🪷 बालकाण्ड · Sarga 4

Bāla-Kāṇḍa · The Book of Childhood · Sarga 4 · 36 ślokas

🪷 The Ślokas · canonical Devanāgarī Sanskrit yathārtha

Vālmīki 1.4.1
प्राप्त राज्यस्य रामस्य वाल्मीकिर् भगवान् ऋषिः ।चकार चरितम् कृत्स्नम् विचित्र पदम् अर्थवत् ॥१-४-१॥
Vālmīki 1.4.2
चतुर्विंशत् सहस्राणि श्लोकानाम् उक्तवान् ऋषिः ।तथा सर्ग शतान् पंच षट् काण्डानि तथा उत्तरम् ॥१-४-२॥
Vālmīki 1.4.3
कृत्वा तु तन् महाप्राज्ञः स भविष्यम् सह उत्तरम् ।चिन्तयामास कोन्वेतत् प्रयुंजीयाद् इति प्रभुः ॥१-४-३॥
Vālmīki 1.4.4
तस्य चिन्तयामानस्य महर्षेर् भावितात्मनः ।अगृह्णीताम् ततः पादौ मुनि वेषौ कुशी लवौ ॥१-४-४॥
Vālmīki 1.4.5
कुशी लवौ तु धर्मज्ञौ राज पुत्रौ यशश्विनौ ।भ्रातरौ स्वर संपन्नौ ददर्श आश्रम वासिनौ ॥१-४-५॥
Vālmīki 1.4.6
स तु मेधाविनौ दृष्ट्वा वेदेषु परिनिष्टितौ ।वेदोपबृंहणार्थाय तौ अग्राहयत प्रभुः ॥१-४-६॥
Vālmīki 1.4.7
काव्यम् रामायणम् कृत्स्नम् सीतायाः चरितम् महत् ।पौलस्त्य वधम् इति एवम् चकार चरित व्रतः ॥१-४-७॥
Vālmīki 1.4.8
पाठ्ये गेये च मथुरम् प्रमाणैः त्रिभिर् अन्वितम् ।जातिभिः सप्तभिः युक्तम् तन्त्री लय समन्वितम् ॥१-४-८॥
Vālmīki 1.4.9
रसैः शृंगार करुण हास्य रौद्र भयानकैः ।विरादिभी रसैर् युक्तम् काव्यम् एतत् अगायताम् ॥१-४-९॥
Vālmīki 1.4.10
तौ तु गान्धर्व तत्त्वज्ञौ स्थान मूर्च्छन कोविदौ ।भ्रातरौ स्वर संपन्नौ गन्धर्वाः इव रूपिणौ ॥१-४-१०॥
Vālmīki 1.4.11
रूप लक्षण संपन्नौ मधुर स्वर भाषिणौ ।बिंबात् इव उथीतौ बिंबौ राम देहात् तथा अपरौ ॥१-४-११॥
Vālmīki 1.4.12
तौ राज पुत्रौ कार्त्स्न्येन धर्म्यम् आख्यानम् उत्तमम् ।वाचो विधेयम् तत् सर्वम् कृत्वा काव्यम् अनिन्दितौ ॥१-४-१२॥
Vālmīki 1.4.13
ऋषीणाम् च द्विजातीनाम् साधूनाम् च समागमे ।यथा उपदेशम् तत्त्वज्ञौ जगतुः तौ समाहितौ ॥१-४-१३॥
Vālmīki 1.4.14
महात्मनौ महाभागौ सर्व लक्ष्ण लक्षितौ ।तौ कदाचित् समेतानाम् ऋषीणाम् भवित आत्मनाम् ॥१-४-१४॥
Vālmīki 1.4.15
मध्ये सभम् समीपस्थौ इदम् काव्यम् अगायताम् ।तत् श्रुत्वा मुनयः सर्वे बाष्प पर्याकुलेक्षणाः ॥१-४-१५॥
Vālmīki 1.4.16
साधु साध्विति ता ऊचुः परम् विस्मयम् आगताः ।ते प्रीत मनसः सर्वे मुनयो धर्म वत्सलाः ॥१-४-१६॥
Vālmīki 1.4.17
प्रशशंसुः प्रशस्तव्यौ गायमानौ कुशी लवौ ।अहो गीतस्य माधुर्यम् श्लोकानाम् च विशेषतः ॥१-४-१७॥
Vālmīki 1.4.18
चिरनिर्वृत्तम् अपि एतत् प्रत्यक्षम् इव दर्शितम् ।प्रविश्य ता उभौ सुष्ठु तथा भावम् अगायताम् ॥१-४-१८॥
Vālmīki 1.4.19
सहितौ मधुरम् रक्तम् संपन्नम् स्वर संपदा ।एवम् प्रशस्यमानौ तौ तपः श्लाघ्यैः महर्षिभिः ॥१-४-१९॥
Vālmīki 1.4.20
संरक्ततरम् अत्यर्थम् मधुरम् तौ अगायताम् ।प्रीतः कश्चिन् मुनिः ताभ्याम् संस्थितः कलशम् ददौ ॥१-४-२०॥
Vālmīki 1.4.21
प्रसन्नो वल्कलम् कश्चिद् ददौ ताभ्याम् महायशाः ।अन्यः कृष्णाजिनम् अदद् यज्ञ सूत्रम् तथा अपरः ॥१-४-२१॥
Vālmīki 1.4.22
कश्चित् कमण्डलुम् प्रदान् मौञ्जीम् अन्यो महामुनिः ।ब्रुसीमन्यः तदा प्रादत् कौपीनम् अपरो मुनिः ॥१-४-२२॥
Vālmīki 1.4.23
ताभ्याम् ददौ तदा हृष्टः कुठारम् अपरो मुनिः ।काषायम् अपरो वस्त्रम् चीरम् अन्यो ददौ मुनिः ॥१-४-२३॥
Vālmīki 1.4.24
जटाबन्धनम् अन्यः तु काष्ठ रज्जुम् मुदान्वितः ।यज्ञ भाण्डम् ऋषिः कश्चित् काष्ठभारम् तथा परः ॥१-४-२४॥
Vālmīki 1.4.25
औदुम्बरीम् ब्रुसीम् अन्यः स्वस्ति केचित् तदा अवदन् ।आयुष्यम् अपरे प्राहुर् मुदा तत्र महर्षयः ॥१-४-२५॥
Vālmīki 1.4.26
ददुः च एवम् वरान् सर्वे मुनयः सत्यवादिनः ।आश्चर्यम् इदम् आख्यानम् मुनिना संप्रकीर्तितम् ॥१-४-२६॥
Vālmīki 1.4.27
परम् कवीनाम् आधारम् समाप्तम् च यथा क्रमम् ।अभिगीतम् इदम् गीतम् सर्व गीतेषु कोविदौ ॥१-४-२७॥
Vālmīki 1.4.28
आयुष्यम् पुष्टि जननम् सर्व श्रुति मनोहरम् ।प्रशस्यमानौ सर्वत्र कदाचित् तत्र गायकौ ॥१-४-२८॥
Vālmīki 1.4.29
रथ्यासु राज मार्गेषु ददर्श भरताग्रजः ।स्व वेश्म च आनीय ततो भ्रातरौ स कुशी लवौ ॥१-४-२९॥
Vālmīki 1.4.30
पूजयामास पुज अर्हौ रामः शत्रुनिबर्हणः ।आसीनः कांचने दिव्ये स च सिंहासने प्रभुः ॥१-४-३०॥
Vālmīki 1.4.31
उपोपविष्टैः सचिवैः भ्रातृभिः च समन्वित ।दृष्ट्वा तु रूप संपन्नौ विनीतौ भ्रातरौ उभौ ॥१-४-३१॥
Vālmīki 1.4.32
उवाच लक्ष्मणम् रामः शत्रुघ्नम् भरतम् तथा ।श्रूयताम् एतद् आख्यानम् अनयोः देव वर्चसोः ॥१-४-३२॥
Vālmīki 1.4.33
विचित्रार्थ पदम् सम्यक् गायकौ समचोदयत् ।तौ च अपि मधुरम् रक्तम् स्वचित्तायत निःस्वनम् ॥१-४-३३॥
Vālmīki 1.4.34
तन्त्री लयवत् अत्यर्थम् विश्रुतार्थम् अगायताम् ।ह्लादयत् सर्व गात्राणि मनांसि हृदयानि च ।श्रोत्राश्रय सुखम् गेयम् तद् बभौ जनसंसदि ॥१-४-३४॥
Vālmīki 1.4.35
इमौ मुनी पार्थिव लक्षणान्वितौकुशी लवौ च एव महातपस्विनौ ।ममा अपि तद् भूति करम् प्रचक्षतेमहानुभावम् चरितम् निबोधत ॥१-४-३५॥
Vālmīki 1.4.36
ततः तु तौ राम वचः प्रचोदितौअगायताम् मार्ग विधान संपदा ।स च अपि रामः परिषद् गतः शनैर्बुभूषय आसक्तमना बभूव ॥१-४-३६॥

Navigation

🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷