🪷 बालकाण्ड · Sarga 6

Bāla-Kāṇḍa · The Book of Childhood · Sarga 6 · 28 ślokas

Vālmīki Detail Source-Anchor Spine

This sarga page exposes the exact local source route, parent Kāṇḍa, Rāma janma proof anchors where applicable, and the wider Vālmīki/Rāma source spine.

Vālmīki 1.6local sarga route with all Sanskrit ślokasBāla-Kāṇḍaparent Kāṇḍa sarga index/valmiki-ramayanamaster index for the 7 Kāṇḍas and 22,742 ślokasBāla 1.18Rāma-janma sarga and primary birth-spec anchorVālmīki 1.18.8first Rāma-janma astronomical śloka routeVālmīki 1.18.15closing verse of the janma-spec rangeVālmīki 2.26.9Bṛhaspati-Puṣya coronation-eve witness routeVālmīki 6.93.65war-window Krishna-pakṣa timing witnessVālmīki 6.103Rāvaṇa-vadha anchor doorway for the year+41 witness/ramaRāma-Krishna non-dual singularity and three-anchor proof surface/chart/ramapublished Rāma janma-kuṇḍalī output for the 1,626,102 BCE claimRāma janma dayreader-visible pañchāṅga/day output for the birth anchor/computational-moatSūrya-Siddhānta deep-time verification boundary/festival/rama-navamiCaitra Śukla Navamī festival mūrti-page/ramcharitamanasTulsidās bhakti voice of the same Rāma-līlāRāmopākhyānaVyāsa's Rāma-kathā inside the Mahābhārata/binduDiamond of Darśanas · Rāma/Krishna as one Bindu aperture/philosophyConstitutional Principles and Rāma-Krishna recognition

🪷 The Ślokas · canonical Devanāgarī Sanskrit yathārtha

Vālmīki 1.6.1
तस्याम् पुर्याम् अयोध्यायाम् वेदवित् सर्व संग्रहः ।दीर्घदर्शी महातेजाः पौर जानपद प्रियः ॥१-६-१॥
Vālmīki 1.6.2
इक्ष्वाकूणम् अतिरथो यज्वा धर्मपरो वशी ।महर्षिकल्पो राजर्षिः त्रिषु लोकेषु विश्रुतः ॥१-६-२॥
Vālmīki 1.6.3
बलवान् निहत अमित्रो मित्रवान् विजित इन्द्रियः ।धनैः च संचयैः च अन्यैः शक्र वैश्रवण उपमः ॥१-६-३॥
Vālmīki 1.6.4
यथा मनुर् महातेजा लोकस्य परिरक्षिता ।तथा दशरथो राजा लोकस्य परिरक्षिता ॥१-६-४॥
Vālmīki 1.6.5
तेन सत्याभिसंधेन त्रिवर्गम् अनुष्टिता ।पालिता सा पुरी श्रेष्टा इन्द्रेण इव अमरावती ॥१-६-५॥
Vālmīki 1.6.6
तस्मिन् पुरवरे हृष्टा धर्मात्मनो बहुश्रुताः ।नराः तुष्ठाः धनैः स्वैः स्वैः अलुब्धाः सत्यवादिनः ॥१-६-६॥
Vālmīki 1.6.7
न अल्प संनिचयः कश्चिद् आसीत् तस्मिन् पुरोत्तमे ।कुटुंबी यो हि असिद्धर्थः अगवा अश्व धन धान्यवान् ॥१-६-७॥
Vālmīki 1.6.8
कामी वा न कदर्यो वा नृशंसः पुरुषः क्वचित् ।द्रष्टुम् शक्यम् अयोध्यायाम् न अविद्वान् न च नास्तिकः ॥१-६-८॥
Vālmīki 1.6.9
सर्वे नराः च नार्यः च धर्मशीलाः सु संयताः ।मुदिताः शील वृत्ताभ्याम् महर्षय इव अमलाः ॥१-६-९॥
Vālmīki 1.6.10
न अकुण्डली न अमुकुटी न अस्रग्वी न अल्पभोगवान् ।न अमृष्टो न अलिप्ताङ्गो न असुगन्धः च विद्यते ॥१-६-१०॥
Vālmīki 1.6.11
न अमृष्ट भोजी न अदाता न अपि अनङ्दनिष्कधृक् ।न अहस्ताभरणो वा अपि दृश्यते न अपि अनात्मवान् ॥१-६-११॥
Vālmīki 1.6.12
न अनाहित अग्नीः न अयज्वा न क्षुद्रो वा न तस्करः ।कश्चित् असीत् अयोध्यायाम् न च आवृत्तो न संकरः ॥१-६-१२॥
Vālmīki 1.6.13
स्व कर्म निरता नित्यम् ब्राह्मणा विजितेन्द्रियाः ।दान अध्यन शीलाः च संयताः च प्रतिग्रहे ॥१-६-१३॥
Vālmīki 1.6.14
नास्तिको न अनृती वा अपि न कश्चित् अबहुश्रुतः ।न असूयको न च अशक्तो न अविद्वान् विद्यते क्वचित् ॥१-६-१४॥
Vālmīki 1.6.15
न अषडंग वित् न अस्ति न अव्रतो न असहस्रदः ।न दीनः क्षिप्त चित्तओ वा व्यथितो वा अपि कश्चन ॥१-६-१५॥
Vālmīki 1.6.16
कश्चिन् नरो वा नारी वा न अश्रीमान् न अपि अरूपवान् ।द्रष्टुम् शक्यम् अयोध्यायाम् न अपि राजन्य अभक्तिमान् ॥१-६-१६॥
Vālmīki 1.6.17
वर्णेषु अग्र्य चतुर्थेषु देवता अतिथि पूजकाः ।कृतज्ञाः च वदान्यः च शूरा विक्रम संयुताः ॥१-६-१७॥
Vālmīki 1.6.18
दीर्घ आयुषो नराः सर्वे धर्मम् सत्यम् च संश्रिताः ।सहिताः पुत्र पौत्रैः च नित्यम् स्त्रीभिः पुरोत्तमे ॥१-६-१८॥
Vālmīki 1.6.19
क्षत्रम् ब्रह्ममुखम् च आसीत् वैश्याः क्षत्रम् अनुव्रताः ।शूद्राः स्व धर्म निरताः त्रीन् वर्णान् उपचारिणः ॥१-६-१९॥
Vālmīki 1.6.20
सा तेन इक्ष्वाकु नाथेन पुरी सु परिरक्षिता ।यथा पुरस्तात् मनुना मानवेन्द्रेण धीमता ॥१-६-२०॥
Vālmīki 1.6.21
योधानाम् अग्नि कल्पानाम् पेशलानाम् अमर्षिणाम् ।संपूर्णा कृत विद्यानाम् गुहा केसरिणाम् इव ॥१-६-२१॥
Vālmīki 1.6.22
कांभोज विषये जातैः बाह्लिकैः च हय उत्तमैः ।वनायुजैः नदीजैः च पूर्णा हरिहय उत्तमैः ॥१-६-२२॥
Vālmīki 1.6.23
विंध्य पर्वतजैः मत्तैः पूर्णा हैमवतैः अपि ।मदान्वितैः अतिबलैः मातङ्गैः पर्वतोउपमैः ॥१-६-२३॥
Vālmīki 1.6.24
इरावत कुलीनैः च महापद्म कुलैः तथा ।अंजनादपि निष्क्रान्तैः वामनादपि च द्विपैः ॥१-६-२४॥
Vālmīki 1.6.25
भद्रैः मन्द्रैः मृगैः च एव भद्र मन्द्र मृगैः थथा ।भद्र मन्द्रैः भद्र मृगैः मृग मन्द्रैः च सा पुरी ॥१-६-२५॥
Vālmīki 1.6.26
नित्य मत्तैः सदा पूर्णा नागैः अचल सन्निभैः ।सा योजने च द्वे भूयः सत्यनामा प्रकाशते ।यस्याम् दशरथो राजा वसन् जगत् अपालयत् ॥१-६-२६॥
Vālmīki 1.6.27
ताम् पुरीम् स महातेजा राजा दशरथो महान् ।शशास शमित अमित्रो नक्षत्राणीव चन्द्रमाः ॥१-६-२७॥
Vālmīki 1.6.28
ताम् सत्य नामाम् दृढ तोरण अर्गलाम्गृहैः विचित्रैः उपशोभिताम् शिवाम् ।पुरीम् अयोध्याम् नृ सहस्र संकुलाम्शशास वै शक्र समो महीपतिः ॥१-६-२८॥

Navigation

🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷