🪷 किष्किन्धाकाण्ड · Sarga 34
Kiṣkindhā-Kāṇḍa · The Book of Kiṣkindhā · Sarga 34 · 19 ślokas
Vālmīki Detail Source-Anchor Spine
This sarga page exposes the exact local source route, parent Kāṇḍa, Rāma janma proof anchors where applicable, and the wider Vālmīki/Rāma source spine.
Vālmīki 4.34local sarga route with all Sanskrit ślokasKiṣkindhā-Kāṇḍaparent Kāṇḍa sarga index/valmiki-ramayanamaster index for the 7 Kāṇḍas and 22,742 ślokasBāla 1.18Rāma-janma sarga and primary birth-spec anchorVālmīki 1.18.8first Rāma-janma astronomical śloka routeVālmīki 1.18.15closing verse of the janma-spec rangeVālmīki 2.26.9Bṛhaspati-Puṣya coronation-eve witness routeVālmīki 6.93.65war-window Krishna-pakṣa timing witnessVālmīki 6.103Rāvaṇa-vadha anchor doorway for the year+41 witness/ramaRāma-Krishna non-dual singularity and three-anchor proof surface/chart/ramapublished Rāma janma-kuṇḍalī output for the 1,626,102 BCE claimRāma janma dayreader-visible pañchāṅga/day output for the birth anchor/computational-moatSūrya-Siddhānta deep-time verification boundary/festival/rama-navamiCaitra Śukla Navamī festival mūrti-page/ramcharitamanasTulsidās bhakti voice of the same Rāma-līlāRāmopākhyānaVyāsa's Rāma-kathā inside the Mahābhārata/binduDiamond of Darśanas · Rāma/Krishna as one Bindu aperture/philosophyConstitutional Principles and Rāma-Krishna recognition
🪷 The Ślokas · canonical Devanāgarī Sanskrit yathārtha
तम् अप्रतिहतम् क्रुद्धम् प्रविष्टम् पुरुषर्षभम् ।सुग्रीवो लक्ष्मणम् दृष्ट्वा बभूव व्यथित इन्द्रियः ॥४-३४-१॥
क्रुद्धम् निःश्वसमानम् तम् प्रदीप्तम् इव तेजसा ।भ्रातुर् व्यसन संतप्तम् दृष्ट्वा दशरथ आत्मजम् ॥४-३४-२॥
उत्पपात हरिश्रेष्ठो हित्वा सौवर्णम् आसनम् ।महान् महेन्द्रस्य यथा स्वलंकृत इव ध्वजः ॥४-३४-३॥
उत्पतंतम् अनूत्पेतू रुमा प्रभृतयः स्त्रियः ।सुग्रीवम् गगने पूर्णम् चंद्रम् तारा गणा इव ॥४-३४-४॥
संरक्त नयनः श्रीमान् संचचार कृतांजलिः ।बभूव अवस्थितः तत्र कल्प वृक्षो महान् इव ॥४-३४-५॥
रुमा द्वितीयम् सुग्रीवम् नारी मध्य गतम् स्थितम् ।अब्रवीत् लक्ष्मणः क्रुद्धः स तारम् शशिनम् यथा ॥४-३४-६॥
सत्त्व अभिजन संपन्नः स अनुक्रोशो जितेन्द्रियः ।कृतज्ञः सत्य वादी च राजा लोके महीयते ॥४-३४-७॥
यस्तु राजा स्थितो अधर्मे मित्राणाम् उपकारिणाम् ।मिथ्या प्रतिज्ञाम् कुरुते को नृशंस तरः ततः ॥४-३४-८॥
शतम् अश्व अनृते हन्ति सहस्रम् तु गव अनृते ।आत्मानम् स्व जनम् हन्ति पुरुषः पुरुष अनृते ॥४-३४-९॥
पूर्वम् कृतार्थो मित्राणाम् न तत् प्रति करोति यः ।कृतघ्नः सर्व भूतानाम् स वध्यः प्लवगेश्वर ॥४-३४-१०॥
गीतो अयम् ब्रह्मणा श्लोकः सर्व लोक नमस्कृतः ।दृष्ट्वा कृतघ्नम् क्रुद्धेन तम् निबोध प्लवम्गम ॥४-३४-११॥
गो घ्ने च एव सुरापे च चौरे भग्न व्रते तथा ।निष्कृतिर् विहिता सद्भिः कृतघ्ने न अस्ति निष्कृतिः ॥४-३४-१२॥
अनार्य त्वम् कृतघ्नः च मिथ्या वादी च वानर ।पूर्वम् कृतार्थो रामस्य न तत् प्रतिकरोषि यत् ॥४-३४-१३॥
ननु नाम कृतार्थेन त्वया रामस्य वानर ।सीताया मार्गणे यत्नः कर्तव्यः कृतम् इच्छता ॥४-३४-१४॥
स त्वम् ग्राम्येषु भोगेषु सक्तो मिथ्या प्रतिश्रवः ।न त्वाम् रामो विजानीते सर्पम् मण्डूक राविणम् ॥४-३४-१५॥
महाभागेन रामेण पापः करुण वेदिना ।हरीणाम् प्रापितो राज्यम् त्वम् दुरात्मा महात्मना ॥४-३४-१६॥
कृतम् चेत् न अभिजानीषे राघवस्य महात्मनः ।सद्यः त्वम् निशितैर् बाणैर् हतो द्रक्ष्यसि वालिनम् ॥४-३४-१७॥
न च संकुचितः पन्था येन वाली हतो गतः ।समये तिष्ठ सुग्रीव मा वालि पथम् अन्वगाः ॥४-३४-१८॥
न नूनम् इक्ष्वाकु वरस्य कार्मुकात्शरान् च तान् पश्यसि वज्र संनिभान् ।ततः सुखम् नाम विषेवसे सुखीन राम कार्यम् मनसा अपि अवेक्षसे ॥४-३४-१९॥
Navigation
- ← Previous: Kiṣkindhā-Kāṇḍa Sarga 33
- Next: Kiṣkindhā-Kāṇḍa Sarga 35 →
- Kiṣkindhā-Kāṇḍa sarga-index
- Vālmīki Rāmāyaṇa master-index
- /rama · the non-dual singularity
🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷