🪷 किष्किन्धाकाण्ड · Sarga 31
Kiṣkindhā-Kāṇḍa · The Book of Kiṣkindhā · Sarga 31 · 51 ślokas
Vālmīki Detail Source-Anchor Spine
This sarga page exposes the exact local source route, parent Kāṇḍa, Rāma janma proof anchors where applicable, and the wider Vālmīki/Rāma source spine.
Vālmīki 4.31local sarga route with all Sanskrit ślokasKiṣkindhā-Kāṇḍaparent Kāṇḍa sarga index/valmiki-ramayanamaster index for the 7 Kāṇḍas and 22,742 ślokasBāla 1.18Rāma-janma sarga and primary birth-spec anchorVālmīki 1.18.8first Rāma-janma astronomical śloka routeVālmīki 1.18.15closing verse of the janma-spec rangeVālmīki 2.26.9Bṛhaspati-Puṣya coronation-eve witness routeVālmīki 6.93.65war-window Krishna-pakṣa timing witnessVālmīki 6.103Rāvaṇa-vadha anchor doorway for the year+41 witness/ramaRāma-Krishna non-dual singularity and three-anchor proof surface/chart/ramapublished Rāma janma-kuṇḍalī output for the 1,626,102 BCE claimRāma janma dayreader-visible pañchāṅga/day output for the birth anchor/computational-moatSūrya-Siddhānta deep-time verification boundary/festival/rama-navamiCaitra Śukla Navamī festival mūrti-page/ramcharitamanasTulsidās bhakti voice of the same Rāma-līlāRāmopākhyānaVyāsa's Rāma-kathā inside the Mahābhārata/binduDiamond of Darśanas · Rāma/Krishna as one Bindu aperture/philosophyConstitutional Principles and Rāma-Krishna recognition
🪷 The Ślokas · canonical Devanāgarī Sanskrit yathārtha
स कामिनम् दीनम् अदीन सत्त्वःशोक अभिपन्नम् समुदीर्ण कोपम् ।नरेन्द्र सूनुर् नरदेव पुत्रम्रामानुजः पूर्वजम् इति उवाच ॥४-३१-१॥
न वानरः स्थास्यति साधु वृत्तेन मन्यते कर्म फल अनुषंगान् ।न भोक्ष्यते वानर राज्य लक्ष्मीम्तथा हि न अभिक्रमते अस्य बुद्धिः ॥४-३१-२॥
मति क्षयात् ग्राम्य सुखेषु सक्तःतव प्रसाद अप्रतिकार बुद्धिः ।हतो अग्रजम् पश्यतु वालिनम्न राज्यम् एवम् विगुणस्य देयम् ॥४-३१-३॥
न धारये कोपम् उदीर्ण वेगम्निहन्मि सुग्रीवम् असत्यम् अद्य ।हरि प्रवीरैः सह वालि पुत्रोनरेन्द्र पुत्र्या विचयम् करोतु ॥४-३१-४॥
तम् आत्त बाण आसनम् उत्पतंतम्निवेदित अर्थम् रण चण्ड कोपम् ।उवच रामः पर वीर हन्तास्व वेक्षितम् स अनुनयम् च वाक्यम् ॥४-३१-५॥
न हि वै त्वत् विधो लोके पापम् एवम् समाचरेत् ।कोपम् आर्येण यो हन्ति स वीरः पुरुषोत्तमः ॥४-३१-६॥
न इदम् अत्र त्वया ग्राह्यम् साधु वृत्तेन लक्ष्मण ।ताम् प्रीतिम् अनुवर्तस्व पूर्व वृत्तम् च संगतम् ॥४-३१-७॥
साम उपहितया वाचा रूक्षाणि परिवर्जयन् ।वक्तुम् अर्हसि सुग्रीवम् व्यतीतम् काल पर्यये ॥४-३१-८॥
सो अग्रजेन अनुशिष्ट अर्थो यथावत् पुरुषर्षभः ।प्रविवेश पुरीम् वीरो लक्ष्मणः पर वीर हा ॥४-३१-९॥
ततः शुभ मतिः प्राज्ञो भ्रातुः प्रियहितेरतः ।लक्ष्मणः प्रतिसंरब्धो जगाम भवनम् कपेः ॥४-३१-१०॥
शक्र बाणासन प्रख्यम् धनुः कालांतक उपमः ।प्रगृह्य गिरि शृंगाभम् मन्दरः सानुमान् इव ॥४-३१-११॥
यथा उक्त कारी वचनम् उत्तरम् चैव स उत्तरम् ।बृहस्पति समो बुद्ध्या मत्त्वा रामानुजः तदा ॥४-३१-१२॥
काम क्रोध समुत्थेन भ्रातुः कोपाग्निना वृतः ।प्रभंजन इव अप्रीतः प्रययौ लक्ष्मणः तदा ॥४-३१-१३॥
साल ताल अश्व कर्णाम् च तरसा पातयन् बलात् ।पर्यस्यन् गिरि कूटानि द्रुमान् अन्याम् च वेगितः ॥४-३१-१४॥
शिलाः च शकली कुर्वन् पद्भ्याम् गज इव आशु गः ।दूरम् एक पदम् त्यक्त्वा ययौ कार्यवशात् द्रुतम् ॥४-३१-१५॥
ताम् अपश्यत् बल आकीर्णाम् हरिराज महापुरीम् ।दुर्गाम् इक्ष्वाकु शार्दूलः किष्किंधाम् गिरि संकटे ॥४-३१-१६॥
रोषात् प्रस्फुरमाण ओष्ठः सुग्रीवम् प्रति लक्ष्मणः ।ददर्श वानरान् भीमान् किष्किंधाया बहिः चरान् ॥४-३१-१७॥
तम् दृष्ट्वा वानराः सर्वे लक्ष्मणम् पुरुषर्षभम्शैल शृंगाणि शतशः प्रवृद्धाम् च महीरुहान् ।जगृहुः कुंजर प्रख्या वानराः पर्वत अंतरे ॥४-३१-१८॥
तान् गृहीत प्रहरणान् सर्वान् दृष्ट्वा तु लक्ष्मणः ।बभूव द्विगुणम् क्रुद्धो बहु इंधन इव अनलः ॥४-३१-१९॥
तम् ते भयपरीत अंगाः ख्सुब्धम् दृष्ट्वा प्लवंगमाः ।काल मृत्यु युगांताअभम् शतशो विद्रुता दिशः ॥४-३१-२०॥
ततः सुग्रीव भवनम् प्रविश्य हरिपुंगवाः ।क्रोधम् आगमनम् चैव लक्ष्मणस्य न्यवेदयन् ॥४-३१-२१॥
तारया सहितः कामी सक्तः कपिवृषः तदा ।न तेषाम् कपि वीराणाम् शुश्राव वचनम् तदा ॥४-३१-२२॥
ततः सचिव संदिष्टा हरयो रोमहर्षणाः ।गिरि कुंजर मेघ आभा नगर्या निर्ययुः तदा ॥४-३१-२३॥
नख दंष्ट्र आयुधा सर्वे वीराः विकृत दर्शनाः ।सर्वे शार्दूल दर्पाः च सर्वे च विकृत आननाः ॥४-३१-२४॥
दश नाग बलाः केचित् केचित् दश गुणोत्तराः ।केचित् नाग सहस्रस्य बभूवुः तुल्य वर्चसः ॥४-३१-२५॥
ततः तैः कपिभिर् व्याप्ताम् द्रुम हस्तैर् महाबलैः ।अपश्यत् लक्ष्मणः क्रुद्धः किष्किंधाम् ताम् दुरासदम् ॥४-३१-२६॥
ततः ते हरयः सर्वे प्राकार परिख अंतरात् ।निष्क्रम्य उदग्र सत्त्वाः तु तस्थुर् आविष्कृतम् तदा ॥४-३१-२७॥
सुग्रीवस्य प्रमादम् च पूर्वजस्य अर्थम् आत्मवान् ।दृष्ट्वा कोप वशम् वीरः पुनर् एव जगाम सः ॥४-३१-२८॥
स दीर्घ उष्ण महा उच्छ्वासः कोप संरक्त लोचनः ।बभूव नर शार्दूल स धूम इव पावकः ॥४-३१-२९॥
बाण शल्य स्फुरत् जिह्वः सायक आसन भोगवान् ।स्व तेजो विष संघातः पंच आस्य इव पन्नगः ॥४-३१-३०॥
तम् दीप्तम् इव कालाग्निम् नागेन्द्रम् इव कोपितम् ।समासाद्य अंगदः त्रासात् विषादम् अगमत् परम् ॥४-३१-३१॥
सो अंगदम् रोष ताम्राक्षः संदिदेश महायशाः ।सुग्रीवः कथ्यताम् वत्स मम आगमनम् इति उत ॥४-३१-३२॥
एष रामानुजः प्राप्तः त्वत् सकाशम् अरिन्दमः ।भ्रातुर् व्यसन संतप्तो द्वारि तिष्ठति लक्ष्मणः ॥४-३१-३३॥
तस्य वाक्यम् यदि रुचिः क्रियताम् साधु वानरः ।इति उक्त्वा शीघ्रम् आगच्छ वत्स वाक्यम् अरिन्दम ॥४-३१-३४॥
लक्ष्मणस्य वचः श्रुत्वा शोकाविष्टो अंगदो अब्रवीत् ।पितुः समीपम् आगम्य सौमित्रिः अयम् आगतः ॥४-३१-३५॥
अथ अंगदः तस्य सुतीव्र वाचासंभ्रांत भावः परिदीन वक्त्रः ।निर्गत्य पूर्वम् नृपतेः तरस्वीततो रुमायाः चरणौ ववन्दे ॥४-३१-३६॥
संगृह्य पादौ पितुः उग्रतेजाजग्राह मातुः पुनर् एव पादौ ।पादौ रुमायाः च निपीडयित्वानिवेदयामास ततः तत् अर्थम् ॥४-३१-३७॥
स निद्रा मद संवीतो वानरो न विबुद्धवान् ।बभूव मद मत्तः च मदनेन च मोहितः ॥४-३१-३८॥
ततः किल किलाम् चक्रुः लक्ष्मणम् प्रेक्ष्य वानराः ।प्रसादयन्तः तम् क्रुद्धम् भय मोहित चेतसः ॥४-३१-३९॥
ते महा ओघ निभम् दृष्ट्वा वज्र अशनि सम स्वनम् ।सिंह नादम् समम् चक्रुर् लक्ष्मणस्य समीपतः ॥४-३१-४०॥
तेन शब्देन महता प्रत्यबुध्यत वानरः ।मद विह्वल ताम्राक्षो व्याकुल स्रग्वि भूषणः ॥४-३१-४१॥
अथ अंगद वचः श्रुत्वा तेन एव च समागतौ ।मंत्रिणो वानरेन्द्रस्य सम्मत उदार दर्शिनौ ॥४-३१-४२॥
प्लक्षः च एव प्रभावः च मंत्रिणौ अर्थ धर्मयोः ।वक्तुम् उच्चावचम् प्राप्तम् लक्ष्मणम् तौ शशंसतुः ॥४-३१-४३॥
प्रसादयित्वा सुग्रीवम् वचनैः स अर्थ निश्चितैः ।आसीनम् पर्युपासीनौ यथा शक्रम् मरुत्पतिम् ॥४-३१-४४॥
सत्य संधौ महाभागौ भ्रातरौ राम लक्ष्मणौ ।वयस्य भावम् संप्राप्तौ राज्य अर्हौ राज्य दायिनौ ॥४-३१-४५॥
तयोः एको धनुष्पाणिर् द्वारि तिष्ठति लक्ष्मणः ।यस्य भीताः प्रवेपन्ते नादान् मुंचन्ति वानराः ॥४-३१-४६॥
स एष राघव भ्राता लक्ष्मणो वाक्य सारथिः ।व्यवसाय रथः प्राप्तः तस्य रामस्य शासनात् ॥४-३१-४७॥
अयम् च तनयो राजन् ताराया दयितो अंगदः ।लक्ष्मणेन सकाशम् ते प्रेषितः त्वरया अनघ ॥४-३१-४८॥
सः अयम् रोष परीताक्षो द्वारि तिष्ठति वीर्यवान् ।वानरान् वानरपते चक्षुसा निर्दहन इव ॥४-३१-४९॥
तस्य मूर्ध्ना प्रणम्य त्वम् स पुत्र सह बान्धवः ।गच्छ शीघ्रम् महाराज रोषो हि अद्य उपशम्यताम् ॥४-३१-५०॥
यथा आह रामो धर्मात्मा तत् कुरुष्व समाहितः ।राजन् तिष्ठ स्व समये भव सत्य प्रतिश्रवः ॥४-३१-५१॥
Navigation
- ← Previous: Kiṣkindhā-Kāṇḍa Sarga 30
- Next: Kiṣkindhā-Kāṇḍa Sarga 32 →
- Kiṣkindhā-Kāṇḍa sarga-index
- Vālmīki Rāmāyaṇa master-index
- /rama · the non-dual singularity
🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷