🪷 बालकाण्ड · Sarga 10

Bāla-Kāṇḍa · The Book of Childhood · Sarga 10 · 33 ślokas

Vālmīki Detail Source-Anchor Spine

This sarga page exposes the exact local source route, parent Kāṇḍa, Rāma janma proof anchors where applicable, and the wider Vālmīki/Rāma source spine.

Vālmīki 1.10local sarga route with all Sanskrit ślokasBāla-Kāṇḍaparent Kāṇḍa sarga index/valmiki-ramayanamaster index for the 7 Kāṇḍas and 22,742 ślokasBāla 1.18Rāma-janma sarga and primary birth-spec anchorVālmīki 1.18.8first Rāma-janma astronomical śloka routeVālmīki 1.18.15closing verse of the janma-spec rangeVālmīki 2.26.9Bṛhaspati-Puṣya coronation-eve witness routeVālmīki 6.93.65war-window Krishna-pakṣa timing witnessVālmīki 6.103Rāvaṇa-vadha anchor doorway for the year+41 witness/ramaRāma-Krishna non-dual singularity and three-anchor proof surface/chart/ramapublished Rāma janma-kuṇḍalī output for the 1,626,102 BCE claimRāma janma dayreader-visible pañchāṅga/day output for the birth anchor/computational-moatSūrya-Siddhānta deep-time verification boundary/festival/rama-navamiCaitra Śukla Navamī festival mūrti-page/ramcharitamanasTulsidās bhakti voice of the same Rāma-līlāRāmopākhyānaVyāsa's Rāma-kathā inside the Mahābhārata/binduDiamond of Darśanas · Rāma/Krishna as one Bindu aperture/philosophyConstitutional Principles and Rāma-Krishna recognition

🪷 The Ślokas · canonical Devanāgarī Sanskrit yathārtha

Vālmīki 1.10.1
सुमंत्रः चोदितो राज्ञा प्रोवाच इदम् वचः तदा ।यथा ऋष्यशृङ्गः तु आनीतो येन उपायेन मंत्रिभिःतन्मे निगदितम् सर्वम् शृणु मे मंत्रिभिः सह ॥१-१०-१॥
Vālmīki 1.10.2
रोमपादम् उवाच इदम् सह अमात्यः पुरोहितः ।उपायो निरपायो अयम् अस्माभिः अभिचिन्तितः ॥१-१०-२॥
Vālmīki 1.10.3
ऋष्यशृङ्गो वनचरः तपः स्वाध्याय संयुतः ।अनभिज्ञः तु नारीणाम् विषयाणाम् सुखस्य च ॥१-१०-३॥
Vālmīki 1.10.4
इन्द्रियार्थैः अभिमतैः नरचित्त प्रमाथिभि ।पुरम् आनाययिष्यामः क्षिप्रम् च अध्यवसीयताम् ॥१-१०-४॥
Vālmīki 1.10.5
गणिकाः तत्र गच्छन्तु रूपवत्यः स्वलंकृताः ।प्रलोभ्य विविध उपायैः आनेष्यन्ति इह सत्कृताः ॥१-१०-५॥
Vālmīki 1.10.6
श्रुत्वा तथा इति राजा च प्रत्युवाच पुरोहितम् ।पुरोहितो मंत्रिणः च तथा चक्रुः च ते तथा ॥१-१०-६॥
Vālmīki 1.10.7
वारमुख्याः तु तत् श्रुत्वा वनम् प्रविविशुः महत् ।आश्रमस्य अविदूरे अस्मिन् यत्नम् कुर्वन्ति दर्शने ॥१-१०-७॥
Vālmīki 1.10.8
ऋषेः पुत्रस्य धीरस्य नित्यम् आश्रम वासिनः ।पितुः स नित्य संतुष्टो न अतिचक्राम च आश्रमात् ॥१-१०-८॥
Vālmīki 1.10.9
न तेन जन्म प्रभृति दृष्ट पूर्वम् तपस्विना ।स्त्री वा पुमान् वा यच्च अन्यत् सत्त्वम् नगर राष्ट्रजम् ॥१-१०-९॥
Vālmīki 1.10.10
ततः कदाचित् तम् देशम् आजगाम यदृच्छया ।विभाण्डक सुतः तत्र ताः च अपश्यत् वरांगनाः ॥१-१०-१०॥
Vālmīki 1.10.11
ताः चित्र वेषाः प्रमदा गायंत्यो मधुर स्वरम् ।ऋषि पुत्रम् उपागम्य सर्वा वचनम् अब्रुवन् ॥१-१०-११॥
Vālmīki 1.10.12
कः त्वम् किम् वर्तसे ब्रह्मन् ज्ञातुम् इच्छामहे वयम् ।एकः त्वम् विजने दूरे वने चरसि शंस नः ॥१-१०-१२॥
Vālmīki 1.10.13
अदृष्ट रूपाः ताः तेन काम्य रूपा वने स्त्रियः ।हार्दात् तस्य मतिः जाता अख्यातुम् पितरम् स्वकम् ॥१-१०-१३॥
Vālmīki 1.10.14
पिता विभाण्डको अस्माकम् तस्य अहम् सुत औरसः ।ऋष्यशृङ्ग इति ख्यातम् नाम कर्म च मे भुवि ॥१-१०-१४॥
Vālmīki 1.10.15
इह आश्रम पदोऽस्माकम् समीपे शुभ दर्शनाः ।करिष्ये वोऽत्र पूजाम् वै सर्वेषाम् विधि पूर्वकम् ॥१-१०-१५॥
Vālmīki 1.10.16
ऋषि पुत्र वचः श्रुत्वा सर्वासाम् मतिरास वै ।तत् आश्रम पदम् द्रष्टुम् जग्मुः सर्वाः ततो अंगनः ॥१-१०-१६॥
Vālmīki 1.10.17
गतानाम् तु ततः पूजाम् ऋषि पुत्रः चकार ह ।इदम् अर्घ्यम् इदम् पाद्यम् इदम् मूलम् फलम् च नः ॥१-१०-१७॥
Vālmīki 1.10.18
प्रतिगृह्य तु ताम् पूजाम् सर्वा एव समुत्सुकाः ।ऋषेर् भीताः च शीघ्रम् तु गमनाय मतिम् दधुः ॥१-१०-१८॥
Vālmīki 1.10.19
अस्माकम् अपि मुख्यानि फलानि इमानि हे द्विज ।गृहाण विप्र भद्रम् ते भक्षयस्व च मा अचिरम् ॥१-१०-१९॥
Vālmīki 1.10.20
ततः ताः तम् समालिंग्य सर्वा हर्ष समन्विताः ।मोदकान् प्रददुः तस्मै भक्ष्याम् च विविधान् शुभान् ॥१-१०-२०॥
Vālmīki 1.10.21
तानि च आस्वाद्य तेजस्वी फलानि इति स्म मन्यते ।अनास्वादित पूर्वाणि वने नित्य निवासिनाम् ॥१-१०-२१॥
Vālmīki 1.10.22
आपृच्छ्य च तदा विप्रम् व्रत चर्याम् निवेद्य च ।गच्छन्ति स्म अपदेशात् ता भीताः तस्य पितुः स्त्रियः ॥१-१०-२२॥
Vālmīki 1.10.23
गतासु तासु सर्वासु काश्यपस्य आत्मजो द्विजः ।अस्वस्थ हृदयः च आसीत् दुःखात् च परिवर्तते ॥१-१०-२३॥
Vālmīki 1.10.24
ततोऽपरे द्युः तम् देशम् आजगाम स वीर्यवान् ।विभाण्डक सुतः श्रीमान् मनसा विचिन्तयन् मुहुः ॥१-१०-२४॥
Vālmīki 1.10.25
मनोज्ञा यत्र ता दृष्टा वारमुख्याः स्वलंकृताः ।दृष्ट्वा एव च ततो विप्रम् आयान्तम् हृष्ट मानसाः ॥१-१०-२५॥
Vālmīki 1.10.26
उपसृत्य ततः सर्वाः ताः तम् ऊचुर् इदम् वचः ।एहि आश्रम पदम् सौम्य अस्माकम् इति च अब्रुवन् ॥१-१०-२६॥
Vālmīki 1.10.27
चित्राणि अत्र बहूनि स्युः मूलानि च फलनि च ।तत्र अपि एष विशेषेण विधिः हि भविता ध्रुवम् ॥१-१०-२७॥
Vālmīki 1.10.28
श्रुत्वा तु वचनम् तासाम् सर्वासाम् हृदयम् गमम् ।गमनाय मतिम् चक्रे तम् च निन्युः तथा स्त्रियः ॥१-१०-२८॥
Vālmīki 1.10.29
तत्र च आनीयमाने तु विप्रे तस्मिन् महात्मनि ।ववर्ष सहसा देवो जगत् प्रह्लादयन् तदा ॥१-१०-२९॥
Vālmīki 1.10.30
वर्षेण एव आगतम् विप्रम् तापसम् स नराधिपः ।प्रति उद्गम्य मुनिम् प्रह्वः शिरसा च महीम् गतः ॥१-१०-३०॥
Vālmīki 1.10.31
अर्घ्यम् च प्रददौ तस्मै न्यायतः सुसमाहितः ।वव्रे प्रसादम् विप्रेइन्द्रात् मा विप्रम् मन्युः आविशेत् ॥१-१०-३१॥
Vālmīki 1.10.32
अन्तःपुरम् प्रवेश्य अस्मै कन्याम् दत्त्वा यथाविधि ।शांताम् शान्तेन मनसा राजा हर्षम् अवाप सः ॥१-१०-३२॥
Vālmīki 1.10.33
एवम् स न्यवसत् तत्र सर्व कामैः सुपूजितः ।ऋष्यश्R^ङ्गो महातेजा शन्ताया सह भार्यया ॥१-१०-३३॥

Navigation

🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷