🪷 किष्किन्धाकाण्ड · Sarga 13

Kiṣkindhā-Kāṇḍa · The Book of Kiṣkindhā · Sarga 13 · 30 ślokas

Vālmīki Detail Source-Anchor Spine

This sarga page exposes the exact local source route, parent Kāṇḍa, Rāma janma proof anchors where applicable, and the wider Vālmīki/Rāma source spine.

Vālmīki 4.13local sarga route with all Sanskrit ślokasKiṣkindhā-Kāṇḍaparent Kāṇḍa sarga index/valmiki-ramayanamaster index for the 7 Kāṇḍas and 22,742 ślokasBāla 1.18Rāma-janma sarga and primary birth-spec anchorVālmīki 1.18.8first Rāma-janma astronomical śloka routeVālmīki 1.18.15closing verse of the janma-spec rangeVālmīki 2.26.9Bṛhaspati-Puṣya coronation-eve witness routeVālmīki 6.93.65war-window Krishna-pakṣa timing witnessVālmīki 6.103Rāvaṇa-vadha anchor doorway for the year+41 witness/ramaRāma-Krishna non-dual singularity and three-anchor proof surface/chart/ramapublished Rāma janma-kuṇḍalī output for the 1,626,102 BCE claimRāma janma dayreader-visible pañchāṅga/day output for the birth anchor/computational-moatSūrya-Siddhānta deep-time verification boundary/festival/rama-navamiCaitra Śukla Navamī festival mūrti-page/ramcharitamanasTulsidās bhakti voice of the same Rāma-līlāRāmopākhyānaVyāsa's Rāma-kathā inside the Mahābhārata/binduDiamond of Darśanas · Rāma/Krishna as one Bindu aperture/philosophyConstitutional Principles and Rāma-Krishna recognition

🪷 The Ślokas · canonical Devanāgarī Sanskrit yathārtha

Vālmīki 4.13.1
ऋश्यमूकात् स धर्मात्मा किष्किन्धाम् लक्ष्मण अग्रजः ।जगाम सह सुग्रीवो वालि विक्रम पालिताम् ॥४-१३-१॥
Vālmīki 4.13.2
समुद्यम्य महत् चापम् रामः कांचन भूषितम् ।शराम् च आदित्य संकाशान् गृहीत्वा रण साधकान् ॥४-१३-२॥
Vālmīki 4.13.3
अग्रतः तु ययौ तस्य राघवस्य महात्मनः ।सुग्रीवः संहत ग्रीवो लक्ष्मणः च महाबलः ॥४-१३-३॥
Vālmīki 4.13.4
पृष्ठतो हनुमान् वीरो नलो नीलः च वीर्यवान् ।तारः चैव महातेजा हरि यूथप यूथपाः ॥४-१३-४॥
Vālmīki 4.13.5
ते वीक्षमाणा वृक्षाम् च पुष्प भार अवलम्बिनः ।प्रसन्न अंबुवहाः चैव सरितः सागरम् गमाः ॥४-१३-५॥
Vālmīki 4.13.6
कन्दराणि च शैलाम् च निर्दराणि गुहाः तथा ।शिखराणि च मुख्यानि दरीः च प्रिय दर्शनाः ॥४-१३-६॥
Vālmīki 4.13.7
वैदूर्य विमलैः तोयैः पद्मैः च आकोश कुड्मलैः ।शोभितान् सजलान् मार्गे तटाकान् च अवलोकयन् ॥४-१३-७॥
Vālmīki 4.13.8
कारण्डैस्सारसैर्हम्सैर्वञ्जुलैर्जलकुक्कुटैः ।चक्रवाकैस्थाचान्यैश्शकुनैर्प्रतिनादितान्।यद्वा -कारण्डैः सारसैः हंसैः वंजुलैः जल कुक्कुटैः ।चक्रवाकैः तथा च अन्यैः शकुनैः प्रतिनादितान् ॥४-१३-८॥
Vālmīki 4.13.9
मृदुशष्पाङ्कुराअहारान्निर्भयान्वनगोचरान् ।चरतांसर्वतोपश्यन्स्थलीषु हरिणान्स्थितान्।यद्वा -मृदु शष्प अंकुर आहारान् निर्भयान् वन गोचरान् ।चरताम् सर्वतो अपश्यन् स्थलीषु हरिणान् स्थितान् ॥४-१३-९॥
Vālmīki 4.13.10
तटाक वैरिणः च अपि शुक्ल दन्त विभूषितान् ।घोरान् एकचरान् वन्यान् द्विरदान् कूल घातिनः ॥४-१३-१०॥
Vālmīki 4.13.11
मत्तन् गिरि तट उद्घुष्टान् पर्वतान् इव जंगमान् ।वानरान् द्विरद प्रख्यान् मही रेणु समुक्षितान् ॥४-१३-११॥
Vālmīki 4.13.12
वने वन चराम् च अन्यान् खेचराम् च विहंगमान् ।पश्यन्तः त्वरिता जग्मुः सुग्रीव वश वर्तिनः ॥४-१३-१२॥
Vālmīki 4.13.13
तेषाम् तु गच्छताम् तत्र त्वरितम् रघुनंदनः ।द्रुम षण्ड वनम् दृष्ट्वा रामः सुग्रीवम् अब्रवीत् ॥४-१३-१३॥
Vālmīki 4.13.14
एष मेघ इव आकाशे वृक्ष षण्डः प्रकाशते ।मेघ संघात विपुलः पर्यन्त कदली वृतः ॥४-१३-१४॥
Vālmīki 4.13.15
किम् एतत् ज्ञातुम् इच्छामि सखे कौतूहलम् मम ।कौतूहल अपनयनम् कर्तुम् इच्छामि अहम् त्वया ॥४-१३-१५॥
Vālmīki 4.13.16
तस्य तद् वचनम् श्रुत्वा राघवस्य महात्मनः ।गच्छन्न् एव आचचक्षे अथ सुग्रीवः तत् महद् वनम् ॥४-१३-१६॥
Vālmīki 4.13.17
एतद् राघव विस्तीर्णम् आश्रमम् श्रम नाशनम् ।उद्यान वन संपन्नम् स्वादु मूल फल उदकम् ॥४-१३-१७॥
Vālmīki 4.13.18
अत्र सप्तजना नाम मुनयः संशित व्रताः ।सप्त एव आसन् अधः शीर्षा नियतम् जल शायिनः ॥४-१३-१८॥
Vālmīki 4.13.19
सप्त रात्रे कृत आहारा वायुना अचल वासिनः ।दिवम् वर्ष शतैः याताः सप्तभिः सकलेवराः ॥४-१३-१९॥
Vālmīki 4.13.20
तेषाम् एतत् प्रभावेण द्रुम प्राकार संवृतम् ।आश्रमम् सुदुराधर्षम् अपि स इन्द्रैः सुर असुरैः ॥४-१३-२०॥
Vālmīki 4.13.21
पक्षिणो वर्जयन्ति एतत् तथा अन्ये वनचारिणः ।विशन्ति मोहाद् ये अपि अत्र न निवर्तन्ते ते पुनः ॥४-१३-२१॥
Vālmīki 4.13.22
विभूषण रवाअः च अत्र श्रूयंते सकलाक्षराः ।तूर्य गीत स्वनाअः च अपि गन्धो दिव्यः च राघव ॥४-१३-२२॥
Vālmīki 4.13.23
त्रेताग्नयो अपि दीप्यन्ते धूमो हि एष प्रदृश्यते ।वेष्टयन् इव वृक्ष अग्रान् कपोत अंग अरुणो घनः ॥४-१३-२३॥
Vālmīki 4.13.24
एते वृक्षाः प्रकाशन्ते धूम संसक्त मस्तकाः ।मेघ जाल प्रतिच्छन्ना वैदूर्य गिरयो यथा ॥४-१३-२४॥
Vālmīki 4.13.25
कुरु प्रणामम् धर्मात्मन् तेषाम् उद्दिश्य राघवः ।लक्ष्मणेन सह भ्रात्रा प्रयतः संयत अंजलिः ॥४-१३-२५॥
Vālmīki 4.13.26
प्रणमन्ति हि ये तेषाम् ऋषीणाम् भावित आत्मनाम् ।न तेषाम् अशुभम् किंचित् शरीरे राम दृश्यते ॥४-१३-२६॥
Vālmīki 4.13.27
ततो रामः सह भ्रात्रा लक्ष्मणेन कृतांजलिः ।समुद्दिश्य महात्मानः तान् ऋषीन् अभ्यवादयत् ॥४-१३-२७॥
Vālmīki 4.13.28
अभिवाद्य च धर्मात्मा रामो भ्राता च लक्ष्मणः ।सुग्रीवो वानराअः चैव जग्मुः संहृष्ट मानसाः ॥४-१३-२८॥
Vālmīki 4.13.29
ते गत्वा दूरम् अध्वानम् तस्मात् सप्त जन आश्रमात् ।ददृशुः ताम् दुराधर्षाम् किष्किन्धाम् वालि पालिताम् ॥४-१३-२९॥
Vālmīki 4.13.30
ततस्तु रामानुज राम वानराःप्रगृह्य शस्त्राणि उदित उग्र तेजसा ।पुरीम् सुरेश आत्मज वीर्य पालिताम्वधाय शत्रोः पुनर् आगताः इह ॥४-१३-३०॥

Navigation

🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷