🪷 किष्किन्धाकाण्ड · Sarga 32
Kiṣkindhā-Kāṇḍa · The Book of Kiṣkindhā · Sarga 32 · 22 ślokas
Vālmīki Detail Source-Anchor Spine
This sarga page exposes the exact local source route, parent Kāṇḍa, Rāma janma proof anchors where applicable, and the wider Vālmīki/Rāma source spine.
Vālmīki 4.32local sarga route with all Sanskrit ślokasKiṣkindhā-Kāṇḍaparent Kāṇḍa sarga index/valmiki-ramayanamaster index for the 7 Kāṇḍas and 22,742 ślokasBāla 1.18Rāma-janma sarga and primary birth-spec anchorVālmīki 1.18.8first Rāma-janma astronomical śloka routeVālmīki 1.18.15closing verse of the janma-spec rangeVālmīki 2.26.9Bṛhaspati-Puṣya coronation-eve witness routeVālmīki 6.93.65war-window Krishna-pakṣa timing witnessVālmīki 6.103Rāvaṇa-vadha anchor doorway for the year+41 witness/ramaRāma-Krishna non-dual singularity and three-anchor proof surface/chart/ramapublished Rāma janma-kuṇḍalī output for the 1,626,102 BCE claimRāma janma dayreader-visible pañchāṅga/day output for the birth anchor/computational-moatSūrya-Siddhānta deep-time verification boundary/festival/rama-navamiCaitra Śukla Navamī festival mūrti-page/ramcharitamanasTulsidās bhakti voice of the same Rāma-līlāRāmopākhyānaVyāsa's Rāma-kathā inside the Mahābhārata/binduDiamond of Darśanas · Rāma/Krishna as one Bindu aperture/philosophyConstitutional Principles and Rāma-Krishna recognition
🪷 The Ślokas · canonical Devanāgarī Sanskrit yathārtha
अंगदस्य वचः श्रुत्वा सुग्रीवः सचिवैः सह ।लक्ष्मणम् कुपितम् श्रुत्वा मुमोच आसनम् आत्मवान् ॥४-३२-१॥
स च तान् अब्रवीत् वाक्यम् निश्चित्य गुरु लाघवम् ।मंत्रज्ञान् मंत्र कुशलो मंत्रेषु परिनिष्ठितः ॥४-३२-२॥
न मे दुर् व्याहृतम् किंचित् न अपि मे दुर् अनुष्ठितम् ।लक्ष्मणो राघव भ्राता क्रुद्धः किम् इति चिंतये ॥४-३२-३॥
असुहृद्भिः मम अमित्रैः नित्यम् अन्तर दर्शिभिः ।मम दोषान् असंभूतान् श्रावितो राघवानुजः ॥४-३२-४॥
अत्र तावत् यथा बुद्धि सर्वैः एव यथा विधि ।भावस्य निश्चयः तावत् विज्ञेयो निपुणम् शनैः ॥४-३२-५॥
न खलु अस्ति मम त्रासो लक्ष्मणान् न अपि राघवात् ।मित्रम् तु अस्थान कुपितम् जनयति एव संभ्रमम् ॥४-३२-६॥
सर्वथा सुकरम् मित्रम् दुष्करम् प्रतिपालनम् ।अनित्यत्वात् तु चित्तानाम् प्रीतिः अल्पे अपि भिद्यते ॥४-३२-७॥
अतो निमित्तम् त्रस्तो अहम् रामेण तु महात्मना ।यन् मम उपकृतम् शक्यम् प्रतिकर्तुम् न तन् मया ॥४-३२-८॥
सुग्रीवेण एवम् उक्ते तु हनुमान् हरि पुंगवः ।उवाच स्वेन तर्केण मध्ये वानर मंत्रिणाम् ॥४-३२-९॥
सर्वथा न एतद् आश्चर्यम् यत् त्वम् हरिगणेश्वर ।न विस्मरसि सुस्निग्धम् उपकारम् कृतम् शुभम् ॥४-३२-१०॥
राघवेण तु वीरेण भयम् उत्सृज्य दूरतः ।त्वत् प्रिय अर्थम् हतो वाली शक्र तुल्य पराक्रमः ॥४-३२-११॥
सर्वथा प्रणयात् क्रुद्धो राघवो न अत्र संशयः ।भ्रातरम् संप्रहितवान् लक्ष्मणम् लक्ष्मि वर्धनम् ॥४-३२-१२॥
त्वम् प्रमत्तो न जानीषे कालम् कलविदाम् वर ।फुल्ल सप्त च्छद श्यामा प्रवृत्ता तु शरत् शिवा ॥४-३२-१३॥
निर्मल ग्रह नक्षत्रा द्यौः प्रनष्ट बलाहका ।प्रसन्नाः च दिशः सर्वाः सरितः च सरांसि च ॥४-३२-१४॥
प्राप्तम् उद्योग कालम् तु न अवैषि हरिपुंगव ।त्वम् प्रमत्त इति व्यक्तम् लक्ष्मणो अयम् इह आगतः ॥४-३२-१५॥
आर्तस्य हृत दारस्य परुषम् पुरुष अन्तरात् ।वचनम् मर्षणीयम् ते राघवस्य महात्मनः ॥४-३२-१६॥
कृत अपराधस्य हि ते न अन्यत् पश्यामि अहम् क्षमम् ।अंतरेण अंजलिम् बद्ध्वा लक्ष्मणस्य प्रसादनात् ॥४-३२-१७॥
नियुक्तैः मंत्रिभिः वाच्यो अवश्यम् पार्थिवो हितम् ।इत एव भयम् त्यक्त्वा ब्रवीमि अवधृतम् वचः ॥४-३२-१८॥
अभिक्रुद्धः समर्थो हि चापम् उद्यम्य राघवः ।स देव असुर गंधर्वम् वशे स्थापयितुम् जगत् ॥४-३२-१९॥
न स क्षमः कोपयितुम् यः प्रसाद्य पुनर् भवेत् ।पूर्व उपकारम् स्मरता कृतज्ञेन विशेषतः ॥४-३२-२०॥
तस्य मूर्ध्ना प्रणम्य त्वम् स पुत्रः स सुहृत् जनः ।राजन् तिष्ठ स्व समये भर्तुः भार्या इव तत् वशे ॥४-३२-२१॥
न राम रामानुज शासनम् त्वयाकपीन्द्र युक्तम् मनसा अपि अपोहितुम् ।मनो हि ते ज्ञास्यति मानुषम् बलम्स राघवस्य अस्य सुरेन्द्र वर्चसः ॥४-३२-२२॥
Navigation
- ← Previous: Kiṣkindhā-Kāṇḍa Sarga 31
- Next: Kiṣkindhā-Kāṇḍa Sarga 33 →
- Kiṣkindhā-Kāṇḍa sarga-index
- Vālmīki Rāmāyaṇa master-index
- /rama · the non-dual singularity
🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷