🪷 किष्किन्धाकाण्ड · Sarga 26

Kiṣkindhā-Kāṇḍa · The Book of Kiṣkindhā · Sarga 26 · 42 ślokas

Vālmīki Detail Source-Anchor Spine

This sarga page exposes the exact local source route, parent Kāṇḍa, Rāma janma proof anchors where applicable, and the wider Vālmīki/Rāma source spine.

Vālmīki 4.26local sarga route with all Sanskrit ślokasKiṣkindhā-Kāṇḍaparent Kāṇḍa sarga index/valmiki-ramayanamaster index for the 7 Kāṇḍas and 22,742 ślokasBāla 1.18Rāma-janma sarga and primary birth-spec anchorVālmīki 1.18.8first Rāma-janma astronomical śloka routeVālmīki 1.18.15closing verse of the janma-spec rangeVālmīki 2.26.9Bṛhaspati-Puṣya coronation-eve witness routeVālmīki 6.93.65war-window Krishna-pakṣa timing witnessVālmīki 6.103Rāvaṇa-vadha anchor doorway for the year+41 witness/ramaRāma-Krishna non-dual singularity and three-anchor proof surface/chart/ramapublished Rāma janma-kuṇḍalī output for the 1,626,102 BCE claimRāma janma dayreader-visible pañchāṅga/day output for the birth anchor/computational-moatSūrya-Siddhānta deep-time verification boundary/festival/rama-navamiCaitra Śukla Navamī festival mūrti-page/ramcharitamanasTulsidās bhakti voice of the same Rāma-līlāRāmopākhyānaVyāsa's Rāma-kathā inside the Mahābhārata/binduDiamond of Darśanas · Rāma/Krishna as one Bindu aperture/philosophyConstitutional Principles and Rāma-Krishna recognition

🪷 The Ślokas · canonical Devanāgarī Sanskrit yathārtha

Vālmīki 4.26.1
ततः शोक अभिसंतप्तम् सुग्रीवम् क्लिन्न वासनम् ।शाखा मृग महामात्राः परिवार्य उपतस्थिरे ॥४-२६-१॥
Vālmīki 4.26.2
अभिगम्य महाबाहुम् रामम् अक्लिष्ट कारिणम् ।स्थिताः प्रांजलयः सर्वे पितामहम् इव ऋषयः ॥४-२६-२॥
Vālmīki 4.26.3
ततः कांचन शैल आभः तरुण अर्क निभ आननः ।अब्रवीत् प्रांजलिर् वाक्यम् हनुमान् मारुत आत्मजः ॥४-२६-३॥
Vālmīki 4.26.4
भवत् प्रसादात् काकुत्स्थ पितृ पैतामहम् महत् ।वानराणाम् सुदंष्ट्राणाम् संपन्न बलशालिनाम् ॥४-२६-४॥
Vālmīki 4.26.5
महात्मानाम् सुदुष्प्रापम् प्राप्तम् राज्यम् इदम् प्रभो ।भवता समनुज्ञातः प्रविश्य नगरम् शुभम् ॥४-२६-५॥
Vālmīki 4.26.6
संविधास्यति कार्याणि सर्वाणि ससुहृत् गणः।स्नातो अयम् विविधैर् गन्धैर् औषधैः च यथा विधि ॥४-२६-६॥
Vālmīki 4.26.7
अर्चयिष्यति माल्यैः च रत्नैः च त्वाम् विशेषतः ।इमाम् गिरि गुहाम् रम्याम् अभिगन्तुम् त्वम् अर्हसि ॥४-२६-७॥
Vālmīki 4.26.8
कुरुष्व स्वामि संबन्धम् वानरान् संप्रहर्षयन् ।एवम् उक्तो हनुमता राघवः पर वीरहा ॥४-२६-८॥
Vālmīki 4.26.9
प्रत्युवाच हनूमन्तम् बुद्धिमान् वाक्य कोविदः ।चतुर्दश समाः सौम्य ग्रामम् वा यदि वा पुरम् ॥४-२६-९॥
Vālmīki 4.26.10
न प्रवेक्ष्यामि हनुमन् पितुर् निर्देश पालकः ।सुसमृद्धाम् गुहाम् दिव्याम् सुग्रीवो वानरर्षभः ॥४-२६-१०॥
Vālmīki 4.26.11
प्रविष्टो विधिवत् वीरः क्षिप्रम् राज्ये अभिषिच्यताम् ।एवम् उक्त्वा हनूमन्तम् रामः सुग्रीवम् अब्रवीत् ॥४-२६-११॥
Vālmīki 4.26.12
वृत्तज्ञो वृत्त संपन्नम् उदार बल विक्रमम् ।इमम् अपि अंगदम् वीरम् यौवराज्ये अभिषेचय ॥४-२६-१२॥
Vālmīki 4.26.13
ज्येष्ठस्य हि सुतो ज्येष्ठः सदृशो विक्रमेण च ।अंगदो अयम् अदीनात्मा यौवराज्यस्य भाजनम् ॥४-२६-१३॥
Vālmīki 4.26.14
पूर्वो अयम् वार्षिको मासः श्रावणः सलिल आगमः ।प्रवृत्ताः सौम्य चत्वारो मासा वार्षिक संज्ञिताः ॥४-२६-१४॥
Vālmīki 4.26.15
न अयम् उद्योग समयः प्रविश त्वम् पुरीम् शुभाम् ।अस्मिन् वत्स्यामि अहम् सौम्य पर्वते सह लक्ष्मणः ॥४-२६-१५॥
Vālmīki 4.26.16
इयम् गिरि गुहा रम्या विशाला युक्त मारुता ।प्रभूत सलिला सौम्य प्रभूत कमल उत्पला ॥४-२६-१६॥
Vālmīki 4.26.17
कार्तिके समनुप्राप्ते त्वम् रावण वधे यत ।एष नः समयः सौम्य प्रविश त्वम् स्वम् आलयम् ॥४-२६-१७॥
Vālmīki 4.26.18
अभिषिंचस्व राज्ये च सुहृदः संप्रहर्षय ।इति राम अभ्यनुज्ञातः सुग्रीवो वानरर्षभः ॥४-२६-१८॥
Vālmīki 4.26.19
प्रविवेश पुरीम् रम्याम् किष्किंधाम् वालि पालिताम् ।तम् वानर सहस्राणि प्रविष्टम् वानर ईश्वरम् ॥४-२६-१९॥
Vālmīki 4.26.20
अभिवार्य प्रहृष्टानि सर्वतः प्लवगेश्वरम् ।ततः प्रकृतयः सर्वा दृष्ट्वा हरि गण ईश्वरम् ॥४-२६-२०॥
Vālmīki 4.26.21
प्रणम्य मूर्ध्ना पतिता वसुधायाम् समाहिताः ।सुग्रीवः प्रकृतीः सर्वाः संभाष्य उत्थाप्य वीर्यवान् ॥४-२६-२१॥
Vālmīki 4.26.22
भ्रातुर् अंतः पुरम् सौम्यम् प्रविवेश महाबलः ।प्रविष्टम् भीम विक्रांतम् सुग्रीवम् वानरर्षभम् ॥४-२६-२२॥
Vālmīki 4.26.23
अभ्यषिंचंत सुहृदः सहस्राक्षम् इव अमराः ।तस्य पाण्डुरम् आजह्रुः छत्रम् हेम परिष्कृतम् ॥४-२६-२३॥
Vālmīki 4.26.24
शुक्ले च वाल व्यजने हेम दण्डे यशस्करे ।तथा सर्वाणि रत्नानि सर्व बीज औषधानि च ॥४-२६-२४॥
Vālmīki 4.26.25
स क्षीराणाम् च वृक्षाणाम् प्ररोहान् कुसुमानि च ।शुक्लानि चैव वस्त्राणि श्वेतम् चैव अनुलेपनम् ॥४-२६-२५॥
Vālmīki 4.26.26
सुगंधीनि च माल्यानि स्थलजानि अंबुजानि च ।चन्दनानि च दिव्यानि गन्धाम् च विविधान् बहून् ॥४-२६-२६॥
Vālmīki 4.26.27
अक्षतम् जात रूपम् च प्रियंगु मधु सर्पिषी ।दधि चर्म च वैयाघ्रम् परार्ध्ये च अपि उपानहौ ॥४-२६-२७॥
Vālmīki 4.26.28
समालंभनम् आदाय गोरोचनम् मनः शिलाम् ।आजग्मुः तत्र मुदिता वराः कन्याः च षोडश ॥४-२६-२८॥
Vālmīki 4.26.29
ततः ते वानर श्रेष्ठम् अभिषेक्तुम् यथा विधि ।रत्नैर् वस्त्रैः च भक्ष्यैः च तोषयित्वा द्विजर्षभान् ॥४-२६-२९॥
Vālmīki 4.26.30
ततः कुश परिस्तीर्णम् समिद्धम् जात वेदसम् ।मंत्र पूतेन हविषा हुत्वा मंत्रविदो जनाः ॥४-२६-३०॥
Vālmīki 4.26.31
ततो हेम प्रतिष्ठाने वर आस्तरण संवृते ।प्रासाद शिखरे रम्ये चित्र माल्य उपशोभिते ॥४-२६-३१॥
Vālmīki 4.26.32
प्राङ्मुखम् विधिवत् मंत्रैः स्थापयित्वा वर आसने ।नदी नदेभ्यः संहृत्य तीर्थेभ्यः च समंततः ॥४-२६-३२॥
Vālmīki 4.26.33
आहृत्य च समुद्रेभ्यः सर्वेभ्यो वानरर्षभाः ।अपः कनक कुंभेषु निधाय विमलम् जलम् ॥४-२६-३३॥
Vālmīki 4.26.34
शुभैः वृषभ शृन्गैः च कलशैः च एव कांचनैः ।शास्त्र दृष्टेन विधिना महर्षि विहितेन च ॥४-२६-३४॥
Vālmīki 4.26.35
गजो गवाक्षो गवयः शरभो गंधमादनः ।मैन्दः च द्विविदः चैव हनूमान् जांबवान् तथा ॥४-२६-३५॥
Vālmīki 4.26.36
अभ्यषिंचंत सुग्रीवम् प्रसन्नेन सुगंधिना ।सलिलेन सहस्राक्षम् वसवो वासवम् यथा ॥४-२६-३६॥
Vālmīki 4.26.37
अभिषिक्ते तु सुग्रीवे सर्वे वानर पुंगवाः ।प्रचुक्रुशुर् महात्मानो हृष्टाः शत सहस्रशः ॥४-२६-३७॥
Vālmīki 4.26.38
रामस्य तु वचः कुर्वन् सुग्रीवो हरि पुंगवः ।अंगदम् संपरिष्वज्य यौवराज्ये अभिषेचयत् ॥४-२६-३८॥
Vālmīki 4.26.39
अंगदे च अभिषिक्ते तु सानुक्रोशाः प्लवंगमाः ।साधु साधु इति सुग्रीवम् महात्मानो हि अपूजयन् ॥४-२६-३९॥
Vālmīki 4.26.40
रामम् च एव महात्मानम् लक्ष्मणम् च पुनः पुनः ।प्रीताः च तुष्टुवुः सर्वे तादृशे तत्र वर्तिनि ॥४-२६-४०॥
Vālmīki 4.26.41
हृष्ट पुष्ट जन आकीर्णा पताका ध्वज शोभिता ।बभूव नगरी रम्या क्षिकिंधा गिरि गह्वरे ॥४-२६-४१॥
Vālmīki 4.26.42
निवेद्य रामाय तदा महात्मनेमहा अभिषेकम् कपि वाहनी पतिः ।रुमाम् च भार्याम् उपलभ्य वीर्यवान्अवाप राज्यम् त्रिदश अधिपो यथा ॥४-२६-४२॥

Navigation

🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷