🪷 बालकाण्ड · Sarga 2

Bāla-Kāṇḍa · The Book of Childhood · Sarga 2 · 43 ślokas

Vālmīki Detail Source-Anchor Spine

This sarga page exposes the exact local source route, parent Kāṇḍa, Rāma janma proof anchors where applicable, and the wider Vālmīki/Rāma source spine.

Vālmīki 1.2local sarga route with all Sanskrit ślokasBāla-Kāṇḍaparent Kāṇḍa sarga index/valmiki-ramayanamaster index for the 7 Kāṇḍas and 22,742 ślokasBāla 1.18Rāma-janma sarga and primary birth-spec anchorVālmīki 1.18.8first Rāma-janma astronomical śloka routeVālmīki 1.18.15closing verse of the janma-spec rangeVālmīki 2.26.9Bṛhaspati-Puṣya coronation-eve witness routeVālmīki 6.93.65war-window Krishna-pakṣa timing witnessVālmīki 6.103Rāvaṇa-vadha anchor doorway for the year+41 witness/ramaRāma-Krishna non-dual singularity and three-anchor proof surface/chart/ramapublished Rāma janma-kuṇḍalī output for the 1,626,102 BCE claimRāma janma dayreader-visible pañchāṅga/day output for the birth anchor/computational-moatSūrya-Siddhānta deep-time verification boundary/festival/rama-navamiCaitra Śukla Navamī festival mūrti-page/ramcharitamanasTulsidās bhakti voice of the same Rāma-līlāRāmopākhyānaVyāsa's Rāma-kathā inside the Mahābhārata/binduDiamond of Darśanas · Rāma/Krishna as one Bindu aperture/philosophyConstitutional Principles and Rāma-Krishna recognition

🪷 The Ślokas · canonical Devanāgarī Sanskrit yathārtha

Vālmīki 1.2.1
नारदस्य तु तद्वाक्यम् श्रुत्वा वाक्य विशारदः ।पूजयामास धर्मात्मा सह शिष्यो महामुनिः ॥१-२-१॥
Vālmīki 1.2.2
यथावत् पूजितः तेन देवर्षिः नारदः तथा ।आपृच्छैव अभ्यनुज्ञातः स जगाम विहायसम् ॥१-२-२॥
Vālmīki 1.2.3
स मुहूर्तं गते तस्मिन् देवलोकम् मुनिः तदा ।जगाम तमसा तीरम् जाह्नव्यात् अविदूरतः ॥१-२-३॥
Vālmīki 1.2.4
स तु तीरम् समासाद्य तमसाया मुनिः तदा ।शिष्यम् आह स्थितम् पार्श्वे दृष्ट्वा तीर्थम् अकर्दमम् ॥१-२-४॥
Vālmīki 1.2.5
अकर्दमम् इदम् तीर्थम् भरद्वाज निशामय ।रमणीयम् प्रसन्न अम्बु सन् मनुष्य मनो यथा ॥१-२-५॥
Vālmīki 1.2.6
न्यस्यताम् कलशः तात दीयताम् वल्कलम् मम ।इदम् एव अवगाहिष्ये तमसा तीर्थम् उत्तमम् ॥१-२-६॥
Vālmīki 1.2.7
एवम् उक्तो भरद्वाजो वाल्मीकेन महात्मना ।प्रयच्छत मुनेः तस्य वल्कलम् नियतः गुरोः ॥१-२-७॥
Vālmīki 1.2.8
स शिष्य हस्तात् आदाय वल्कलम् नियतेन्द्रियः ।विचचार ह पश्यन् तत् सर्वतो विपुलम् वनम् ॥१-२-८॥
Vālmīki 1.2.9
तस्य अभ्याशे तु मिथुनम् चरन्तम् अनपायिनम् ।ददर्श भगवान् तत्र क्रौङ्चयोः चारु निस्वनम् ॥१-२-९॥
Vālmīki 1.2.10
तस्मात् तु मिथुनात् एकम् पुमांसम् पाप निश्चयः ।जघान वैरनिलयो निषादः तस्य पश्यतः ॥१-२-१०॥
Vālmīki 1.2.11
तम् शोणित परीताङ्गम् चेष्टमानम् महीतले ।भार्या तु निहतम् दृष्ट्वा रुराव करुणाम् गिरम् ॥१-२-११॥
Vālmīki 1.2.12
वियुक्ता पतिना तेन द्विजेन सहचारिणा ।ताम्र शीर्षेण मत्तेन पत्रिणा सहितेन वै ॥१-२-१२॥
Vālmīki 1.2.13
तथा विधिम् द्विजम् दृष्ट्वा निषादेन निपातितम् ।ऋशेः धर्मात्मानः तस्य कारुण्यम् समपद्यत ॥१-२-१३॥
Vālmīki 1.2.14
ततः करुण वेदित्वात् अधर्मो अयम् इति द्विजः ।निशाम्य रुदतीम् क्रौन्चीम् इदम् वचनम् अब्रैइत् ॥१-२-१४॥
Vālmīki 1.2.15
मा निषाद प्रतिष्ठाम्त्व ।मगमः शाश्वतीः समाः ।यत् क्रौङ्च मिथुनात् एक ।मवधीः काम मोहितम् ॥१-२-१५॥
Vālmīki 1.2.16
तस्य एवम् ब्रुवतः चिन्ता बभूव हृदि वीक्षतः ।शोकार्तेन अस्य शकुनेः किम् इदम् व्याहृतम् मया ॥१-२-१६॥
Vālmīki 1.2.17
चिन्तयन् स महाप्राज्ञः चकार मतिमान् मतिम् ।शिश्यम् च एव अब्रवीत् वाक्यम् इदम् स मुनिपुङ्गवः ॥१-२-१७॥
Vālmīki 1.2.18
पाद बद्धः अक्षर समः तन्त्री लय समन्वितः ।शोकार्तस्य प्रवृत्तो मे श्लोको भवतु न अन्यथा ॥१-२-१८॥
Vālmīki 1.2.19
शिष्यः तु तस्य ब्रुवतो मुनेर् वाक्यम् अनुत्तमम् ।प्रति जग्राह संतुष्टः तस्य तुष्टोअः अभवत् मुनिः ॥१-२-१९॥
Vālmīki 1.2.20
सोऽभिषेकम् ततः कृत्वा तीर्थे तस्मिन् यथाविधि ।तम् एव चिन्तयन् अर्थम् उपावर्तत वै मुनिः ॥१-२-२०॥
Vālmīki 1.2.21
भरद्वाजः ततः शिष्यो विनीतः श्रुतवान् गुरोः ।कलशम् पूर्णमादाय पृष्ठतः अनुजगाम ह ॥१-२-२१॥
Vālmīki 1.2.22
स प्रविश्य आश्रम पदम् शिष्येण सह धर्मवित् ।उपविष्टः कथाः च अन्याः चकार ध्यानमास्थितः ॥१-२-२२॥
Vālmīki 1.2.23
आजगाम ततः ब्रह्मो लोककर्ता स्वयम् प्रभुः ।चतुर् मुखो महातेजा द्रष्टुम् तम् मुनिपुङ्गवम् ॥१-२-२३॥
Vālmīki 1.2.24
वाल्मीकिः अथ तम् दृष्ट्वा सहसा उत्थाय वाग्यतः ।प्रान्जलिः प्रयतो भूत्वा तस्थौ परम विस्मितः ॥१-२-२४॥
Vālmīki 1.2.25
पूजयामास तम् देवम् पाद्य अर्घ्य आसन वन्दनैः ।प्रणम्य विधिवत् च एनम् पृष्ट्वा च एव निरामयम् ॥१-२-२५॥
Vālmīki 1.2.26
अथ उपविश्य भगवान् आसने परम अर्चिते ।वाल्मीकये च ऋषये सन्दिदेश आसनम् ततः ॥१-२-२६॥
Vālmīki 1.2.27
ब्रह्मणा समनुज्ञातः सोऽपि उपाविशत् आसने ।उपविष्टे तदा तस्मिन् साक्षात् लोक पितामहे ॥१-२-२७॥
Vālmīki 1.2.28
तत् गतेन एव मनसा वाल्मीकिः ध्यानम् आस्थितः।पापात्मना कृतम् कष्टम् वैर ग्रहण बुद्धिना ॥१-२-२८॥
Vālmīki 1.2.29
यत् तादृशम् चारुरवम् क्रौन्चम् हन्यात् अकारणात्।शोचन् एव पुनः क्रौन्चीम् उप श्लोकम् इमम् जगौ ॥१-२-२९॥
Vālmīki 1.2.30
पुनर् अन्तर्गत मना भूत्वा शोक परायणः।तम् उवाच ततो ब्रह्मा प्रहसन् मुनिपुंगवम् ॥१-२-३०॥
Vālmīki 1.2.31
श्लोक एवास्त्वयाम् बद्धो न अत्र कार्या विचारणा।मत् च्छन्दात् एव ते ब्रह्मन् प्रवृत्ते अयम् सरस्वती ॥१-२-३१॥
Vālmīki 1.2.32
रामस्य चरितम् कृत्स्नम् कुरु त्वम् ऋषिसत्तम ।धर्मात्मनो भगवतो लोके रामस्य धीमतः ॥१-२-३२॥
Vālmīki 1.2.33
वृत्तम् कथय धीरस्य यथा ते नारदात् श्रुतम् ।रहस्यम् च प्रकाशम् च यद् वृत्तम् तस्य धीमतः ॥१-२-३३॥
Vālmīki 1.2.34
रामस्य सह सौमित्रे राक्षसानाम् च सर्वशः ।वैदेह्याः च एव यद् वृत्तम् प्रकाशम् यदि वा रहः ॥१-२-३४॥
Vālmīki 1.2.35
तत् च अपि अविदितम् सर्वम् विदितम् ते भविष्यति ।न ते वाक् अनृता काव्ये काचित् अत्र भविष्यति ॥१-२-३५॥
Vālmīki 1.2.36
कुरु राम कथाम् पुण्याम् श्लोक बद्धाम् मनोरमाम् ।यावत् स्थास्यन्ति गिरयः सरितः च महीतले ॥१-२-३६॥
Vālmīki 1.2.37
तावत् रामायण कथा लोकेषु प्रचरिष्यति ।यावत् रामस्य च कथा त्वत् कृता प्रचरिष्यति ॥१-२-३७॥
Vālmīki 1.2.38
तावत् ऊर्ध्वम् अधः च त्वम् मत् लोकेषु निवत्स्यसि ।इति उक्त्वा भगवान् ब्रह्मा तत्र एव अन्तरधीयत ।ततः स शिष्यो भगवान् मुनिः विस्मयम् आययौ ॥१-२-३८॥
Vālmīki 1.2.39
तस्य शिष्याः ततः सर्वे जगुः श्लोकम् इमम् पुनः ।मुहुर् मुहुः प्रीयमाणाः प्राहुः च भृश विस्मिताः ॥१-२-३९॥
Vālmīki 1.2.40
समाक्षरैः चतुर्भिः यः पादैः गीतो महर्षिणा ।सः अनुव्याहरणात् भूयः शोकः श्लोकत्वम् आगतः ॥१-२-४०॥
Vālmīki 1.2.41
तस्य बुद्धिः इयम् जाता महर्षेः भावितात्मनः ।कृत्स्नम् रामायणम् काव्यम् ईदृशैः करवाण्यहम् ॥१-२-४१॥
Vālmīki 1.2.42
उदार वृत्त अर्थ पदैः मनोरमैःतदा अस्य रामस्य चकार कीर्तिमान् ।सम अक्षरैः श्लोक शतैः यशस्विनोयशस्करम् काव्यम् उदार दर्शनः ॥१-२-४२॥
Vālmīki 1.2.43
तद् उपगत समास सन्धि योगम्सम मधुरोपनत अर्थ वाक्य बद्धम् ।रघुवर चरितम् मुनिप्रणीतम्दश शिरसः च वधम् निशामय अध्वम् ॥१-२-४३॥

Navigation

🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷