🪷 किष्किन्धाकाण्ड · Sarga 25

Kiṣkindhā-Kāṇḍa · The Book of Kiṣkindhā · Sarga 25 · 54 ślokas

Vālmīki Detail Source-Anchor Spine

This sarga page exposes the exact local source route, parent Kāṇḍa, Rāma janma proof anchors where applicable, and the wider Vālmīki/Rāma source spine.

Vālmīki 4.25local sarga route with all Sanskrit ślokasKiṣkindhā-Kāṇḍaparent Kāṇḍa sarga index/valmiki-ramayanamaster index for the 7 Kāṇḍas and 22,742 ślokasBāla 1.18Rāma-janma sarga and primary birth-spec anchorVālmīki 1.18.8first Rāma-janma astronomical śloka routeVālmīki 1.18.15closing verse of the janma-spec rangeVālmīki 2.26.9Bṛhaspati-Puṣya coronation-eve witness routeVālmīki 6.93.65war-window Krishna-pakṣa timing witnessVālmīki 6.103Rāvaṇa-vadha anchor doorway for the year+41 witness/ramaRāma-Krishna non-dual singularity and three-anchor proof surface/chart/ramapublished Rāma janma-kuṇḍalī output for the 1,626,102 BCE claimRāma janma dayreader-visible pañchāṅga/day output for the birth anchor/computational-moatSūrya-Siddhānta deep-time verification boundary/festival/rama-navamiCaitra Śukla Navamī festival mūrti-page/ramcharitamanasTulsidās bhakti voice of the same Rāma-līlāRāmopākhyānaVyāsa's Rāma-kathā inside the Mahābhārata/binduDiamond of Darśanas · Rāma/Krishna as one Bindu aperture/philosophyConstitutional Principles and Rāma-Krishna recognition

🪷 The Ślokas · canonical Devanāgarī Sanskrit yathārtha

Vālmīki 4.25.1
स सुग्रीवम् च ताराम् च स अंगदाम् सह लक्ष्मणः ।समान शोकः काकुत्स्थः सांत्वयन् इदम् अब्रवीत् ॥४-२५-१॥
Vālmīki 4.25.2
न शोक परितापेन श्रेयसा युज्यते मृतः ।यद् अत्र अनंतरम् कार्यम् तत् समाधातुम् अर्हथ ॥४-२५-२॥
Vālmīki 4.25.3
लोक वृत्तम् अनुष्ठेयम् कृतम् वो बाष्प मोक्षणम् ।न कालाद् उत्तरम् किंचित् कर्म शक्यम् उपासितुम् ॥४-२५-३॥
Vālmīki 4.25.4
नियतिः कारणम् लोके नियतिः कर्म साधनम् ।नियतिः सर्व भूतानाम् नियोगेषु इह कारणम् ॥४-२५-४॥
Vālmīki 4.25.5
न कर्ता कस्यचित् कश्चित् नियोगे च अपि न ईश्वरः ।स्वभावे वर्तते लोकः तस्य कालः परायणम् ॥४-२५-५॥
Vālmīki 4.25.6
न कालः कालम् अत्येति न कालः परिहीयते ।स्वभावम् च समासाद्य न कश्चित् अतिवर्तते ॥४-२५-६॥
Vālmīki 4.25.7
न कालस्य अस्ति बंधुत्वम् न हेतुर् न पराक्रमः ।न मित्र ज्ञाति संबन्धः कारणम् न आत्मनो वशः ॥४-२५-७॥
Vālmīki 4.25.8
किम् तु काल परीणामो द्रष्टव्यः साधु पश्यता ।धर्मः च अर्थः च कामः च कालक्रम समाहिताः ॥४-२५-८॥
Vālmīki 4.25.9
इतः स्वाम् प्रकृतिम् वाली गतः प्राप्तः क्रिया फलम् ।साम दान अर्थ संयोगैः पवित्रम् प्लवग ईश्वर ॥४-२५-९॥
Vālmīki 4.25.10
स्व धर्मस्य च संयोगात् जितः तेन महात्मना ।स्वर्गः परिगृहीतः च प्राणान् अपरिरक्षता ॥४-२५-१०॥
Vālmīki 4.25.11
एषा वै नियतिः श्रेष्ठा याम् गतो हरि यूथपः ।तत् अलम् परितापेन प्राप्त कालम् उपास्यताम् ॥४-२५-११॥
Vālmīki 4.25.12
वचन अन्ते तु रामस्य लक्ष्मणः पर वीर हा ।अवदत् प्रश्रितम् वाक्यम् सुग्रीवम् गत चेतसम् ॥४-२५-१२॥
Vālmīki 4.25.13
कुरु त्वम् अस्य सुग्रीव प्रेत कार्यम् अनंतरम् ।तारा अंगदाभ्याम् सहितो वालिनो दहनम् प्रति ॥४-२५-१३॥
Vālmīki 4.25.14
समाज्ञापय काष्ठानि शुष्काणि च बहूनि च ।चन्दनानि च दिव्यानि वालि संस्कार कारणात् ॥४-२५-१४॥
Vālmīki 4.25.15
समाश्वासय दीनम् त्वम् अंगदम् दीन चेतसम् ।मा भूः बालिश बुद्धिः त्वम् त्वत् अधीनम् इदम् पुरम् ॥४-२५-१५॥
Vālmīki 4.25.16
अंगदः तु आनयेत् माल्यम् वस्त्राणि विविधानि च ।घृतम् तैलम् अथो गन्धान् यत् च अत्र समनंतरम् ॥४-२५-१६॥
Vālmīki 4.25.17
त्वम् तार शिबिकाम् शीघ्रम् आदाय आगच्छ संभ्रमात् ।त्वरा गुणवती युक्ता हि अस्मिन् काले विशेषतः ॥४-२५-१७॥
Vālmīki 4.25.18
सज्जी भवन्तु प्लवगाः शिबिक वाहन उचिताः ।समर्था बलिनः चैव निर्हरिष्यन्ति वालिनम् ॥४-२५-१८॥
Vālmīki 4.25.19
एवम् उक्त्वा तु सुग्रीवम् सुमित्र आनन्द वर्धनः ।तस्थौ भ्रातृ समीपस्थो लक्ष्मणः पर वीरहा ॥४-२५-१९॥
Vālmīki 4.25.20
लक्ष्मणस्य वचः श्रुत्वा तारः संभ्रान्त मानसः ।प्रविवेश गुहाम् शीघ्रम् शिबिका आसक्त मानसः ॥४-२५-२०॥
Vālmīki 4.25.21
आदाय शिबिकाम् तारः स तु पर्यापयत् पुनः ।वानरैः उह्यमानाम् ताम् शूरैः उद्वहन उचितैः ॥४-२५-२१॥
Vālmīki 4.25.22
दिव्याम् भद्र आसन युताम् शिबिकाम् स्यंदन उपमम् ।पक्षि कर्मभिः आचित्राम् द्रुम कर्म विभूषिताम् ॥४-२५-२२॥
Vālmīki 4.25.23
अचिताम् चित्र पत्तीभिः सुनिविष्टाम् समंततः ।विमानम् इव सिद्धानाम् जाल वात आयान आयुताम् ॥४-२५-२३॥
Vālmīki 4.25.24
सुनियुक्तानाम् विशालाम् च सुकृताम् शिल्पिभिः कृतात् ।दारु पर्वतकोपेताम् चारु कर्म परिष्कृताम् ॥४-२५-२४॥
Vālmīki 4.25.25
वर आभरण हारैः च चित्र माल्य उपशोभिताम् ।गुहागहन संच्छन्नाम् रक्त चन्दन भूषिताम् ॥४-२५-२५॥
Vālmīki 4.25.26
पुष्प ओघैः समभिच्छन्नाम् पद्म मालाभिः एव च ।तरुण आदित्य वर्णाभिः भ्राजमानभिः आवृताम् ॥४-२५-२६॥
Vālmīki 4.25.27
ईदृशी शिबिकाम् दृष्ट्वा रमो लक्ष्मणम् अब्रवीत् ।क्षिप्रम् विनीयताम् वली प्रेत कार्यम् विधीयताम् ॥४-२५-२७॥
Vālmīki 4.25.28
ततो वालिनम् उद्यम्य सुग्रीवः शिबिकाम् तदा ।आरोपयत विक्रोशन् अंगदेन सह एव तु ॥४-२५-२८॥
Vālmīki 4.25.29
आरोप्य शिबिकाम् चैव वालिनम् गत जीवितम् ।अलंकारैः च विविधैः माल्यैः वस्त्रैः च भूषितम् ॥४-२५-२९॥
Vālmīki 4.25.30
आज्ञापयत् तदा राजा सुग्रीवः प्लवग ईश्वरः ।और्ध्व देहिकम् आर्यस्य क्रियताम् अनुरूपतः ॥४-२५-३०॥
Vālmīki 4.25.31
विश्राणयन्तो रत्नानि विविधानि बहूनि च ।अग्रतः प्लवगा यान्तु शिबिका तद् अनंतरम् ॥४-२५-३१॥
Vālmīki 4.25.32
राज्ञाम् ऋद्धि विशेषा हि दृश्यन्ते भुवि यादृशाः ।तादृशैः इह कुर्वन्तु वानरा भ्रतृउ सत् क्रियाम् ॥४-२५-३२॥
Vālmīki 4.25.33
तादृशम् वालिनः क्षिप्रम् प्राकुर्वन् और्ध्वदैहिकम् ।अंगदम् परिरभ्य आशु तार प्रभृतयः तथा ॥४-२५-३३॥
Vālmīki 4.25.34
क्रोशन्तः प्रययुः सर्वे वानरा हत बान्धवाः ।ततः प्रणिहिताः सर्वा वानर्यो अस्य वशानुगाः ॥४-२५-३४॥
Vālmīki 4.25.35
चुक्रुशुः वीर वीर इति भूयः क्रोशन्ती ताः प्रियम् ।तारा प्रभृतयः सर्वा वानर्यो हत बान्धव ॥४-२५-३५॥
Vālmīki 4.25.36
अनुजग्मुः च भर्तारम् क्रोशंत्यः करुण स्वनाः ।तासाम् रुदित शब्देन वानरीणाम् वन अंतरे ॥४-२५-३६॥
Vālmīki 4.25.37
वनानि गिरयः चैव विक्रोशंति इव सर्वतः ।पुलिने गिरि नद्याः तु विविक्ते जल संवृते ॥४-२५-३७॥
Vālmīki 4.25.38
चिताम् चक्रुः सुबहवो वानरा वन चारिणः ।अवरोप्य ततः स्कंधात् शिबिकाम् वानरोत्तमाः ॥४-२५-३८॥
Vālmīki 4.25.39
तस्थुः एकांतम् आश्रित्य सर्वे शोक परायणाः ।ततः तारा पतिम् दृष्ट्वा शिबिका तल शायिनम् ॥४-२५-३९॥
Vālmīki 4.25.40
आरोप्य अंके शिरः तस्य विललाप सुदुःखिता ।हा वानर महाराज हा नाथ माम् वत्सल ॥४-२५-४०॥
Vālmīki 4.25.41
हा महार्हः महाबाहो हा मम प्रिय पश्य माम् ।जनम् न पश्यसि इमम् त्वम् कस्मात् शोक अभिपीडितम् ॥४-२५-४१॥
Vālmīki 4.25.42
प्रहृष्टम् इह ते वक्त्रम् गत असोः अपि मानद ।अस्त अर्क सम वर्णम् च दृश्यते जीवतो यथा ॥४-२५-४२॥
Vālmīki 4.25.43
एष त्वाम् राम रूपेण कालः कर्षति वानर ।येन स्म विधवाः सर्वाः कृता एक इषुणा रणे ॥४-२५-४३॥
Vālmīki 4.25.44
इमाः ताः तव राजेन्द्र वानर्यो अप्लवगाः तव।पादैः विकृष्टम् अध्वानम् आगताः किम् न बुध्यसे ॥४-२५-४४॥
Vālmīki 4.25.45
तव इष्टा ननु चैव इमा भार्याः चन्द्र निभ आननाः ।इदानीम् न ईक्षसे कस्मात् सुग्रीवम् प्लवग ईश्वरम् ॥४-२५-४५॥
Vālmīki 4.25.46
एते हि सचिवा राजन् तार प्रभृतयः तव ।पुर वासि जनः च अयम् परिवार्य विषीदति ॥४-२५-४६॥
Vālmīki 4.25.47
विसर्जय एनान् सचिवान् यथा उचितम् अरिन्दम ।ततः क्रीडामहे सर्वा वनेषु मदनोत्कटाः ॥४-२५-४७॥
Vālmīki 4.25.48
एवम् विलपतीम् ताराम् पति शोक परीवृताम् ।उत्थापयन्ति स्म तदा वानर्यः शोक कर्शिताः ॥४-२५-४८॥
Vālmīki 4.25.49
सुग्रीवेण ततः सार्धम् अंगदः पितरम् रुदन् ।चिताम् आरोपयामास शोकेन अभिप्लुत इन्द्रियः ॥४-२५-४९॥
Vālmīki 4.25.50
ततो अग्निम् विधिवत् दत्त्वा सो अपसव्यम् चकार ह ।पितरम् दीर्घम् अध्वानम् प्रस्थितम् व्याकुल इन्द्रियः ॥४-२५-५०॥
Vālmīki 4.25.51
संस्कृत्य वालिनम् तम् तु विधिवत् प्लवगर्षभाः ।आजग्मुः उदकम् कर्तुम् नदीम् शुभ जलाम् शिवाम् ॥४-२५-५१॥
Vālmīki 4.25.52
ततः ते सहिताः तत्र हि सः अंगदम् स्थाप्य च अग्रतः ।सुग्रीव तारा सहिताः सिषिचुः वानरा जलम् ॥४-२५-५२॥
Vālmīki 4.25.53
सुग्रीवेण एव दीनेन दीनो भूत्वा महाबलः ।समान शोकः काकुत्स्थः प्रेत कार्याणि अकारयत् ॥४-२५-५३॥
Vālmīki 4.25.54
ततो अथ तम् वालिनम् अग्र्य पौरुषम्प्रकाशम् इक्ष्वाकु वर इषुणा हतम् ।प्रदीप्य दीप्त अग्नि सम ओजसम् तदास लक्ष्मणम् रामम् उपेयवान् हरिः ॥४-२५-५४॥

Navigation

🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷