🪷 बालकाण्ड · Sarga 5
Bāla-Kāṇḍa · The Book of Childhood · Sarga 5 · 23 ślokas
🪷 The Ślokas · canonical Devanāgarī Sanskrit yathārtha
सर्वा पूर्वम् इयम् येषाम् आसीत् कृत्स्ना वसुंधरा ।प्रजपतिम् उपादाय नृपाणम् जय शालिनाम् ॥१-५-१॥
येषाम् स सगरो नाम सागरो येन खानितः ।षष्टिः पुत्र सहस्राणि यम् यान्तम् पर्यवारयन् ॥१-५-२॥
इक्ष्वाकूणाम् इदम् तेषाम् राज्ञाम् वंशे महात्मनाम् ।महद् उत्पन्नम् आख्यनम् रामायणम् इति श्रुतम् ॥१-५-३॥
तदिदम् वर्तयिष्यावः सर्वम् निखिलम् आदितः ।धर्म काम अर्थ सहितम् श्रोतव्यम् अनसूयता ॥१-५-४॥
कोसलो नाम मुदितः स्फीतो जनपदो महान् ।निविष्ट सरयू तीरे प्रभूत धन धान्यवान् ॥१-५-५॥
अयोध्या नाम नगरी तत्र आसीत् लोक विश्रुता ।मनुना मानव इन्द्रेण या पुरी निर्मिता स्वयम् ॥१-५-६॥
आयता दश च द्वे च योजनानि महापुरी ।श्रीमती त्रीणि विस्तीर्णा सु विभक्ता महापथा ॥१-५-७॥
राज मार्गेण महता सुविभक्तेन शोभिता ।मुक्ता पुष्प अवकीर्णेन जल सिक्तेन नित्यशः ॥१-५-८॥
ताम् तु राजा दशरथो महाराष्ट्र विवर्धनः ।पुरीम् आवासयामास दिवि देवपतिः यथा ॥१-५-९॥
कपाट तोरणवर्ती सु विभक्त अन्तरापणाम् ।सर्व यंत्र अयुधवतीम् उषिताम् सर्व शिल्पिभिः ॥१-५-१०॥
सूत मागध संबाधाम् श्रीमतीम् अतुल प्रभाम् ।उच्चाट्टाल ध्वजवतीम् शतघ्नी शत संकुलाम् ॥१-५-११॥
वधू नाटक सन्घैः च संयुक्ताम् सर्वतः पुरीम् ।उद्यान आम्र वणोपेताम् महतीम् साल मेखलाम् ॥१-५-१२॥
दुर्ग गंभीर परिखाम् दुर्गाम् अन्यैः दुरासदम् ।वाजीवारण संपूर्णाम् गोभिः उष्ट्रैः खरैः तथा ॥१-५-१३॥
सामंत राज सन्घैः च बलि कर्मभिः आवृतम् ।नाना देश निवासैः च वणिग्भिः उपशोभिताम् ॥१-५-१४॥
प्रासादै रत्न विकृतैः पर्वतैः इव शोभिताम् ।कूटागारैः च संपूर्णाम् इन्द्रस्य इव अमरावतीम् ॥१-५-१५॥
चित्रम् अष्टापद आकाराम् वर नारी गणैर् युताम् ।सर्व रत्न समाकीर्णाम् विमान गृह शोभिताम् ॥१-५-१६॥
गृह गाढाम् अविच्छिद्राम् सम भूमौ निवेशिताम् ।शालि तण्डुल संपूर्णाम् इक्षु काण्ड रसः उदकाम् ॥१-५-१७॥
दुन्दुभीभिः मृदन्गैः च वीणाभिः पणवैः तथा ।नादिताम् भृशम् अत्यर्थम् पृथिव्याम् ताम् अनुत्तमाम् ॥१-५-१८॥
विमानम् इव सिद्धानाम् तपस अधिगतम् दिवि ।सु निवेशित वेश्मान्ताम् नरोत्तम समावृताम् ॥१-५-१९॥
ये च बाणैः न विध्यन्ति विविक्तम् अपरा परम् ।शब्द वेध्यम् च विततम् लघु हस्ता विशारदाः ॥१-५-२०॥
सिंह व्याघ्र वराहाणाम् मत्तानाम् नदताम् वने ।हन्तारो निशितैः शस्त्रैः बलात् बाहु बलैर् अपि ॥१-५-२१॥
तादृशानाम् सहस्रैः ताम् अभि पूर्णाम् महारथैः ।पुरीम् आवसयमास राजा दशरथः तदा ॥१-५-२२॥
ताम् अग्निमद्भिः गुणवद्भिः आवृताम्द्विजोत्तमैः वेद षडङ्ग पारगैः ।सहस्रदैः सत्य रतैः महात्मभिःमहर्षि कल्पैः ऋषिभिः च केवलैः ॥१-५-२३॥
Navigation
- ← Previous: Bāla-Kāṇḍa Sarga 4
- Next: Bāla-Kāṇḍa Sarga 6 →
- Bāla-Kāṇḍa sarga-index
- Vālmīki Rāmāyaṇa master-index
- /rama · the non-dual singularity
🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷