🪷 बालकाण्ड · Sarga 8

Bāla-Kāṇḍa · The Book of Childhood · Sarga 8 · 24 ślokas

🪷 The Ślokas · canonical Devanāgarī Sanskrit yathārtha

Vālmīki 1.8.1
तस्य च एवम् प्रभावस्य धर्मज्ञस्य महात्मनः ।सुतार्थम् तप्य मानस्य न असीत् वंशकरः सुतः ॥१-८-१॥
Vālmīki 1.8.2
चिन्तयानस्य तस्य एवम् बुद्धिः आसीन् महात्मनः ।सुतार्थम् वाजिमेधेन किम् अर्थम् न यजामि अहम् ॥१-८-२॥
Vālmīki 1.8.3
स निश्चिताम् मतिम् कृत्वा यष्टव्यम् इति बुद्धिमान् ।मंत्रिभिः सह धर्मात्मा सर्वैः अपि कृत आत्मभिः ॥१-८-३॥
Vālmīki 1.8.4
ततोऽब्रवीत् महातेजाः सुमंत्रम् मंत्रि सत्तमम् ।शीघ्रम् आनय मे सर्वान् गुरून् तान् स पुरोहितान् ॥१-८-४॥
Vālmīki 1.8.5
ततः सुमंत्रः त्वरितम् गत्वा त्वरित विक्रमः ।सम् आनयत् स तान् सर्वान् समस्तान् वेद पारगान् ॥१-८-५॥
Vālmīki 1.8.6
सुयज्ञम् वामदेवम् च जाबालिम् अथ काश्यपम् ।पुरोहितम् वशिष्ठम् च ये च अपि अन्ये द्विजोत्तमाः ॥१-८-६॥
Vālmīki 1.8.7
तान् पूजयित्वा धर्मात्मा राजा दशरथः तदा ।इदम् धर्म अर्थ सहितम् श्लक्ष्णम् वचनम् अब्रवीत् ॥१-८-७॥
Vālmīki 1.8.8
मम लालस्य मानस्य सुतार्थम् नास्ति वै सुखम् ।तदर्थम् हयमेधेन यक्ष्ह्यामि इति मतिर् मम ॥१-८-८॥
Vālmīki 1.8.9
तत् अहम् यष्टुम् इच्छमि शास्त्र दृष्टेन कर्मणा ।कथम् प्राप्स्यामि अहम् कामम् बुद्धिः अत्र विचिन्त्यताम् ॥१-८-९॥
Vālmīki 1.8.10
ततः साधु इति तद्वाक्यम् ब्राह्मणाः प्रत्यपूजयन् ।वशिष्ठ प्रमुखाः सर्वे पार्थिवस्य मुखेरितम् ॥१-८-१०॥
Vālmīki 1.8.11
ऊचुः च परम प्रीताः सर्वे दशरथम् वचः ।संभाराः संभ्रियंताम् ते तुरगः च विमुच्यताम् ॥१-८-११॥
Vālmīki 1.8.12
सरय्वाः च उत्तरे तीरे यज्ञ भूमिर् विधीयताम् ।सर्वथा प्राप्स्यसे पुत्रान् अभिप्रेतान् च पार्थिव ॥१-८-१२॥
Vālmīki 1.8.13
यस्य ते धर्मिकी बुद्धिः इयम् पुत्रार्थम् आगता ।ततः तुष्टोऽभवत् राजा श्रुत्वा तद् द्विज भाषितम् ॥१-८-१३॥
Vālmīki 1.8.14
अमात्यान् अब्रवीत् राजा हर्ष पर्याकुल लोचन ।संभाराः संभ्रियंताम् मे गुरूणाम् वचनात् इह ॥१-८-१४॥
Vālmīki 1.8.15
समर्थ अधिष्ठितः च अश्वः सः उपाध्यायो विमुच्यताम् ।सरय्वाः च उत्तरे तीरे यज्ञ भूमिर् विधीयताम् ॥१-८-१५॥
Vālmīki 1.8.16
शान्तयः च अपि वर्धन्ताम् यथा कल्पम् यथा विधि ।शक्यः प्राप्तुम् अयम् यज्ञः सर्वेण अपि महीक्षिता ॥१-८-१६॥
Vālmīki 1.8.17
न अपराथो भवेत् कष्टो यदि अस्मिन् क्रतु सत्तमे ।च्छिद्रम् हि मृगयन्ते स्म विद्वांसो ब्रह्म राक्षसाः ॥१-८-१७॥
Vālmīki 1.8.18
विधि हीनस्य यज्ञस्य सद्यः कर्ता विनश्यति ।तद्यथा विधि पूर्वम् मे क्रतुरेष समाप्यते ॥१-८-१८॥
Vālmīki 1.8.19
तथा विधानम् क्रियताम् समर्थाः साधनेषु इति ।तथा इति च अब्रुवन् सर्वे मंत्रिणः प्रतिपूजिता ॥१-८-१९॥
Vālmīki 1.8.20
पार्थिवेन्द्रस्य तद् वाक्यम् यथा पूर्वम् निशम्य ते ।तथा द्विजाः ते धर्मज्ञा वर्थयतो नृपोत्तमम् ॥१-८-२०॥
Vālmīki 1.8.21
अनुज्ञाताः ततः सर्वे पुनर् जग्मुर् यथा आगतम् ।विसर्जयित्वा तान् विप्रान् सचिवान् इदम् अब्रवीत् ॥१-८-२१॥
Vālmīki 1.8.22
ऋत्विग्भिः उपसंदिष्टो यथावत् क्रतुर् आप्यताम् ।इति उक्त्वा नृप शार्दूलः सचिवान् समुपस्थितान् ॥१-८-२२॥
Vālmīki 1.8.23
विसर्जयित्वा स्वम् वेश्म प्रविवेश महामतिः ।ततः स गत्वा ताः पत्नीर् नरेन्द्रो हृदयंगमाः ॥१-८-२३॥
Vālmīki 1.8.24
उवाच दीक्षाम् विशत यक्षेऽहम् सुत कारणात् ।तासाम् तेन अति कान्तेन वचनेन सुवर्चसाम् ।मुख पद्मान् अशोभन्त पद्मानीव हिमात्यये ॥१-८-२४॥

Navigation

🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷