🪷 बालकाण्ड · Sarga 12

Bāla-Kāṇḍa · The Book of Childhood · Sarga 12 · 22 ślokas

🪷 Devanāgarī Ślokas

Vālmīki 1.12.1
ततः काले बहु तिथे कस्मिन् चित् सुमनोहरे ।वसन्ते समनुप्राप्ते राज्ञो यष्टुम् मनोऽभवत् ॥१-१२-१॥
Vālmīki 1.12.2
ततः प्रणम्य शिरसा तम् विप्रम् देव वर्णिनम् ।यज्ञाय वरयामास संतानार्थम् कुलस्य च ॥१-१२-२॥
Vālmīki 1.12.3
तथेइति च स राजानम् उवाच वसुधाधिपम् ।संभाराः संभ्रियन्ताम् ते तुरगश्च विमुच्यताम् ॥१-१२-३॥
Vālmīki 1.12.4
सरव्याः च उत्तरे तीरे यज्ञ भूमिः विधीयताम् ।ततो अब्रवीत् नृपः वाक्यम् ब्राह्मणान् वेद पारगान् ॥१-१२-४॥
Vālmīki 1.12.5
सुमंत्र आवाहय क्ष्षिप्रम् ऋत्विजो ब्रह्म वादिनः ।सुयज्ञम् वामदेवम् च जाबालिम् अथ काश्यपम् ॥१-१२-५॥
Vālmīki 1.12.6
पुरोहितम् वसिष्ठम् च ये च अन्ये द्विज सत्तमाः ।ततः सुमंत्रः त्वरितम् गत्वा त्वरित विक्रमः ॥१-१२-६॥
Vālmīki 1.12.7
समानयत् स तान् सर्वान् समस्तान् वेद पारगान् ।तान् पूजयित्वा धर्मात्मा राजा दशरथः तदा ॥१-१२-७॥
Vālmīki 1.12.8
धर्मार्थ सहितम् युक्तम् श्लक्ष्णम् वचनम् अब्रवीत् ।मम तातप्य मानस्य पुत्रार्थम् नास्ति वै सुखम् ॥१-१२-८॥
Vālmīki 1.12.9
पुत्रार्थम् हयमेधेन यक्षयामि इति मतिर्मम ।तदहम् यष्टुम् इच्छामि हयमेधेन कर्मणा ॥१-१२-९॥
Vālmīki 1.12.10
ऋषिपुत्र प्रभावेण कामान् प्राप्स्यामि च अपि अहम् ।ततः साधु इति तद् वाक्यम् ब्राह्मणाः प्रत्यपूजयन् ॥१-१२-१०॥
Vālmīki 1.12.11
वसिष्ठ प्रमुखाः सर्वे पार्थिवस्य मुखात् च्युतम् ।ऋष्यशृङ्ग पुरोगाः च प्रति ऊचुः नृपतिम् तदा ॥१-१२-११॥
Vālmīki 1.12.12
संभाराः संभ्रियम्ताम् ते तुरगः च विमुच्यताम् ।सरव्याः च उत्तरे तीरे यज्ञ भूमिः विधीयताम् ॥१-१२-१२॥
Vālmīki 1.12.13
सर्वथा प्राप्यसे पुत्राम् चतुरो अमित विक्रमान् ।यस्य ते धर्मिकी बुद्धिः इयम् पुत्रार्थम् आगता ॥१-१२-१३॥
Vālmīki 1.12.14
ततः प्रीतोऽभवत् राजा श्रुत्वा तु द्विज भाषितम् ।अमात्यान् अब्रवीत् राजा हर्षेण इदम् शुभ अक्षरम् ॥१-१२-१४॥
Vālmīki 1.12.15
गुरूणाम् वचनात् शीघ्रम् संभाराः संभ्रियन्तु मे ।समर्थ अधिष्टितः च अश्वः सः उपाध्यायो विमुच्यताम् ॥१-१२-१५॥
Vālmīki 1.12.16
सरयव्याः च उत्तरे तीरे यज्ञ भूमिः विधीयताम् ।शांतयः च अभिवर्थन्ताम् यथा कल्पम् यथा विधि ॥१-१२-१६॥
Vālmīki 1.12.17
शक्यः कर्तुम् अयम् यज्ञः सर्वेण अपि महीक्षिता ।न अपराथो भवेत् कष्टो यद्य अस्मिन् क्रतु सत्तमे ॥१-१२-१७॥
Vālmīki 1.12.18
छिद्रम् हि मृगयन्त एते विद्वान्सो ब्रह्म राक्षसाः ।विधिहीनस्य यज्ञस्य सद्यः कर्ता विनश्यति ॥१-१२-१८॥
Vālmīki 1.12.19
तद् यथा विधि पूर्वम् क्रतुः एष समाप्यते ।तथा विधानम् क्रियताम् समर्थाः करणेषु इह ॥१-१२-१९॥
Vālmīki 1.12.20
तथा इति च ततः सर्वे मंत्रिणः प्रत्यपूजयन् ।पार्थिव इन्द्रस्य तत् वाक्यम् यथा आज्ञप्तम् अकुर्वत ॥१-१२-२०॥
Vālmīki 1.12.21
ततो द्विजाः ते धर्मज्ञम् अस्तुवन् पार्थिवर्षभम् ।अनुज्ञाताः ततः सर्वे पुनः जग्मुः यथा आगतम् ॥१-१२-२१॥
Vālmīki 1.12.22
गतेषु तेषु विप्रेषु मंत्रिणः तान् नराधिपः ।विसर्जयित्वा स्वम् वेश्म प्रविवेश महामतिः ॥१-१२-२२॥

Navigation

Continue with Bāla-Kāṇḍa, the seven-Kāṇḍa reading index, or the Rāmcharitamānas companion reading. Source and rights documentation remains available in the editorial standards.

🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷