🪷 बालकाण्ड · Sarga 11

Bāla-Kāṇḍa · The Book of Childhood · Sarga 11 · 31 ślokas

Vālmīki Detail Source-Anchor Spine

This sarga page exposes the exact local source route, parent Kāṇḍa, Rāma janma proof anchors where applicable, and the wider Vālmīki/Rāma source spine.

Vālmīki 1.11local sarga route with all Sanskrit ślokasBāla-Kāṇḍaparent Kāṇḍa sarga index/valmiki-ramayanamaster index for the 7 Kāṇḍas and 22,742 ślokasBāla 1.18Rāma-janma sarga and primary birth-spec anchorVālmīki 1.18.8first Rāma-janma astronomical śloka routeVālmīki 1.18.15closing verse of the janma-spec rangeVālmīki 2.26.9Bṛhaspati-Puṣya coronation-eve witness routeVālmīki 6.93.65war-window Krishna-pakṣa timing witnessVālmīki 6.103Rāvaṇa-vadha anchor doorway for the year+41 witness/ramaRāma-Krishna non-dual singularity and three-anchor proof surface/chart/ramapublished Rāma janma-kuṇḍalī output for the 1,626,102 BCE claimRāma janma dayreader-visible pañchāṅga/day output for the birth anchor/computational-moatSūrya-Siddhānta deep-time verification boundary/festival/rama-navamiCaitra Śukla Navamī festival mūrti-page/ramcharitamanasTulsidās bhakti voice of the same Rāma-līlāRāmopākhyānaVyāsa's Rāma-kathā inside the Mahābhārata/binduDiamond of Darśanas · Rāma/Krishna as one Bindu aperture/philosophyConstitutional Principles and Rāma-Krishna recognition

🪷 The Ślokas · canonical Devanāgarī Sanskrit yathārtha

Vālmīki 1.11.1
भूय एव हि राजेन्द्र शृणु मे वचनम् हितम् ।यथा स देवप्रवरः कथयामास बुद्धिमान् ॥१-११-१॥
Vālmīki 1.11.2
इक्ष्वाकूणाम् कुले जातो भविष्यति सुधार्मिकः ।नाम्ना दशरथो राजा श्रीमान् सत्य प्रतिश्रवः ॥१-११-२॥
Vālmīki 1.11.3
अङ्ग राजेन सख्यम् च तस्य राज्ञो भविष्यति ।कन्या च अस्य महाभागा शांता नाम भविष्यति ॥१-११-३॥
Vālmīki 1.11.4
पुत्रस्तुः अङ्गस्य राज्ञः तु रोमपाद इति श्रुतः ।तम् स राजा दशरथो गमिष्यति महायशाः ॥१-११-४॥
Vālmīki 1.11.5
अनपत्योऽस्मि धर्मात्मन् शांता भर्ता मम क्रतुम् ।आहरेत त्वया आज्ञप्तः संतानार्थम् कुलस्य च ॥१-११-५॥
Vālmīki 1.11.6
श्रुत्वा राज्ञोऽथ तत् वाक्यम् मनसा स विचिंत्य च ।प्रदास्यते पुत्रवन्तम् शांता भर्तारम् आत्मवान् ॥१-११-६॥
Vālmīki 1.11.7
प्रतिगृह्यम् च तम् विप्रम् स राजा विगत ज्वरः ।आहरिष्यति तम् यज्ञम् प्रहृष्टेन अंतरात्मना ॥१-११-७॥
Vālmīki 1.11.8
तम् च राजा दशरथो यशस् कामः कृतांलिः ।ऋष्यशृङ्गम् द्विज श्रेष्ठम् वरयिष्यति धर्मवित् ॥१-११-८॥
Vālmīki 1.11.9
यज्ञार्थम् प्रसवार्थम् च स्वर्गार्थम् च नरेश्वरः ।लभते च स तम् कामम् द्विज मुख्यात् विशांपतिः ॥१-११-९॥
Vālmīki 1.11.10
पुत्राः च अस्य भविष्यन्ति चत्वारो अमित विक्रमाः ।वंश प्रतिष्ठानकराः सर्व बूतेषु विश्रुताः ॥१-११-१०॥
Vālmīki 1.11.11
एवम् स देव प्रवरः पूर्वम् कथितवान् कथाम् ।सनत्कुमारो भगवान् पुरा देवयुगे प्रभुः ॥१-११-११॥
Vālmīki 1.11.12
स त्वम् पुरुष शार्दूल समानय सुसत्कृतम् ।स्वयम् एव महाराज गत्वा स बल वाहनः ॥१-११-१२॥
Vālmīki 1.11.13
सुमंत्रस्य वचः श्रुत्वा हृष्टो दशरथोऽभवत् ।अनुमान्य वसिष्ठम् च सूतवाक्यम् निशाम्य च ॥१-११-१३॥
Vālmīki 1.11.14
स अन्तःपुरः सह अमात्यः प्रययौ यत्र स द्विजः ।वनानि सरितः च एव व्यतिक्रम्य शनैः शनैः ॥१-११-१४॥
Vālmīki 1.11.15
अभिचक्राम तम् देशम् यत्र वै मुनिपुंगवः ।आसाद्य तम् द्विज श्रेष्ठम् रोमपाद समीपगम् ॥१-११-१५॥
Vālmīki 1.11.16
ऋषिपुत्रम् ददर्श अथो दीप्यमानम् इव अनलम् ।ततो राजा यथा योग्यम् पूजाम् चक्रे विशेषतः ॥१-११-१६॥
Vālmīki 1.11.17
सखित्वात् तस्य वै राज्ञः प्रहृष्टेन अंतरात्मना ।रोमपादेन च आख्यातम् ऋषिपुत्राय धीमते ॥१-११-१७॥
Vālmīki 1.11.18
सख्यम् संबन्धकम् चैव तदा तम् प्रत्यपूजयत् ।एवम् सुसत्कृतः तेन सहोषित्वा नरर्षभः ॥१-११-१८॥
Vālmīki 1.11.19
सप्ताष्ट दिवसान् राजा राजानम् इदम् अब्रवीत् ।शांता तव सुता राजन् सह भर्त्रा विशाम् पते ॥१-११-१९॥
Vālmīki 1.11.20
मदीयम् नगरम् यातु कार्यम् हि महदुद्यतम् ।तथा इति राजा संश्रुत्य गमनम् तस्य धीमतः ॥१-११-२०॥
Vālmīki 1.11.21
उवाच वचनम् विप्रम् गच्छ त्वम् सह भार्यया ।ऋषिपुत्रः प्रतिश्रुत्य तथा इति आहः नृपम् तदा ॥१-११-२१॥
Vālmīki 1.11.22
स नृपेण अभ्यनुज्ञातः प्रययौ सह भार्यया ।ताव अन्योन्य अंजलिम् कृत्वा स्नेहात् संश्लिष्य च उरसा ॥१-११-२२॥
Vālmīki 1.11.23
ननंदतुः दशरथो रोमपादः च वीर्यवान् ।ततः सुहृदम् आपृच्छ्य प्रस्थितो रघुनन्दनः ॥१-११-२३॥
Vālmīki 1.11.24
पौरेषु प्रेषयामास दूतान् वै शीघ्र गामिनः ।क्रियताम् नगरम् सर्वम् क्षिप्रम् एव स्वलंकृतम् ॥१-११-२४॥
Vālmīki 1.11.25
धूपितम् सिक्त सम्मृष्टम् पताकाभिः अलंकृतम् ।ततः प्रहृष्टाः पौराः ते श्रुत्वा राजानम् आगतम् ॥१-११-२५॥
Vālmīki 1.11.26
तथा चक्रुः च तत् सर्वम् राज्ञा यत् प्रेषितम् तदा ।ततः स्वलंकृतम् राजा नगरम् प्रविवेश ह ॥१-११-२६॥
Vālmīki 1.11.27
शङ्ख दुन्दुभि निह्रार्दैः पुरस्कृत्वा द्विजर्षभम् ।ततः प्रमुदिताः सर्वे दृष्ट्वा तम् नागरा द्विजम् ॥१-११-२७॥
Vālmīki 1.11.28
प्रवेश्यमानम् सत्कृत्य नरेन्द्रेण इन्द्र कर्मणा ।यथा दिवि सुरेन्द्रेण सहस्राक्षेण काश्यपम् ॥१-११-२८॥
Vālmīki 1.11.29
अन्तःपुरम् प्रवेश्य एनम् पूजाम् कृत्वा च शास्त्रतः ।कृतकृत्यम् तदा आत्मानम् मेने तस्य उपवाहनात् ॥१-११-२९॥
Vālmīki 1.11.30
अन्तःपुराणि सर्वाणि शांताम् दृष्ट्वा तथा आगताम् ।सह भर्त्रा विशालाक्षीम् प्रीत्या आनंदम् उपागमन् ॥१-११-३०॥
Vālmīki 1.11.31
पूज्यमाना तु ताभिः सा राज्ञा च एव विशेषतः ।उवास तत्र सुखिता कन्चित् कालम् सह द्विजा ॥१-११-३१॥

Navigation

🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷