🪷 बालकाण्ड · Sarga 62
Bāla-Kāṇḍa · The Book of Childhood · Sarga 62 · 28 ślokas
Vālmīki Detail Source-Anchor Spine
This sarga page exposes the exact local source route, parent Kāṇḍa, Rāma janma proof anchors where applicable, and the wider Vālmīki/Rāma source spine.
Vālmīki 1.62local sarga route with all Sanskrit ślokasBāla-Kāṇḍaparent Kāṇḍa sarga index/valmiki-ramayanamaster index for the 7 Kāṇḍas and 22,742 ślokasBāla 1.18Rāma-janma sarga and primary birth-spec anchorVālmīki 1.18.8first Rāma-janma astronomical śloka routeVālmīki 1.18.15closing verse of the janma-spec rangeVālmīki 2.26.9Bṛhaspati-Puṣya coronation-eve witness routeVālmīki 6.93.65war-window Krishna-pakṣa timing witnessVālmīki 6.103Rāvaṇa-vadha anchor doorway for the year+41 witness/ramaRāma-Krishna non-dual singularity and three-anchor proof surface/chart/ramapublished Rāma janma-kuṇḍalī output for the 1,626,102 BCE claimRāma janma dayreader-visible pañchāṅga/day output for the birth anchor/computational-moatSūrya-Siddhānta deep-time verification boundary/festival/rama-navamiCaitra Śukla Navamī festival mūrti-page/ramcharitamanasTulsidās bhakti voice of the same Rāma-līlāRāmopākhyānaVyāsa's Rāma-kathā inside the Mahābhārata/binduDiamond of Darśanas · Rāma/Krishna as one Bindu aperture/philosophyConstitutional Principles and Rāma-Krishna recognition
🪷 The Ślokas · canonical Devanāgarī Sanskrit yathārtha
शुनःशेपम् नरश्रेष्ठ गृहीत्वा तु महायशाः ।व्यश्रामत् पुष्करे राजा मध्याह्ने रघुनंदन ॥१-६२-१॥
तस्य विश्रममाणस्य शुनःशेपो महायशाः ।पुष्करम् ज्येष्ठम् आगम्य विश्वामित्रम् ददर्श ह ॥१-६२-२॥
तप्यन्तम् ऋषिभिः सार्थम् मातुलम् परम आतुरः ।विषण्ण वदनो दीनः तृष्णया च श्रमेण च ॥१-६२-३॥
पपात अन्के मुने राम वाक्यम् च इदम् उवाच ह ।न मे अस्ति माता न पिता ज्ञातयो बान्धवाः कुतः ॥१-६२-४॥
त्रातुम् अर्हसि माम् सौम्य धर्मेण मुनिपुंगव ।त्राता त्वम् हि नरश्रेष्ठ सर्वेषाम् त्वम् हि भावनः ॥१-६२-५॥
राजा च कृतकार्यः स्यात् अहम् दीर्घ आयुः अव्ययः ।स्वर्ग लोकम् उपाश्नीयाम् तपः तप्त्वा हि अनुत्तमम् ॥१-६२-६॥
स मे नाथो हि अनाथस्य भव भव्येन चेतसा ।पिता इव पुत्रम् धर्माअत्मन् त्रातुम् अर्हसि किल्बिषात् ॥१-६२-७॥
तस्य तत् वचनम् श्रुत्वा विश्वामित्रो महातपाः ।सान्त्वयित्वा बहु विधम् पुत्रान् इदम् उवाच ह ॥१-६२-८॥
यत् कृते पितरः पुत्रान् जनयन्ति शुभ अर्थिनः ।पर लोक हित अर्थाय तस्य कालो अयम् आगतः ॥१-६२-९॥
अयम् मुनि सुतो बालो मत्तः शरणम् इच्छति ।अस्य जीवित मात्रेण प्रियम् कुरुत पुत्रकाः ॥१-६२-१०॥
सर्वे सुकृत कर्माणः सर्वे धर्म परायणाः ।पशु भूता नरेन्द्रस्य तृप्तिम् अग्नेः प्रयच्छत ॥१-६२-११॥
नाथनान् च शुनःशेपो यज्ञः च अविघ्नतो भवेत् ।देवताः तर्पिताः च स्युः मम च अपि कृतम् वचः ॥१-६२-१२॥
मुनेः तु वचनम् श्रुत्वा मधुष्यन्द आदयः सुताः ।स अभिमानम् नरश्रेष्ठ स लीलम् इदम् अब्रुवन् ॥१-६२-१३॥
कथम् आत्म सुतान् हित्वा त्रायसे अन्य सुतम् विभो ।अकार्यम् इव पश्यामः श्व मांसम् इव भोजने ॥१-६२-१४॥
तेषाम् तत् वचनम् श्रुत्वा पुत्राणाम् मुनिपुंगवः ।क्रोध संरक्त नयनो व्याहर्तुम् उपचक्रमे ॥१-६२-१५॥
निःसाध्वसम् इदम् प्रोक्तम् धर्मात् अपि विगर्हितम् ।अतिक्रम्य तु मत् वाक्यम् दारुणम् रोम हर्षणम् ॥१-६२-१६॥
श्व मांस भोजिनः सर्वे वासिष्ठा इव जातिषु ।पूर्णम् वर्ष सहस्रम् तु पृथिव्याम् अनुवत्स्यथ ॥१-६२-१७॥
कृत्वा शाप समायुक्तान् पुत्रान् मुनिवरः तदा ।शुनःशेपम् उवाच आर्तम् कृत्वा रक्षाम् निरामयाम् ॥१-६२-१८॥
पवित्र पाशैर् बद्धो रक्त माल्य अनुलेपनः ।वैष्णवम् यूपम् आसाद्य वाग्भिः अग्निम् उदाहर ॥१-६२-१९॥
इमे च गाथे द्वे दिव्ये गायेथा मुनि पुत्रक ।अंबरीषस्य यज्ञे अस्मिन् ततः सिद्धिम् अवाप्स्यसि ॥१-६२-२०॥
शुनःशेपो गृहीत्वा ते द्वे गाथे सुसमाहितः ।त्वरया राज सिंहम् तम् अंबरीषम् उवाच ह ॥१-६२-२१॥
राज सिंह महाबुद्धे शीघ्रम् गच्छावहे वयम् ।निवर्तयस्व राजेन्द्र दीक्षाम् च समुदाहर ॥१-६२-२२॥
तत् वाक्यम् ऋषि पुत्रस्य श्रुत्वा हर्ष समन्वितः ।जगाम नृपतिः शीघ्रम् यज्ञ वाटम् अतन्द्रितः ॥१-६२-२३॥
सदस्य अनुमते राजा पवित्र कृत लक्षणम् ।पशुम् रक्त अंबरम् कृत्वा यूपे तम् समबन्धयत् ॥१-६२-२४॥
स बद्धो वाग्भिः अग्र्याभिः अभितुष्टाव वै सुरौ ।इन्द्रम् इन्द्र अनुजम् चैव यथावत् मुनि पुत्रकः ॥१-६२-२५॥
ततः प्रीतः सहस्र अक्षो रहस्य स्तुति तोषितः ।दीर्घम् आयुः तदा प्रादात् शुनःशेपाय राघव ॥१-६२-२६॥
स च राजा नरश्रेष्ठ यज्ञस्य च समाप्तवान् ।फलम् बहु गुणम् राम सहस्राक्ष प्रसादजम् ॥१-६२-२७॥
विश्वामित्रो अपि धर्मात्मा भूयः तेपे महातपाः ।पुष्करेषु नरश्रेष्ठ दश वर्ष शतानि च ॥१-६२-२८॥
Navigation
- ← Previous: Bāla-Kāṇḍa Sarga 61
- Next: Bāla-Kāṇḍa Sarga 63 →
- Bāla-Kāṇḍa sarga-index
- Vālmīki Rāmāyaṇa master-index
- /rama · the non-dual singularity
🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷