४-३७-१२॥
Vālmīki 4.37.13
शतानि अथ सहस्राणि कोट्यः च मम शासनात् ।प्रयान्तु कपि सिंहानाम् निदिशे मम ये स्थिताः ॥४-३७-१३॥
Vālmīki 4.37.14
मेघ पर्वत संकाशाः छादयन्त इव अंबरम् ।घोर रूपाः कपि श्रेष्ठा यान्तु मत् शासनात् इतः ॥४-३७-१४॥
Vālmīki 4.37.15
ते गतिज्ञा गतिम् गत्वा पृथिव्याम् सर्व वानराः ।आनयंतु हरीन् सर्वान् त्वरिताः शासनान् मम ॥४-३७-१५॥
Vālmīki 4.37.16
तस्य वानर राजस्य श्रुत्वा वायु सुतो वचः ।दिक्षु सर्वासु विक्रान्तान् प्रेषयामास वानरान् ॥४-३७-१६॥
Vālmīki 4.37.17
ते पदम् विष्णु विक्रान्तम् पतत्रि ज्योतिः अध्वगाः ।प्रयाताः प्रहिता राज्ञा हरयः तु क्षणेन वै ॥४-३७-१७॥
Vālmīki 4.37.18
ते समुद्रेषु गिरिषु वनेषु च सरःसु च ।वानरा वानरान् सर्वान् राम हेतोः अचोदयन् ॥४-३७-१८॥
Vālmīki 4.37.19
मृत्यु काल उपमस्य आज्ञाम् राज राजस्य वानराः ।सुग्रीवस्य आययुः श्रुत्वा सुग्रीव भय शन्किताः ॥४-३७-१९॥
Vālmīki 4.37.20
ततः ते अंजन संकाशा गिरेः तस्मात् महाजवाः ।तिस्रः कोट्यः प्लवंगानाम् निर्ययुर् यत्र राघवः ॥४-३७-२०॥
Vālmīki 4.37.21
अस्तम् गच्छति यत्र अर्कः तस्मिन् गिरिवरे रताः ।संतप्त हेम वर्ण आभा तस्मात् कोट्यो दश च्युताः ॥४-३७-२१॥
Vālmīki 4.37.22
कैलास शिखरेभ्यः च सिंह केसर वर्चसाम् ।ततः कोटि सहस्राणि वानराणाम् समागमन् ॥४-३७-२२॥
Vālmīki 4.37.23
फल मूलेन जीवन्तो हिमवन्तम् उपाश्रिताः ।तेषाम् कोटि सहस्राणाम् सहस्रम् समवर्तत ॥४-३७-२३॥
Vālmīki 4.37.24
अंगारक समानानाम् भीमानाम् भीम कर्मणाम् ।विंध्यात् वानर कोटीनाम् सहस्राणि अपतन् द्रुतम् ॥४-३७-२४॥
Vālmīki 4.37.25
क्षीर उद वेला निलयाः तमाल वन वासिनः ।नारि केल अशनाः चैव तेषाम् संख्या न विद्यते ॥४-३७-२५॥
Vālmīki 4.37.26
वनेभ्यो गह्वरेभ्यः च सरित्भ्यः च महाबलाः ।आगच्छत् वानरी सेना पिबन्ति इव दिवा करम् ॥४-३७-२६॥
Vālmīki 4.37.27
ये तु त्वरयितुम् याता वानराः सर्व वानरान् ।ते वीरा हिमवत् शैले ददृशुः तम् महाद्रुमम् ॥४-३७-२७॥
Vālmīki 4.37.28
तस्मिन् गिरि वरे पुण्ये यज्ञो माहेश्वरः पुरा ।सर्व देव मनः तोषो बभूव सु मनोरमः ॥४-३७-२८॥
Vālmīki 4.37.29
अन्न निस्यंद जातानि मूलानि च फलानि च ।अमृत स्वादु कल्पानि ददृशुः तत्र वानराः ॥४-३७-२९॥
Vālmīki 4.37.30
तत् अन्न संभवम् दिव्यम् फलम् मूलम् मनोहरम् ।यः कश्चित् सकृत् अश्नाति मासम् भवति तर्पितः ॥४-३७-३०॥
Vālmīki 4.37.31
तानि मूलानि दिव्यानि फलानि च फल अशनाः ।औषधानि च दिव्यानि जगृहुर् हरि पुंगवाः ॥४-३७-३१॥
Vālmīki 4.37.32
तस्मात् च यज्ञ आयतनात् पुष्पाणि सुरभीणि च ।आनिन्युर् वानरा गत्वा सुग्रीव प्रिय कारणात् ॥४-३७-३२॥
Vālmīki 4.37.33
ते तु सर्वे हरिवराः पृथिव्याम् सर्व वानरान् ।संचोदयित्वा त्वरितम् यूथानाम् जग्मुर् अग्रतः ॥४-३७-३३॥
Vālmīki 4.37.34
ते तु तेन मुहूर्तेन कपयः शीघ्र चारिणः ।किष्किंधाम् त्वरया प्राप्ताः सुग्रीवो यत्र वानरः ॥४-३७-३४॥
Vālmīki 4.37.35
ते गृहीत्वा ओषधीः सर्वाः फल मूलम् च वानराः ।तम् प्रतिग्राहयामासुर् वचनम् च इदम् अब्रुवन् ॥४-३७-३५॥
Vālmīki 4.37.36
सर्वे परिसृताः शैलाः सरितः च वनानि च ।पृथिव्याम् वानराः सर्वे शासनात् उपयान्ति ते ॥४-३७-३६॥
Vālmīki 4.37.37
एवम् श्रुत्वा ततो हृष्टः सुग्रीवः प्लवग अधिपः ।प्रतिजग्राह च प्रीतः तेषाम् सर्वम् उपायनम् ॥४-३७-३७॥

Navigation

🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷