🪷 किष्किन्धाकाण्ड · Sarga 35

Kiṣkindhā-Kāṇḍa · The Book of Kiṣkindhā · Sarga 35 · 23 ślokas

Vālmīki Detail Source-Anchor Spine

This sarga page exposes the exact local source route, parent Kāṇḍa, Rāma janma proof anchors where applicable, and the wider Vālmīki/Rāma source spine.

Vālmīki 4.35local sarga route with all Sanskrit ślokasKiṣkindhā-Kāṇḍaparent Kāṇḍa sarga index/valmiki-ramayanamaster index for the 7 Kāṇḍas and 22,742 ślokasBāla 1.18Rāma-janma sarga and primary birth-spec anchorVālmīki 1.18.8first Rāma-janma astronomical śloka routeVālmīki 1.18.15closing verse of the janma-spec rangeVālmīki 2.26.9Bṛhaspati-Puṣya coronation-eve witness routeVālmīki 6.93.65war-window Krishna-pakṣa timing witnessVālmīki 6.103Rāvaṇa-vadha anchor doorway for the year+41 witness/ramaRāma-Krishna non-dual singularity and three-anchor proof surface/chart/ramapublished Rāma janma-kuṇḍalī output for the 1,626,102 BCE claimRāma janma dayreader-visible pañchāṅga/day output for the birth anchor/computational-moatSūrya-Siddhānta deep-time verification boundary/festival/rama-navamiCaitra Śukla Navamī festival mūrti-page/ramcharitamanasTulsidās bhakti voice of the same Rāma-līlāRāmopākhyānaVyāsa's Rāma-kathā inside the Mahābhārata/binduDiamond of Darśanas · Rāma/Krishna as one Bindu aperture/philosophyConstitutional Principles and Rāma-Krishna recognition

🪷 The Ślokas · canonical Devanāgarī Sanskrit yathārtha

Vālmīki 4.35.1
तथा ब्रुवाणम् सौमित्रिम् प्रदीप्तम् इव तेजसा ।अब्रवीत् लक्ष्मणम् तारा तारा अधिप निभ आनना ॥४-३५-१॥
Vālmīki 4.35.2
न एवम् लक्ष्मण वक्तव्यो न अयम् परुषम् अर्हति ।हरीणाम् ईश्वरः श्रोतुम् तव वक्त्रात् विशेषतः ॥४-३५-२॥
Vālmīki 4.35.3
न एव अकृतज्ञः सुग्रीवो न शठो न अपि दारुणः ।न एव अनृत कथो वीर न जिह्मः च कपीश्वरः ॥४-३५-३॥
Vālmīki 4.35.4
उपकारम् कृतम् वीरो न अपि अयम् विस्मृतः कपिः ।रामेण वीर सुग्रीवो यत् अन्यैः दुष्करम् रणे ॥४-३५-४॥
Vālmīki 4.35.5
राम प्रसादात् कीर्तिम् च कपि राज्यम् च शाश्वतम् ।प्राप्तवान् इह सुग्रीवो रुमाम् माम् च परंतप ॥४-३५-५॥
Vālmīki 4.35.6
सुदुःख शयितः पूर्वम् प्राप्य इदम् सुखम् उत्तमम् ।प्राप्त कालम् न जानीते विश्वामित्रो यथा मुनिः ॥४-३५-६॥
Vālmīki 4.35.7
घृताच्याम् किल संसक्तो दश वर्षाणि लक्ष्मण ।अहो अमन्यत धर्मात्मा विश्वामित्रो महामुनिः ॥४-३५-७॥
Vālmīki 4.35.8
स हि प्राप्तम् न जानीते कालम् कालविदाम् वरः ।विश्वामित्रो महातेजाः किम् पुनर् यः पृथग् जनः ॥४-३५-८॥
Vālmīki 4.35.9
देह धर्म गतस्य अस्य परिश्रान्तस्य लक्ष्मण ।अवितृप्तस्य कामेषु रामः क्षन्तुम् इह अर्हति ॥४-३५-९॥
Vālmīki 4.35.10
न च रोष वशम् तात गंतुम् अर्हसि लक्ष्मण ।निश्चयार्थम् अविज्ञाय सहसा प्राकृतो यथा ॥४-३५-१०॥
Vālmīki 4.35.11
सत्त्व युक्ता हि पुरुषाः त्वत् विधाः पुरुषर्षभ ।अविमृश्य न रोषस्य सहसा यान्ति वश्यताम् ॥४-३५-११॥
Vālmīki 4.35.12
प्रसादये त्वाम् धर्मज्ञ सुग्रीवार्थे समाहिता ।महान् रोष समुत्पन्नः संरंभः त्यज्यताम् अयम् ॥४-३५-१२॥
Vālmīki 4.35.13
रुमाम् माम् च अंगदम् राज्यम् धन धान्य पशूनि च ।राम प्रियार्थम् सुग्रीवः त्यजेत् इति मतिर् मम ॥४-३५-१३॥
Vālmīki 4.35.14
समानेष्यति सुग्रीवः सीतया सह राघवम् ।शशांकम् इव रोहिण्या हत्वा तम् राक्षस अधमम् ॥४-३५-१४॥
Vālmīki 4.35.15
शत कोटि सहस्राणि लंकायाम् किल रक्षसाम् ।अयुतानि च षट् त्रिंशत् सहस्राणि शतानि च ॥४-३५-१५॥
Vālmīki 4.35.16
अहत्वा ताम् च दुर्धर्षान् राक्षसान् काम रूपिणः ।न शक्यो रावणो हंतुम् येन सा मैथिली हृता ॥४-३५-१६॥
Vālmīki 4.35.17
ते न शक्या रणे हंतुम् असहायेन लक्ष्मण ।रावणः क्रूर कर्मा च सुग्रीवेण विशेषतः ॥४-३५-१७॥
Vālmīki 4.35.18
एवम् आख्यातवान् वाली स हि अभिज्ञो हरीश्वरः ।आगमः तु न मे व्यक्तः श्रवात् तस्य ब्रवीमि अहम् ॥४-३५-१८॥
Vālmīki 4.35.19
त्वत् सहाय निमित्तम् हि प्रेषिता हरिपुंगवाः ।आनेतुम् वानरान् युद्धे सुबहून् हरिपुंगवान् ॥४-३५-१९॥
Vālmīki 4.35.20
ताम् च प्रतीक्षमाणो अयम् विक्रांतान् सुमहा बलान् ।राघवस्य अर्थ सिद्धि अर्थम् न निर्याति हरि ईश्वरः ॥४-३५-२०॥
Vālmīki 4.35.21
कृता सुसंस्था सौमित्रे सुग्रीवेण यथा पुरा ।अद्य तैः वानरैः सर्वैः आगंतव्यम् महाबलैः ॥४-३५-२१॥
Vālmīki 4.35.22
ऋक्ष कोटि सहस्राणि गोलांगूल शतानि च ।अद्य त्वाम् उपयास्यन्ति जहि कोपम् अरिन्दमकोट्यो अनेकाः तु काकुत्स्थ कपीनाम् दीप्त तेजसाम् ॥४-३५-२२॥
Vālmīki 4.35.23
तव हि मुखम् इदम् निरीक्ष्य कोपात्क्षतज समे नयने निरीक्षमाणाः ।हरि वर वनिता न यान्ति शान्तिम्प्रथम भयस्य हि शन्किताः स्म सर्वाः ॥४-३५-२३॥

Navigation

🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷