🪷 बालकाण्ड · Sarga 7

Bāla-Kāṇḍa · The Book of Childhood · Sarga 7 · 24 ślokas

🪷 The Ślokas · canonical Devanāgarī Sanskrit yathārtha

Vālmīki 1.7.1
तस्य अमात्या गुणैर् आसन् इक्ष्ह्वकोस्तु महात्मनः ।मंत्रज्ञाः च इङ्गितज्ञाः च नित्यम् प्रिय हिते रताः ॥१-७-१॥
Vālmīki 1.7.2
अष्टौ बभूवुः वीरस्य तस्य अमात्या यशस्विनः ।शुचयः च अनुरक्ताः च राजकृत्येषु नित्यशः ॥१-७-२॥
Vālmīki 1.7.3
धृष्टिर् जयन्तो विजयो सुराष्ट्रो राष्ट्र वर्धनः ।अकोपो धर्मपालः च सुमंत्रः च अष्टमो अर्थवित् ॥१-७-३॥
Vālmīki 1.7.4
ऋत्विजौ द्वौ अभिमतौ तस्याः ताम् ऋषि सत्तमौ ।वशिष्ठो वामदेवः च मंत्रिणः च तथा अपरे ॥१-७-४॥
Vālmīki 1.7.5
सुयज्ञो अपि अथ जाबालिः काशय्पो अपि अथ गौतमः ।मार्कण्डेयः तु दीर्घायुः तथा कात्यायनो द्विजः ॥१-७-५॥
Vālmīki 1.7.6
एतैः ब्रह्मर्षिभिर् नित्यम् ऋत्विजः तस्य पौर्वकाः ।विद्या विनीता ह्रीमंतः कुशला नियतेन्द्रियाः ॥१-७-६॥
Vālmīki 1.7.7
श्रीमन्तः च महात्मनः शास्त्रज्ञा धृढ विक्रमाः ।कीर्तिमन्तः प्रणिहिता यथा वचन कारिणः ॥१-७-७॥
Vālmīki 1.7.8
तेजः क्षमा यशः प्राप्ताः स्मित पूर्व अभिभाषिणः ।क्रोधात् काम अर्थ हेतोर् वा न ब्रूयुर् अनृतम् वचः ॥१-७-८॥
Vālmīki 1.7.9
तेषाम् अविदितम् किंचत् श्वेषु नास्ति परेषु वा ।क्रियमाणम् कृतम् वा अपि चारेण अपि चिकीर्षितम् ॥१-७-९॥
Vālmīki 1.7.10
कुशला व्य्वहारेषु सौहृदेषु परीक्षिताः ।प्राप्त कालम् यथा दण्डम् धारयेयुः सुतेषु अपि ॥१-७-१०॥
Vālmīki 1.7.11
कोश संग्रहणे युक्ता बलस्य च परिग्रहे ।अहितम् च अपि पुरुषम् न हिंस्युर् अविदूषकम् ॥१-७-११॥
Vālmīki 1.7.12
वीराः च नियतोत्साहा राज शास्त्रम् अनुष्ठिताः ।शुचीनाम् रक्षितारः च नित्यम् विषय वासिनाम् ॥१-७-१२॥
Vālmīki 1.7.13
ब्रह्म क्षत्रम् अहिंसन्तः ते कोशम् समपूरयन् ।सुतीक्ष्ण दण्डाः संप्रेक्ष्य पुरुषस्य बलाबलम् ॥१-७-१३॥
Vālmīki 1.7.14
शुचीनाम् एक बुद्धीनाम् सर्वेषाम् संप्रजानताम् ।न आसीत् पुरे वा राष्ट्रे वा मृषा वादी नरः क्वचित् ॥१-७-१४॥
Vālmīki 1.7.15
कश्चिन् न दुष्टः तत्र आसीत् पर दार रतिर् नरः ।प्रशांतम् सर्वम् एव असीत् राष्ट्रम् पुरवरम् च तत् ॥१-७-१५॥
Vālmīki 1.7.16
सु वासस सु वेषाः च ते च सर्वे शुचिव्रताः ।हितार्थः च नरेन्द्रस्य जाग्रतो नय चक्षुषा ॥१-७-१६॥
Vālmīki 1.7.17
गुरोर् गुण गृहीताः च प्रख्याताः च पराक्रमे ।विदेशेषु अपि विज्ञाता सर्वतो बुद्धि निश्चयाः ॥१-७-१७॥
Vālmīki 1.7.18
अभितो गुणवन्तः च न च आसन् गुण वर्जिताः ।सन्धि विग्रह तत्वज्ञाः प्रकृत्या संपदान्विताः ॥१-७-१८॥
Vālmīki 1.7.19
मंत्र संवरणे शक्ताः शक्ताः सूक्ष्मासु बुद्धिषु ।नीति शास्त्र विशेषज्ञाः सततम् प्रिय वादिनः ॥१-७-१९॥
Vālmīki 1.7.20
ईदृशैः तैः अमात्यैः च राजा दशरथोऽनघः ।उपपन्नो गुणोपेतैः अन्वशासद् वसुंधराम् ॥१-७-२०॥
Vālmīki 1.7.21
अवेक्षमाणः चारेण प्रजा धर्मेण रक्षयन् ।प्रजानाम् पालनम् कुर्वन् अधर्मम् परिवर्जयन् ॥१-७-२१॥
Vālmīki 1.7.22
विश्रुतः त्रिषु लोकेषु वदान्यः सत्य संगरः ।स तत्र पुरुषव्याघ्रः शशास पृथ्वीम् इमाम् ॥१-७-२२॥
Vālmīki 1.7.23
न अध्यगच्छत् विशिष्टम् वा तुल्यम् वा शत्रुम् आत्मनः ।मित्रवान् नत सामन्तः प्रताप हत कण्टकः ।स शशास जगत् राजा दिवि देव पतिर् यथा ॥१-७-२३॥
Vālmīki 1.7.24
तैः मंत्रिभिः मंत्र हितेः निविष्टैःवृतोऽनुरक्तैः कुशलैः समर्थैः ।स पार्थिवो दीप्तिम् अवाप युक्तःतेजोमयैः गोभिः इव उदितः अर्कः ॥१-७-२४॥

Navigation

🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷