🪷 बालकाण्ड · Sarga 3
Bāla-Kāṇḍa · The Book of Childhood · Sarga 3 · 39 ślokas
🪷 Devanāgarī Ślokas
श्रुत्वा वस्तु समग्रम् तत् धर्म अर्ध सहितम् हितम् ।व्यक्तम् अन्वेषते भूयो यद्वृत्तम् तस्य धीमतः ॥१-३-१।॥ ॥१-३-१॥
उपस्पृस्य उदकम् सम्यक् मुनिः स्थित्वा कृताञ्जलिः ।प्राचीन अग्रेषु दर्भेषु धर्मेण अन्वेषते गतिम् ॥१-३-२।॥ ॥१-३-२॥
राम लक्ष्मण सीताभिः राज्ञा दशरथेन च ।स भार्येण स राष्ट्रेण यत् प्राप्तम् तत्र तत्त्वतः ॥१-३-३।॥ ॥१-३-३॥
हसितम् भाषितम् च एव गतिर्यायत् च चेष्टितम् ।तत् सर्वम् धर्म वीर्येण यथावत् संप्रपश्यति ॥१-३-४।॥ ॥१-३-४॥
स्त्री तृतीयेन च तथा यत् प्राप्तम् चरता वने ।सत्यसन्धेन रामेण तत्सर्वम् च अन्ववेक्षत ॥१-३-५।॥ ॥१-३-५॥
ततः पश्यति धर्मात्मा तत् सर्वम् योगमास्थितः ।पुरा यत् तत्र निर्वृत्तम् पाणाव आमलकम् यथा ॥१-३-६।॥ ॥१-३-६॥
तत् सर्वम् तात्त्वतो दृश्ट्वा धर्मेण स महामतिःअभिरामस्य रामस्य तत् सर्वम् कर्तुम् उद्यतः ॥१-३-७।॥ ॥१-३-७॥
कामार्थ गुण संयुक्तम् धर्मार्थ गुण विस्तरम् ।समुद्रम् इव रत्नाढ्यम् सर्व श्रुति मनोहरम् ॥१-३-८।॥ ॥१-३-८॥
स यथा कथितम् पूर्वम् नारदेन महात्मना ।रघु वंशस्य चरितम् चकार भगवान् मुनिः ॥१-३-९।॥ ॥१-३-९॥
जन्म रामस्य सुमहद् वीर्यम् सर्वानुकूलताम् ।लोकस्य प्रियताम् क्षान्तिम् सौम्यताम् सत्य शीलताम् ॥१-३-१०।॥ ॥१-३-१०॥
नाना चित्र कथाः च अन्याः विश्वामित्र सहायेन ।जानक्याः च विवाहम् च धनुषः च विभेदनम् ॥१-३-११।॥ ॥१-३-११॥
राम राम विवादम् च गुणान् दाशरथेः तथा ।तथऽभिषेकम् रामस्य कैकेय्या दुष्ट भावताम् ॥१-३-१२।॥ ॥१-३-१२॥
विघातम् च अभिषेकस्य राघवस्य विवासनम् ।राज्ञः शोकम् विलापम् च पर लोकस्य च आश्रयम् ॥१-३-१३।॥ ॥१-३-१३॥
प्रकृतीनाम् विषादम् च प्रकृतीनाम् विसर्जनम् ।निषाद अधिप संवादम् सूतोपावर्तनम् तथा ॥१-३-१४।॥ ॥१-३-१४॥
गङ्गायाः च अपि संतारम् भरद्वाजस्य दर्शनम् ।भरद्वाज अभ्यनुज्ञात् चित्रकूटस्य दर्शनम् ॥१-३-१५।॥ ॥१-३-१५॥
वास्तु कर्म निवेशम् च भरत अगमनम् तथा ।प्रसादनम् च रामस्य पितुः च सलिल क्रियाम् ॥१-३-१६।॥ ॥१-३-१६॥
पादुका अग्र्य अभिषेकम् च नन्दि ग्राम निवासनम् ।दण्डकारण्य गमनम् विराधस्य वधम् तथा ॥१-३-१७।॥ ॥१-३-१७॥
दर्शनम् शरभङ्गस्य सुतीक्ष्णेन समागमम् ।अनसूया समाख्या च अङ्गराग्स्य च अर्पणम् ॥१-३-१८।॥ ॥१-३-१८॥
दर्शनम् च अपि अगस्त्यस्य धनुषो ग्रहणम् तथा ।शूर्पणखाः च संवादम् विरूपकरणम् तथा ॥१-३-१९।॥ ॥१-३-१९॥
वधम् खरः त्रिशिरसः उत्थानम् रावणस्य च ।मारीचस्य वधम् च एव वैदेह्या हरणम् तथा ॥१-३-२०।॥ ॥१-३-२०॥
राघवस्य विलापम् च गृध्र राज निबर्हणम् ।कबन्ध दर्शनम् च एव पम्पायाः च अपि दर्शनम् ॥१-३-२१।॥ ॥१-३-२१॥
शबरी दर्शनम् च एव फल मूल अशनम् तथा ।प्रलापम् च एव पम्पायम् हनुमद् दर्शनम् ॥१-३-२२।॥ ॥१-३-२२॥
ऋष्यमूकस्य गमनम् सुग्रीवेण समागमम् ।प्रत्ययोत्पादनम् सख्यम् वालि सुग्रीव विग्रहम् ॥१-३-२३।॥ ॥१-३-२३॥
वालि प्रमथनम् च एव सुगीव प्रतिपादनम् ।तारा विलापम् समयम् वर्ष रात्र निवासनम् ॥१-३-२४।॥ ॥१-३-२४॥
कोपम् राघव सिंहस्य बलानाम् उपसंग्रहम् ।दिशः प्रस्थापनम् च एव पृथिव्याः च निवेदनम् ॥१-३-२५।॥ ॥१-३-२५॥
अङ्गुलीयक दानम् च ऋक्ष्स्य बिल दर्शनम् ।प्रायोपवेशनम् च अपि संपातेः च अपि दर्शनम् ॥१-३-२६।॥ ॥१-३-२६॥
पर्वत आरोहणम् च अपि सागर्स्य अपि लङ्घनम् ।समुद्र वचनात् च एव मैनाकस्य च दर्शनम् ॥१-३-२७।॥ ॥१-३-२७॥
राक्षसी तर्जनम् च एव छाया ग्राहस्य दर्शनम् ।सिंहिकायाः च निधनम् लङ्का मलय दर्शनम् ॥१-३-२८।॥ ॥१-३-२८॥
रात्रौ लंका प्रवेशम् च एकस्य अपि विचिंतनम् ।आपान भूमि गमनम् अवरोधस्य दर्शनम् ॥१-३-२९।॥ ॥१-३-२९॥
दर्शनम् रावणस्य अपि पुष्पकस्य च दर्शनम् ।अशोक वनिकायानम् सीतायाः च अपि दर्शनम् ॥१-३-३०।॥ ॥१-३-३०॥
अभिज्ञन प्रदानम् च सीतायाः च अपि भाषणम् ।राक्षसी तर्जनम् च एव त्रिजटा स्वप्न दर्शनम् ॥१-३-३१।॥ ॥१-३-३१॥
मणि प्रदानम् सीतायाः वृक्ष भंगम् तथ एव च ।राक्षसी विद्रवम् चैव किंकराणाम् निबर्हणम् ॥१-३-३२।॥ ॥१-३-३२॥
ग्रहणम् वायु सूनोश्च लंका दाह अभिगर्जनम् ।प्रति प्लवनम् एव अथ मधूनाम् हरणम् तथा ॥१-३-३३।॥ ॥१-३-३३॥
राघव आस्वासनम् चैव मणि निर्यातनम् तथा ।संगमम् च समुद्रेण नल सेतोः च बन्धनम् ॥१-३-३४।॥ ॥१-३-३४॥
प्रतारम् च समुद्रस्य रात्रौ लंका अवरोधनम् ।विभीषणेन संसर्गम् वधोपाय निवेदनम् ॥१-३-३५।॥ ॥१-३-३५॥
कुम्भकर्णस्य निधनम् मेघनाद निबर्हणम् ।रावणस्य विनाशम् च सीतावाप्तिम् अरेः पुरे ॥१-३-३६।॥ ॥१-३-३६॥
विभीषण अभिषेकम् च पुष्पकस्य च दर्शनम् ।अयोध्यायाः च गमनम् भरद्वाज समागमम् ॥१-३-३७।॥ ॥१-३-३७॥
प्रेषणम् वायु पुत्रस्य भरतेन समागमम् ।राम अभिषेक अभ्युदयम् सर्व सैन्य विसर्जनम् ।स्व राष्ट्र रंजनम् च एव वैदेह्याः च विसर्जनम् ॥१-३-३८।॥ ॥१-३-३८॥
अनागतम् च यत् किंचिद् रामस्य वसुधा तले ।तत् चकार उत्तरे काव्ये वाल्मीकिः भगवान् ऋषिः ॥१-३-३९॥
Navigation
- ← Previous: Bāla-Kāṇḍa Sarga 2
- Next: Bāla-Kāṇḍa Sarga 4 →
- Bāla-Kāṇḍa sarga-index
- Vālmīki Rāmāyaṇa master-index
- /rama · the non-dual singularity
Continue with Bāla-Kāṇḍa, the seven-Kāṇḍa reading index, or the Rāmcharitamānas companion reading. Source and rights documentation remains available in the editorial standards.
🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷