🪷 किष्किन्धाकाण्ड · Sarga 27
Kiṣkindhā-Kāṇḍa · The Book of Kiṣkindhā · Sarga 27 · 48 ślokas
Vālmīki Detail Source-Anchor Spine
This sarga page exposes the exact local source route, parent Kāṇḍa, Rāma janma proof anchors where applicable, and the wider Vālmīki/Rāma source spine.
Vālmīki 4.27local sarga route with all Sanskrit ślokasKiṣkindhā-Kāṇḍaparent Kāṇḍa sarga index/valmiki-ramayanamaster index for the 7 Kāṇḍas and 22,742 ślokasBāla 1.18Rāma-janma sarga and primary birth-spec anchorVālmīki 1.18.8first Rāma-janma astronomical śloka routeVālmīki 1.18.15closing verse of the janma-spec rangeVālmīki 2.26.9Bṛhaspati-Puṣya coronation-eve witness routeVālmīki 6.93.65war-window Krishna-pakṣa timing witnessVālmīki 6.103Rāvaṇa-vadha anchor doorway for the year+41 witness/ramaRāma-Krishna non-dual singularity and three-anchor proof surface/chart/ramapublished Rāma janma-kuṇḍalī output for the 1,626,102 BCE claimRāma janma dayreader-visible pañchāṅga/day output for the birth anchor/computational-moatSūrya-Siddhānta deep-time verification boundary/festival/rama-navamiCaitra Śukla Navamī festival mūrti-page/ramcharitamanasTulsidās bhakti voice of the same Rāma-līlāRāmopākhyānaVyāsa's Rāma-kathā inside the Mahābhārata/binduDiamond of Darśanas · Rāma/Krishna as one Bindu aperture/philosophyConstitutional Principles and Rāma-Krishna recognition
🪷 The Ślokas · canonical Devanāgarī Sanskrit yathārtha
अभिषिक्ते तु सुग्रीवे प्रविष्टे वानरे गुहाम् ।आजगाम सह भ्रात्रा रामः प्रस्रवणम् गिरिम् ॥४-२७-१॥
शार्दूल मृग संघुष्टम् सिंहैः भीम रवैः वृतम् ।नाना गुल्म लता गूढम् बहु पादप संकुलम् ॥४-२७-२॥
ऋक्ष वानर गोपुच्छैः मार्जारैः च निषेवितम् ।मेघ राशि निभम् शैलम् नित्यम् शुचिकरम् शिवम् ॥४-२७-३॥
तस्य शैलस्य शिखरे महतीम् आयताम् गुहाम् ।प्रत्यगृह्णीत वासार्थम् रामः सौमित्रिणा सह ॥४-२७-४॥
कृत्वा च समयम् रामः सुग्रीवेण सह अनघ ।काल युक्तम् महद् वाक्यम् उवाच रघुनन्दन ॥४-२७-५॥
विनीतम् भ्रातरम् भ्राता लक्ष्मणम् लक्ष्मि वर्धनम् ।इयम् गिरि गुहा रम्या विशाला युक्त मारुता ॥४-२७-६॥
अस्याम् वस्त्याम सौमित्रे वर्ष रात्रम् अरिंदम ।गिरि शृंगम् इदम् रम्यम् उत्तमम् पार्थिवात्मज ॥४-२७-७॥
श्वेताभिः कृष्ण ताम्राभिः शिलाभिः उपशोभितम् ।नाना धातु समाकीर्णम् नदी दर्दुर संयुतम् ॥४-२७-८॥
विविधैः वृक्ष षण्डैः च चारु चित्र लता युतम् ।नाना विहग संघुष्टम् मयूर वर नादितम् ॥४-२७-९॥
मालती कुंद गुल्मैः च सिंदुवारैः शिरीषकैः ।कदंब अर्जुन सर्जैः च पुष्पितैः उपशोभितम् ॥४-२७-१०॥
इयम् च नलिनि रम्या फुल्ल पंकज मण्डितैः ।न अति दूरे गुहाया नौ भविष्यति नृपात्मज ॥४-२७-११॥
प्राग् उदक् प्रवणे देशे गुहा साधु भविष्यति ।पश्चात् च एव उन्नता सौम्य निवाते अयम् भविष्यति ॥४-२७-१२॥
गुहा द्वारे च सौमित्रे शिला सम तला शिवा ।कृष्णा च एव आयता चैव भिन्न अंजन चय उपममा ॥४-२७-१३॥
गिरि शृंगम् इदम् तात पश्य च उत्तरतः सुभम् ।भिन्न अंजन चय आकारम् अंभोधरम् इव उदितम् ॥४-२७-१४॥
दक्षिणस्याम् अपि दिश स्थितम् श्वेतम् इव अंबरम् ।कैलास शिखर प्रख्यम् नाना धातु विराजितम् ॥४-२७-१५॥
प्राचीन वाहिनीम् चैव नदीम् भृशम् अकर्दमम् ।गुहायाः परतः पश्य त्रिकूटे जह्नवीम् इव ॥४-२७-१६॥
चन्दनैः तिलकैः सालैः तमालैः अतिमुक्तकैः ।पद्मकैः सरलैः चैव अशोकैः चैव शोभितम् ॥४-२७-१७॥
वानीरैः तिमिदैः चैव वकुलैः केतकैः अपि ।हिन्तालैः तिनिशैः नीपैः वेतसैः कृतमालकैः ॥४-२७-१८॥
तीरजैः शोभिता भाति नाना रूपैः ततः ततः ।वसन आभरण उपेत प्रमद एव अभ्यलंकृता ॥४-२७-१९॥
शतशः पक्षि सन्घैः च नाना नाद विनादिता ।एकैकम् अनुरक्तैः च चक्रवाकैः अलंकृता ॥४-२७-२०॥
पुलिनैः अति रम्यैः च हंस सारस सेविता ।प्रहसंती इव भाति एषा नारी रत्न विभूषिता ॥४-२७-२१॥
क्वचित् नीलोत्पलैः च्छन्न भाति रक्तोत्पलैः क्वचित् ।क्वचित् भाति शुक्लैः च दिव्यैः कुमुद कुड्मलैः ॥४-२७-२२॥
पारिप्लव शतैः जुष्टा बर्हि क्रौन्च विनादिता ।रमणिया नदी सौम्य मुनि संघ निषेविता ॥४-२७-२३॥
पश्य चंदन वृक्षाणाम् पंक्ती सुरुचिरा इव ।ककुभानम् च दृश्यन्ते मनसा इव उदिताः समम् ॥४-२७-२४॥
अहो सुरमणीयो अयम् देशः शत्रु निषूदन ।दृढम् रंस्याव सौमित्रे साधु अत्र निवसावहे ॥४-२७-२५॥
इतः च न अति दूरे सा किष्किंधा चित्र कानना ।सुग्रीवस्य पुरी रम्या भविष्यति नृपात्मज ॥४-२७-२६॥
गीत वादित्र निर्घोषः श्रूयते जयताम् वर ।नदताम् वानराणाम् च मृदंग आडंबरैः सह ॥४-२७-२७॥
लब्ध्वा भार्याम् कपिवरः प्राप्य राज्यम् सुहृत् वृतः ।ध्रुवम् नंदति सुग्रीवः संप्राप्य महतीम् श्रियम् ॥४-२७-२८॥
इति उक्त्वा न्यवसत् तत्र राघवः सह लक्ष्मणः ।बहु दृश्य दरी कुंजे तस्मिन् प्रस्रवणे गिरौ ॥४-२७-२९॥
सुसुखे हि बहु द्रव्ये तस्मिन् हि धरणी धरे ।वसतः तस्य रामस्य रतिः अल्पा अपि न अभवत् ॥४-२७-३०॥
हृताम् हि भार्याम् स्मरतः प्राणेभ्यो अपि गरीयसीम् ।उदय अभ्युदितम् दृष्ट्वा शशांकम् च विशेषतः ॥४-२७-३१॥
आविवेश न तम् निद्रा निशासु शयनम् गतम् ।तत् समुत्थेन शोकेन बाष्प उपहत चेतसम् ॥४-२७-३२॥
तम् शोचमानम् काकुत्स्थम् नित्यम् शोक परायणम् ।तुल्य दुःखो अब्रवीद् भ्राता लक्ष्मणो अनुनयम् वचः ॥४-२७-३३॥
अलम् वीर व्यथाम् गत्वा न त्वम् शोचितुम् अर्हसि ।शोचतो हि अवसीदन्ति सर्व अर्था विदितम् हि ते ॥४-२७-३४॥
भवान् क्रिया परो लोके भवान् देव परायणः ।आस्तिको धर्म शीलः च व्यवसायी च राघव ॥४-२७-३५॥
न हि अव्यवसितः शत्रुम् राक्षसम् तम् विशेषतः ।समर्थः त्वम् रणे हन्तुम् विक्रमैः जिह्म कारिणम् ॥४-२७-३६॥
समुन्मूलय शोकम् त्वम् व्यवसायम् स्थिरी कुरु ।ततः सपरिवारम् तम् राक्षसम् हन्तुम् अर्हसि ॥४-२७-३७॥
पृथिवीम् अपि काकुत्स्थ ससागर वन अचलाम् ।परिवर्तयितुम् शक्तः किम् पुनः तम् हि रावणम् ॥४-२७-३८॥
शरत् कालम् प्रतीक्षस्व प्रावृट् कालो अयम् आगतः ।ततः स राष्ट्रम् स गणाम् रावणम् तम् वधिष्यसि ॥४-२७-३९॥
अहम् तु खलु ते वीर्यम् प्रसुप्तम् प्रतिबोधये ।दीप्तैः आहुतिभिः काले भस्म चन्नम् इव अनलम् ॥४-२७-४०॥
लक्ष्मणस्य हि तद् वाक्यम् प्रतिपूज्य हितम् शुभम् ।राघवः सुहृदम् स्निग्धम् इदम् वचनम् अब्रवीत् ॥४-२७-४१॥
वाच्यम् यद् अनुरक्तेन स्निग्धेन च हितेन च ।सत्य विक्रम युक्तेन तद् उक्तम् लक्ष्मण त्वया ॥४-२७-४२॥
एष शोकः परित्यक्तः सर्व कार्य अवसादकः ।विक्रमेषु अप्रतिहतम् तेजः प्रोत्साहयामि अहम् ॥४-२७-४३॥
शरत् कालम् प्रतीक्षिष्ये स्थितो अस्मि वचने तव ।सुग्रीवस्य नदीनाम् च प्रसादम् अनुपालयन् ॥४-२७-४४॥
उपकारेण विरः तु प्रतिकारेण युज्यते ।अकृतज्ञो अप्रतिकृतो हन्ति सत्ववताम् मनः ॥४-२७-४५॥
तत् एव युक्तम् प्रणिधाय लक्ष्मणःकृत अंजलि तत् प्रतिपूजय भाषितम् ।उवाच रामम् स्वभिराम दर्शनम्प्रदर्शयन् दर्शनम् आत्मनः शुभम् ॥४-२७-४६॥
यथोक्तम् एतत् तव सर्वम् ईप्सितम्नरेन्द्र कर्ता न चिरात् तु वानर ।शरत् प्रतीक्षः क्षमताम् इमम् भवान्जल प्रपातम् रिपु निग्रहे धृतः ॥४-२७-४७॥
नियम्य कोपम् प्रतिपाल्यताम् शरत्क्षमस्व मासाम् चतुरो मया सह ।वस अचले अस्मिन् मृग राज सेवितेसंवर्तयन् शत्रु वधे समर्थः ॥४-२७-४८॥
Navigation
- ← Previous: Kiṣkindhā-Kāṇḍa Sarga 26
- Next: Kiṣkindhā-Kāṇḍa Sarga 28 →
- Kiṣkindhā-Kāṇḍa sarga-index
- Vālmīki Rāmāyaṇa master-index
- /rama · the non-dual singularity
🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷