🪷 किष्किन्धाकाण्ड · Sarga 14
Kiṣkindhā-Kāṇḍa · The Book of Kiṣkindhā · Sarga 14 · 22 ślokas
Vālmīki Detail Source-Anchor Spine
This sarga page exposes the exact local source route, parent Kāṇḍa, Rāma janma proof anchors where applicable, and the wider Vālmīki/Rāma source spine.
Vālmīki 4.14local sarga route with all Sanskrit ślokasKiṣkindhā-Kāṇḍaparent Kāṇḍa sarga index/valmiki-ramayanamaster index for the 7 Kāṇḍas and 22,742 ślokasBāla 1.18Rāma-janma sarga and primary birth-spec anchorVālmīki 1.18.8first Rāma-janma astronomical śloka routeVālmīki 1.18.15closing verse of the janma-spec rangeVālmīki 2.26.9Bṛhaspati-Puṣya coronation-eve witness routeVālmīki 6.93.65war-window Krishna-pakṣa timing witnessVālmīki 6.103Rāvaṇa-vadha anchor doorway for the year+41 witness/ramaRāma-Krishna non-dual singularity and three-anchor proof surface/chart/ramapublished Rāma janma-kuṇḍalī output for the 1,626,102 BCE claimRāma janma dayreader-visible pañchāṅga/day output for the birth anchor/computational-moatSūrya-Siddhānta deep-time verification boundary/festival/rama-navamiCaitra Śukla Navamī festival mūrti-page/ramcharitamanasTulsidās bhakti voice of the same Rāma-līlāRāmopākhyānaVyāsa's Rāma-kathā inside the Mahābhārata/binduDiamond of Darśanas · Rāma/Krishna as one Bindu aperture/philosophyConstitutional Principles and Rāma-Krishna recognition
🪷 The Ślokas · canonical Devanāgarī Sanskrit yathārtha
सर्वे ते त्वरितम् गत्वा किष्किन्धाम् वालिनः पालिताम् ।वृक्षैर् आत्मानम् आवृत्य व्यतिष्ठन् गहने वने ॥४-१४-१॥
विसार्य सर्वतो दृष्टिम् कानने कानन प्रियः ।सुग्रीवो विपुल ग्रीवः क्रोधम् आहारयद् भृशम् ॥४-१४-२॥
ततः तु निनदम् घोरम् कृत्वा युद्धाय च आह्वयत् ।परिवारैः परिवृतो नादैर् भिन्दन् इव अंबरम् ॥४-१४-३॥
गर्जन् इव महामेघो वायु वेग पुरस्सरः ।अथ बालार्क सदृशो दृप्त सिम्ह गतिः ततः ॥४-१४-४॥
दृष्ट्वा रामम् क्रिया दक्षम् सुग्रीवो वाक्यम् अब्रवीत् ।हरि वागुरया व्याप्तम् तप्त कांचन तोरणाम् ॥४-१४-५॥
प्राप्ताः स्म ध्वज यंत्र आढ्याम् किष्किन्धाम् वालिनः पुरीम् ।प्रतिज्ञा या कृता वीर त्वया वालि वधे पुरा ॥४-१४-६॥
सफलाम् कुरु ताम् क्षिप्रम् लताम् काल इव आगतः ।एवम् उक्तः तु धर्मात्मा सुग्रीवेण स राघवः ॥४-१४-७॥
तम् एव उवाच वचनम् सुग्रीवम् शत्रु सूदनः ।कृत अभिज्ञान चिह्नः त्वम् अनया गज साह्वया ॥४-१४-८॥
लक्ष्मणेन समुत्पाट्य एषा कण्ठे कृता तव ।सोभासे अपि अधिकम् वीर लतया कण्ठसक्तया ॥४-१४-९॥
विपरीत इव आकाशे सूर्यो नक्षत्र मालया ।अद्य वालि समुत्थम् ते भयम् वैरम् च वानर ॥४-१४-१०॥
एकेन अहम् प्रमोक्ष्यामि बाण मोक्षेण संयुगे ।मम दर्शय सुग्रीव वैरिणम् भ्रातृ रूपिणम् ॥४-१४-११॥
वाली विनिहतो यावद् वने पांसुषु चेष्टते ।यदि दृष्टि पथम् प्राप्तो जीवन् स विनिवर्तते ॥४-१४-१२॥
ततो दोषेण मा गच्छेत् सद्यो गर्हेच्च माम् भवान् ।प्रत्यक्षम् सप्त ते साला मया बाणेन दारिताः ॥४-१४-१३॥
ततो वेत्सि बलेन अद्य वालिनम् निहतम् मया ।अनृतम् न उक्त पूर्वम् मे चिरम् कृच्छ्रे अपि तिष्ठता ॥४-१४-१४॥
धर्म लोभ परीतेन न च वक्ष्ये कथंचन ।सफलाम् च करिष्यामि प्रतिज्ञाम् जहि संभ्रमम् ॥४-१४-१५॥
प्रसूतम् कलमक्षेत्रे वर्षेण इव शतक्रतुः ।तद् आह्वान निमित्तम् च वालिनो हेममालिनः ॥४-१४-१६॥
सुग्रीव कुरु तम् शब्दम् निष्पतेद् येन वानरः ।जितकाशी जयश्लाघी त्वया च अधर्षितः पुरात् ॥४-१४-१७॥
निष्पतिष्यति असंगेन वाली स प्रियसम्युगः ।रिपूणाम् धर्षितम् श्रुत्वा मर्षयन्ति न संयुगे ॥४-१४-१८॥
जानन्तः तु स्वकम् वीर्यम् स्त्री समक्षम् विशेषतः ।स तु राम वचः श्रुत्वा सुग्रीवो हेमपिंगलः ॥४-१४-१९॥
ननर्द क्रूर नादेन विनिर्भिन्दन् इव अम्बरम् ।तत्र शब्देन वित्रस्ता गावो यान्ति हतप्रभाः ॥४-१४-२०॥
राजदोष परामृष्टाः कुलस्त्रिय इव आकुलाः ।द्रवन्ति च मृगाः शीघ्रम् भग्ना;इव रणे हयाः ।पतन्ति च खगा भूमौ क्षीण पुण्या इव ग्रहाः ॥४-१४-२१॥
ततः स जीमूत कृत प्रणादोनादम् हि अमुंचत् त्वरया प्रतीतः ।सूर्यात्मजः शौर्य विवृद्ध तेजाःसरित् पतिर्वा अनिल चंचल ऊर्मिः ॥४-१४-२२॥
Navigation
- ← Previous: Kiṣkindhā-Kāṇḍa Sarga 13
- Next: Kiṣkindhā-Kāṇḍa Sarga 15 →
- Kiṣkindhā-Kāṇḍa sarga-index
- Vālmīki Rāmāyaṇa master-index
- /rama · the non-dual singularity
🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷