🪷 बालकाण्ड · Sarga 9

Bāla-Kāṇḍa · The Book of Childhood · Sarga 9 · 20 ślokas

🪷 The Ślokas · canonical Devanāgarī Sanskrit yathārtha

Vālmīki 1.9.1
एतत् श्रुत्वा रहः सूतो राजानम् इदम् अब्रवीत् ।श्रूयताम् तत् पुरा वृत्तम् पुराणे च मया श्रुतम् ॥१-९-१॥
Vālmīki 1.9.2
ऋत्विग्भिः उपदिष्टोऽयम् पुरा वृत्तो मया श्रुतः ।सनत्कुमारो भगवान् पूर्वम् कथितवान् कथाम् ॥१-९-२॥
Vālmīki 1.9.3
ऋषीणाम् सन्निधौ राजन् तव पुत्राअगमम् प्रति ।काश्यपस्य च पुत्रोऽस्ति विभाण्डक इति श्रुतः ॥१-९-३॥
Vālmīki 1.9.4
ऋष्यशृङ्ग इति ख्यातः तस्य पुत्रो भविष्यति ।स वने नित्य संवृद्धो मुनिर् वनचरः सदा ॥१-९-४॥
Vālmīki 1.9.5
न अन्यम् जानाति विप्रेन्द्रो नित्यम् पित्र अनुवर्तनात् ।द्वैविध्यम् ब्रह्मचर्यस्य भविष्यति महात्मनः ॥१-९-५॥
Vālmīki 1.9.6
लोकेषु प्रथितम् राजन् विप्रैः च कथितम् सदा ।तस्य एवम् वर्तमानस्य कालः समभिवर्तत ॥१-९-६॥
Vālmīki 1.9.7
अग्निम् शुश्रूषमाणस्य पितरम् च यशस्विनम् ।एतस्मिन् एव काले तु रोमपादः प्रतापवान् ॥१-९-७॥
Vālmīki 1.9.8
आङ्गेषु प्रथितो राजा भविष्यति महाबलः ।तस्य व्यतिक्रमात् राज्ञो भविष्यति सुदारुणा ॥१-९-८॥
Vālmīki 1.9.9
अनावृष्टिः सुघोरा वै सर्वलोक भयाअवहा ।अनावृष्ट्याम् तु वृत्तायाम् राजा दुःख समन्वितः ॥१-९-९॥
Vālmīki 1.9.10
ब्राह्मणान् श्रुत संवृद्धान् च समानीय प्रवक्ष्यति ।भवन्तः श्रुत कर्माणो लोक चारित्र वेदिनः ॥१-९-१०॥
Vālmīki 1.9.11
समादिशन्तु नियमम् प्रायश्चित्तम् यथा भवेत् ।इति उक्ताः ते ततो राज्ञा सर्वे ब्राह्मण सत्तमाः ॥१-९-११॥
Vālmīki 1.9.12
वक्ष्यन्ति ते महीपालम् ब्राह्मणा वेद पारगाः ।विभाण्डक सुतम् राजन् सर्व उपायैः इह आनय ॥१-९-१२॥
Vālmīki 1.9.13
आनाय्य तु महीपाल ऋश्यशृङ्गम् सुसत्कृतम् ।विभाण्डक सुतम् राजन् ब्राह्मणम् वेद पारगम् ।प्रयच्छ कन्याम् शान्ताम् वै विधिना सुसमाहितः॥१-९-१३॥
Vālmīki 1.9.14
तेषाम् तु वचनम् श्रुत्वा राजा चिन्ताम् प्रपत्स्यते ।केन उपायेन वै शक्यम् इह आनेतुम् स वीर्यवान् ॥१-९-१४॥
Vālmīki 1.9.15
ततो राजा विनिश्चित्य सह मंत्रिभिः आत्मवान् ।पुरोहितम् अमात्याम् च प्रेषयिष्यति सत्कृतान् ॥१-९-१५॥
Vālmīki 1.9.16
ते तु राज्ञो वचः श्रुत्वा व्यथिता विनत आननाः ।न गच्छेम ऋषेः भीता अनुनेष्यन्ति तम् नृपम् ॥१-९-१६॥
Vālmīki 1.9.17
वक्ष्ष्यन्ति चिंतयित्वा ते तस्य उपायाम् च तान् क्षमान् ।आनेष्यामो वयम् विप्रम् न च दोषो भविष्यति ॥१-९-१७॥
Vālmīki 1.9.18
एवम् अङ्गाधिपेन एव गणिकाभिः ऋषेः सुतः ।आनीतोऽवर्षयत् देव शान्ता च अस्मै प्रदीयते ॥१-९-१८॥
Vālmīki 1.9.19
ऋष्यशृङ्गः तु जामाता पुत्रान् तव विधास्यति ।सनत्कुमार कथितम् एतावत् व्याहृतम् मया ॥१-९-१९॥
Vālmīki 1.9.20
अथ हृष्टो दशरथः सुमंत्रम् प्रत्यभाषत ।यथा ऋष्यशृङ्गः तु आनीतो येन उपायेन स उच्चताम् ॥१-९-२०॥

Navigation

🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷