🪷 बालकाण्ड · Sarga 1
Bāla-Kāṇḍa · The Book of Childhood · Sarga 1 · 100 ślokas
🪷 The Ślokas · canonical Devanāgarī Sanskrit yathārtha
तपस्स्वाध्याय निरतं तपस्वी वाग्विदां वरम् ।नारदं परिपप्रच्छ वाल्मीकिर्मुनिपुंगवम् ॥१-१-१॥
कोन्वस्मिन् साम्प्रतं लोके गुणवान् कश्च वीर्यवान् ।धर्मज्ञश्च कृतज्ञश्च सत्यवाक्यो धृढव्रतः ॥१-१-२॥
चारित्रेण च को युक्तः सर्वभूतेषु को हितः ।विद्वान् कः कः समर्थश्च कश्च एक प्रियदर्शनः ॥१-१-३॥
आत्मवान् को जित क्रोधो द्युतिमान् कः अनसूयकः ।कस्य बिभ्यति देवाः च जात रोषस्य संयुगे ॥१-१-४॥
एतत् इच्छामि अहम् श्रोतुम् परम् कौतूहलम् हि मे ।महर्षे त्वम् समर्थोऽसि ज्ञातुम् एवम् विधम् नरम् ॥१-१-५॥
श्रुत्वा च एतत् त्रिलोकज्ञो वाल्मीकेः नारदो वचः ।श्रूयताम् इति च आमंत्र्य प्रहृष्टो वाक्यम् अब्रवीत् ॥१-१-६॥
बहवो दुर्लभाः च एव ये त्वया कीर्तिता गुणाः ।मुने वक्ष्ष्यामि अहम् बुद्ध्वा तैः उक्तः श्रूयताम् नरः ॥१-१-७॥
इक्ष्वाकु वंश प्रभवो रामो नाम जनैः श्रुतः ।नियत आत्मा महावीर्यो द्युतिमान् धृतिमान् वशी ॥१-१-८॥
बुद्धिमान् नीतिमान् वाङ्ग्मी श्रीमान् शत्रु निबर्हणः ।विपुलांसो महाबाहुः कंबु ग्रीवो महाहनुः ॥१-१-९॥
महोरस्को महेष्वासो गूढ जत्रुः अरिन्दमः ।आजानु बाहुः सुशिराः सुललाटः सुविक्रमः ॥१-१-१०॥
समः सम विभक्त अंगः स्निग्ध वर्णः प्रतापवान् ।पीन वक्षा विशालाक्षो लक्ष्मीवान् शुभ लक्षणः ॥१-१-११॥
धर्मज्ञः सत्यसन्धः च प्रजानाम् च हिते रतः ।यशस्वी ज्ञानसंपन्नः शुचिः वश्यः समाधिमान् ॥१-१-१२॥
प्रजापति समः श्रीमान् धता रिपु निषूदनः ।रक्षिता जीवलोकस्य धर्मस्य परि रक्षिता॥१-१-१३॥
रक्षिता स्वस्य धर्मस्य स्व जनस्य च रक्षिता ।वेद वेदाङ्ग तत्त्वज्ञो धनुर् वेदे च निष्ठितः ॥१-१-१४॥
सर्व शास्त्र अर्थ तत्त्वज्ञो स्मृतिमान् प्रतिभानवान् ।सर्वलोक प्रियः साधुः अदीनाअत्मा विचक्षणः ॥१-१-१५॥
सर्वदा अभिगतः सद्भिः समुद्र इव सिन्धुभिः ।अर्यः सर्वसमः च एव सदैव प्रिय दर्शनः ॥१-१-१६॥
स च सर्व गुणोपेतः कौसल्य आनंद वर्धनः ।समुद्र इव गाम्भीर्ये धैर्येण हिमवान् इव ॥१-१-१७॥
विष्णुना सदृशो वीर्ये सोमवत् प्रिय दर्शनः ।काल अग्नि सदृशः क्रोधे क्षमया पृथ्वी समः ॥१-१-१८॥
धनदेन समः त्यागे सत्ये धर्म इव अपरः ।तम् एवम् गुण संपन्नम् रामम् सत्य पराक्रमम् ॥१-१-१९॥
ज्येष्टम् श्रेष्ट गुणैः युक्तम् प्रियम् दशरथः सुतम् ।प्रकृतीनाम् हितैः युक्तम् प्रकृति प्रिय काम्यया ॥१-१-२०॥
यौव राज्येन संयोक्तुम् ऐच्छत् प्रीत्या महीपतिः ।तस्य अभिषेक संभारान् दृष्ट्वा भार्या अथ कैकयी ॥१-१-२१॥
पूर्वम् दत्त वरा देवी वरम् एनम् अयाचत ।विवासनम् च रामस्य भरतस्य अभिषेचनम् ॥१-१-२२॥
स सत्य वचनात् राजा धर्म पाशेन संयतः ।विवासयामास सुतम् रामम् दशरथः प्रियम् ॥१-१-२३॥
स जगाम वनम् वीरः प्रतिज्ञाम् अनुपालयन् ।पितुर् वचन निर्देशात् कैकेय्याः प्रिय कारणात् ॥१-१-२४॥
तम् व्रजंतम् प्रियो भ्राता लक्ष्मणः अनुजगाम ह ।स्नेहात् विनय संपन्नः सुमित्र आनंद वर्धनः ॥१-१-२५॥
भ्रातरम् दयितो भ्रातुः सौभ्रात्रम् अनु दर्शयन् ।रामस्य दयिता भार्या नित्यम् प्राण समा हिता ॥१-१-२६॥
जनकस्य कुले जाता देव मायेव निर्मिता ।सर्व लक्षण संपन्ना नारीणाम् उत्तमा वधूः ॥१-१-२७॥
सीताप्य अनुगता रामम् शशिनम् रोहिणी यथा ।पौरैः अनुगतो दूरम् पित्रा दशरथेन च ॥१-१-२८॥
शृन्गिबेर पुरे सूतम् गंगा कूले व्यसर्जयत् ।गुहम् आसाद्य धर्मात्मा निषाद अधिपतिम् प्रियम् ॥१-१-२९॥
गुहेअन सहितो रामो लक्ष्मणेन च सीतया ।ते वनेन वनम् गत्वा नदीः तीर्त्वा बहु उदकाः ॥१-१-३०॥
चित्रकूटम् अनुप्राप्य भरद्वाजस्य शासनात् ।रम्यम् आवसथम् कृत्वा रममाणा वने त्रयः ॥१-१-३१॥
देव गन्धर्व संकाशाः तत्र ते न्यवसन् सुखम् ।चित्रकूटम् गते रामे पुत्र शोक आतुरः तथा ॥१-१-३२॥
राजा दशरथः स्वर्गम् जगाम विलपन् सुतम् ।गते तु तस्मिन् भरतो वसिष्ठ प्रमुखैः द्विजैः ॥१-१-३३॥
नियुज्यमानो राज्याय न इच्छत् राज्यम् महाबलः ।स जगाम वनम् वीरो राम पाद प्रसादकः ॥१-१-३४॥
गत्वा तु स महात्मानम् रामम् सत्य पराक्रमम् ।अयाचत् भ्रातरम् रामम् आर्य भाव पुरस्कृतः ॥१-१-३५॥
त्वम् एव राजा धर्मज्ञ इति रामम् वचः अब्रवीत् ।रामोऽपि परमोदारः सुमुखः सुमहायशाः ॥१-१-३६॥
न च इच्छत् पितुर् आदेशात् राज्यम् रामो महाबलः ।पादुके च अस्य राज्याय न्यासम् दत्त्वा पुनः पुनः ॥१-१-३७॥
निवर्तयामास ततो भरतम् भरत अग्रजः ।स कामम् अनवाप्य एव राम पादा उपस्पृशन् ॥१-१-३८॥
नन्दि ग्रामे अकरोत् राज्यम् राम आगमन कांक्षया ।गते तु भरते श्रीमान् सत्य सन्धो जितेन्द्रियः ॥१-१-३९॥
रामः तु पुनः आलक्ष्य नागरस्य जनस्य च ।तत्र आगमनम् एकाग्रो दण्डकान् प्रविवेश ह ॥१-१-४०॥
प्रविश्य तु महाअरण्यम् रामो राजीव लोचनः ।विराधम् राक्षसम् हत्वा शरभंगम् ददर्श ह ॥१-१-४१॥
सुतीक्ष्णम् च अपि अगस्त्यम् च अगस्त्य भ्रातरम् तथा ।अगस्त्य वचनात् च एव जग्राह ऐन्द्रम् शरासनम् ॥१-१-४२॥
खड्गम् च परम प्रीतः तूणी च अक्षय सायकौ ।वसतः तस्य रामस्य वने वन चरैः सह ॥१-१-४३॥
ऋषयः अभ्यागमन् सर्वे वधाय असुर रक्षसाम् ।स तेषाम् प्रति शुश्राव राक्षसानाम् तथा वने ॥१-१-४४॥
प्रतिज्ञातः च रामेण वधः संयति रक्षसाम् ।ऋषीणाम् अग्नि कल्पानाम् दंडकारण्य वासीनाम् ॥१-१-४५॥
तेन तत्र एव वसता जनस्थान निवासिनी ।विरूपिता शूर्पणखा राक्षसी काम रूपिणी ॥१-१-४६॥
ततः शूर्पणखा वाक्यात् उद्युक्तान् सर्व राक्षसान् ।खरम् त्रिशिरसम् च एव दूषणम् च एव राक्षसम् ॥१-१-४७॥
निजघान रणे रामः तेषाम् च एव पद अनुगान् ।वने तस्मिन् निवसता जनस्थान निवासिनाम् ॥१-१-४८॥
रक्षसाम् निहतानि असन् सहस्राणि चतुर् दश ।ततो ज्ञाति वधम् श्रुत्वा रावणः क्रोध मूर्छितः ॥१-१-४९॥
सहायम् वरयामास मारीचम् नाम राक्षसम् ।वार्यमाणः सुबहुशो मारीचेन स रावणः ॥१-१-५०॥
न विरोधो बलवता क्षमो रावण तेन ते ।अनादृत्य तु तत् वाक्यम् रावणः काल चोदितः ॥१-१-५१॥
जगाम सह मारीचः तस्य आश्रम पदम् तदा ।तेन मायाविना दूरम् अपवाह्य नृप आत्मजौ ॥१-१-५२॥
जहार भार्याम् रामस्य गृध्रम् हत्वा जटायुषम् ।गृध्रम् च निहतम् दृष्ट्वा हृताम् श्रुत्वा च मैथिलीम् ॥१-१-५३॥
राघवः शोक संतप्तो विललाप आकुल इन्द्रियः ।ततः तेन एव शोकेन गृध्रम् दग्ध्वा जटायुषम् ॥१-१-५४॥
मार्गमाणो वने सीताम् राक्षसम् संददर्श ह ।कबंधम् नाम रूपेण विकृतम् घोर दर्शनम् ॥१-१-५५॥
तम् निहत्य महाबाहुः ददाह स्वर्गतः च सः ।स च अस्य कथयामास शबरीम् धर्म चारिणीम् ॥१-१-५६॥
श्रमणाम् धर्म निपुणाम् अभिगच्छ इति राघव ।सः अभ्य गच्छन् महातेजाः शबरीम् शत्रु सूदनः ॥१-१-५७॥
शबर्या पूजितः सम्यक् रामो दशरथ आत्मजः ।पंपा तीरे हनुमता संगतो वानरेण ह ॥१-१-५८॥
हनुमत् वचनात् च एव सुग्रीवेण समागतः ।सुग्रीवाय च तत् सर्वम् शंसत् रामो महाबलः ॥१-१-५९॥
आदितः तत् यथा वृत्तम् सीतायाः च विशेषतः ।सुग्रीवः च अपि तत् सर्वम् श्रुत्वा रामस्य वानरः ॥१-१-६०॥
चकार सख्यम् रामेण प्रीतः च एव अग्नि साक्षिकम् ।ततो वानर राजेन वैर अनुकथनम् प्रति ॥१-१-६१॥
रामाय आवेदितम् सर्वम् प्रणयात् दुःखितेन च ।प्रतिज्ञातम् च रामेण तदा वालि वधम् प्रति ॥१-१-६२॥
वालिनः च बलम् तत्र कथयामास वानरः ।सुग्रीवः शंकितः च आसीत् नित्यम् वीर्येण राघवे ॥१-१-६३॥
राघवः प्रत्ययार्थम् तु दुंदुभेः कायम् उत्तमम् ।दर्शयामास सुग्रीवः महापर्वत संनिभम् ॥१-१-६४॥
उत्स्मयित्वा महाबाहुः प्रेक्ष्य च अस्ति महाबलः ।पाद अंगुष्टेन चिक्षेप संपूर्णम् दश योजनम् ॥१-१-६५॥
बिभेद च पुनः सालान् सप्त एकेन महा इषुणा ।गिरिम् रसातलम् चैव जनयन् प्रत्ययम् तथा ॥१-१-६६॥
ततः प्रीत मनाः तेन विश्वस्तः स महाकपिः ।किष्किंधाम् राम सहितो जगाम च गुहाम् तदा ॥१-१-६७॥
ततः अगर्जत् हरिवरः सुग्रीवो हेम पिंगलः ।तेन नादेन महता निर्जगाम हरीश्वरः ॥१-१-६८॥
अनुमान्य तदा ताराम् सुग्रीवेण समागतः ।निजघान च तत्र एनम् शरेण एकेन राघवः ॥१-१-६९॥
ततः सुग्रीव वचनात् हत्वा वालिनम् आहवे ।सुग्रीवम् एव तत् राज्ये राघवः प्रत्यपादयत् ॥१-१-७०॥
स च सर्वान् समानीय वानरान् वानरर्षभः ।दिशः प्रस्थापयामास दिदृक्षुः जनक आत्मजाम् ॥१-१-७१॥
ततो गृध्रस्य वचनात् संपातेः हनुमान् बली ।शत योजन विस्तीर्णम् पुप्लुवे लवण अर्णवम् ॥१-१-७२॥
तत्र लंकाम् समासाद्य पुरीम् रावण पालिताम् ।ददर्श सीताम् ध्यायन्तीम् अशोक वनिकाम् गताम् ॥१-१-७३॥
निवेदयित्वा अभिज्ञानम् प्रवृत्तिम् च निवेद्य च ।समाश्वास्य च वैदेहीम् मर्दयामास तोरणम् ॥१-१-७४॥
पंच सेन अग्रगान् हत्वा सप्त मंत्रि सुतान् अपि ।शूरम् अक्षम् च निष्पिष्य ग्रहणम् समुपागमत् ॥१-१-७५॥
अस्त्रेण उन्मुक्तम् आत्मानम् ज्ञात्वा पैतामहात् वरात् ।मर्षयन् राक्षसान् वीरो यन्त्रिणः तान् यदृच्छया ॥१-१-७६॥
ततो दग्ध्वा पुरीम् लंकाम् ऋते सीताम् च मैथिलीम् ।रामाय प्रियम् आख्यातुम् पुनः आयात् महाकपिः ॥१-१-७७॥
सः अभिगम्य महात्मानम् कृत्वा रामम् प्रदक्षिणम् ।न्यवेदयत् अमेयात्मा दृष्टा सीता इति तत्त्वतः ॥१-१-७८॥
ततः सुग्रीव सहितो गत्वा तीरम् महा उदधेः ।समुद्रम् क्षोभयामास शरैः आदित्य सन्निभैः ॥१-१-७९॥
दर्शयामास च आत्मानम् समुद्रः सरिताम् पतिः ।समुद्र वचनात् च एव नलम् सेतुम् अकारयत् ॥१-१-८०॥
तेन गत्वा पुरीम् लंकाम् हत्वा रावणम् आहवे ।रामः सीताम् अनुप्राप्य पराम् व्रीडाम् उपागमत् ॥१-१-८१॥
ताम् उवाच ततः रामः परुषम् जन संसदि ।अमृष्यमाणा सा सीता विवेश ज्वलनम् सती ॥१-१-८२॥
ततः अग्नि वचनात् सीताम् ज्ञात्वा विगत कल्मषाम् ।कर्मणा तेन महता त्रैलोक्यम् स चराचरम् ॥१-१-८३॥
स देवर्षि गणम् तुष्टम् राघवस्य महात्मनः ॥बभौ रामः संप्रहृष्टः पूजितः सर्व देवतैः ॥१-१-८४॥
अभ्यषिच्य च लंकायाम् राक्षस इन्द्रम् विभीषणम् ।कृतकृत्यः तदा रामो विज्वरः प्रमुमोद ह ॥१-१-८५॥
देवताभ्यो वराम् प्राप्य समुत्थाप्य च वानरान् ।अयोध्याम् प्रस्थितः रामः पुष्पकेण सुहृत् वृतः ॥१-१-८६॥
भरद्वाज आश्रमम् गत्वा रामः सत्यपराक्रमः ।भरतस्य अंतिकम् रामो हनूमंतम् व्यसर्जयत् ॥१-१-८७॥
पुनः आख्यायिकाम् जल्पन् सुग्रीव सहितः तदा ।पुष्पकम् तत् समारूह्य नंदिग्रामम् ययौ तदा ॥१-१-८८॥
नंदिग्रामे जटाम् हित्वा भ्रातृभिः सहितो अनघः ।रामः सीताम् अनुप्राप्य राज्यम् पुनः अवाप्तवान् ॥१-१-८९॥
प्रहृष्टो मुदितो लोकः तुष्टः पुष्टः सुधार्मिकः ।निरामयो हि अरोगः च दुर्भिक्ष भय वर्जितः ॥१-१-९०॥
न पुत्र मरणम् केचित् द्रक्ष्यन्ति पुरुषाः क्वचित् ।नार्यः च अविधवा नित्यम् भविष्यन्ति पति व्रताः ॥१-१-९१॥
न च अग्निजम् भयम् किन्चित् न अप्सु मज्जन्ति जन्तवः ।न वातजम् भयम् किन्चित् न अपि ज्वर कृतम् तथा ॥१-१-९२॥
न च अपि क्षुत् भयम् तत्र न तस्कर भयम् तथा ।नगराणि च राष्ट्राणि धन धान्य युतानि च ॥१-१-९३॥
नित्यम् प्रमुदिताः सर्वे यथा कृत युगे तथा ।अश्वमेध शतैः इष्ट्वा तथा बहु सुवर्णकैः ॥१-१-९४॥
गवाम् कोट्ययुतम् दत्त्वा विद्वभ्यो विधि पूर्वकम् ।असंख्येयम् धनम् दत्त्वा ब्राह्मणेभो महायशाः ॥१-१-९५॥
राज वंशान् शत गुणान् स्थाप इष्यति राघवः ।चातुर् वर्ण्यम् च लोके अस्मिन् स्वे स्वे धर्मे नियोक्ष्यति ॥१-१-९६॥
दश वर्ष सहस्राणि दश वर्ष शतानि च ।रामो राज्यम् उपासित्वा ब्रह्म लोकम् प्रयास्यति ॥१-१-९७॥
इदम् पवित्रम् पापघ्नम् पुण्यम् वेदैः च संमितम् ।यः पठेत् राम चरितम् सर्व पापैः प्रमुच्यते ॥१-१-९८॥
एतत् आख्यानम् आयुष्यम् पठन् रामायणम् नरः ।स पुत्र पौत्रः स गणः प्रेत्य स्वर्गे महीयते ॥१-१-९९॥
पठन् द्विजो वाक् ऋषभत्वम् ईयात् ।स्यात् क्षत्रियो भूमि पतित्वम् ईयात् ॥वणिक् जनः पण्य फलत्वम् ईयात् ।जनः च शूद्रो अपि महत्त्वम् ईयात् ॥१-१-१००॥
Navigation
- Next: Bāla-Kāṇḍa Sarga 2 →
- Bāla-Kāṇḍa sarga-index
- Vālmīki Rāmāyaṇa master-index
- /rama · the non-dual singularity
🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷