🪷 बालकाण्ड · Sarga 61
Bāla-Kāṇḍa · The Book of Childhood · Sarga 61 · 24 ślokas
Vālmīki Detail Source-Anchor Spine
This sarga page exposes the exact local source route, parent Kāṇḍa, Rāma janma proof anchors where applicable, and the wider Vālmīki/Rāma source spine.
Vālmīki 1.61local sarga route with all Sanskrit ślokasBāla-Kāṇḍaparent Kāṇḍa sarga index/valmiki-ramayanamaster index for the 7 Kāṇḍas and 22,742 ślokasBāla 1.18Rāma-janma sarga and primary birth-spec anchorVālmīki 1.18.8first Rāma-janma astronomical śloka routeVālmīki 1.18.15closing verse of the janma-spec rangeVālmīki 2.26.9Bṛhaspati-Puṣya coronation-eve witness routeVālmīki 6.93.65war-window Krishna-pakṣa timing witnessVālmīki 6.103Rāvaṇa-vadha anchor doorway for the year+41 witness/ramaRāma-Krishna non-dual singularity and three-anchor proof surface/chart/ramapublished Rāma janma-kuṇḍalī output for the 1,626,102 BCE claimRāma janma dayreader-visible pañchāṅga/day output for the birth anchor/computational-moatSūrya-Siddhānta deep-time verification boundary/festival/rama-navamiCaitra Śukla Navamī festival mūrti-page/ramcharitamanasTulsidās bhakti voice of the same Rāma-līlāRāmopākhyānaVyāsa's Rāma-kathā inside the Mahābhārata/binduDiamond of Darśanas · Rāma/Krishna as one Bindu aperture/philosophyConstitutional Principles and Rāma-Krishna recognition
🪷 The Ślokas · canonical Devanāgarī Sanskrit yathārtha
विश्वामित्रो महातेजाः प्रस्थितान् वीक्ष्य तान् ऋषीन् ।अब्रवीत् नरशार्दूल सर्वान् तान् वन वासिनः ॥१-६१-१॥
महाविघ्नः प्रवृत्तो अयम् दक्षिणाम् आस्थितो दिशम् ।दिशम् अन्याम् प्रपत्स्यामः तत्र तप्स्यामहे तपः ॥१-६१-२॥
पश्चिमायाम् विशालायाम् पुष्करेषु महात्मनः ।सुखम् तपः चरिष्यामः परम् तत् हि तपो वनम् ॥१-६१-३॥
एवम् उक्त्वा महातेजाः पुष्करेषु महामुनिः ।तप उग्रम् दुराधर्षम् तेपे मूल फल अशनः ॥१-६१-४॥
एतस्मिन् एव काले तु अयोध्या अधिपतिः महान् ।अंबरीष इति ख्यातो यष्टुम् समुपचक्रमे ॥१-६१-५॥
तस्य वै यजमानस्य पशुम् इन्द्रो जहार ह ।प्रणष्टे तु पशौ विप्रो राजानम् इदम् अब्रवीत् ॥१-६१-६॥
पशुः अभ्याहृतः राजन् प्रणष्टः तव दुर्नयात् ।अरक्षितारम् राजानम् घ्नन्ति दोषा नरेश्वर ॥१-६१-७॥
प्रायः चित्तम् महत् हि एतत् नरम् वा पुरुषर्षभ ।आनयस्व पशुम् शीघ्रम् यावत् कर्म प्रवर्तते ॥१-६१-८॥
उपाध्याय वचः श्रुत्वा स राजा पुरुषर्षभ ।अन्वियेष महाबुद्धिः पशुम् गोभिः सहस्रशः ॥१-६१-९॥
देशान् जनपदान् तान् तान् नगराणि वनानि च ।आश्रमाणि च पुण्यानि मार्गमाणो महीपतिः ॥१-६१-१०॥
स पुत्र सहितम् तात स भार्यम् रघुनंदन ।भृगुतुंगे समासीनम् ऋचीकम् संददर्श ह ॥१-६१-११॥
तम् उवाच महातेजाः प्रणम्य अभिप्रसाद्य च ।महर्षिम् तपसा दीप्तम् राजर्षिः अमित प्रभः ॥१-६१-१२॥
पृष्ट्वा सर्वत्र कुशलम् ऋचीकम् तम् इदम् वचः ।गवाम् शत सहस्रेण विक्रीणीषे सुतम् यदि ॥१-६१-१३॥
पशोः अर्थे महाभाग कृत कृत्यो अस्मि भार्गव ।सर्वे परिगता देशा यज्ञियम् न लभे पशुम् ॥१-६१-१४॥
दातुम् अर्हसि मूल्येन सुतम् एकम् इतो मम ।एवम् उक्तो महातेजा ऋचीकः तु अब्रवीत् वचः ॥१-६१-१५॥
न अहम् ज्येष्ठम् नर श्रेष्ठ विक्रीणीयाम् कथंचन ।ऋचीकस्य वचः श्रुत्वा तेषाम् माता महात्मनाम् ॥१-६१-१६॥
उवाच नर शार्दूलम् अंबरीषम् इदम् वचः ।अविक्रेयम् सुतम् ज्येष्ठम् भगवान् आह भार्गवः ॥१-६१-१७॥
मम अपि दयितम् विद्धि कनिष्ठम् शुनकम् प्रभो ।तस्मात् कनीयसम् पुत्रम् न दास्ये तव पार्थिव ॥१-६१-१८॥
प्रायेण हि नरश्रेष्ठ ज्येष्ठाः पितृषु वल्लभाः ।मातॄणाम् च कनीयांसः तस्मात् रक्षे कनीयसम् ॥१-६१-१९॥
उक्त वाक्ये मुनौ तस्मिन् मुनि पत्न्याम् तथैव च ।शुनःशेपः स्वयम् राम मध्यमो वाक्यम् अब्रवीत् ॥१-६१-२०॥
पिता ज्येष्ठम् अविक्रेयम् माता च आह कनीयसम् ।विक्रेतम् मध्यमम् मन्ये राजपुत्र नयस्व माम् ॥१-६१-२१॥
अथ राजा महाबाहो वाक्य अन्ते ब्रह्म वादिनः ।हिरण्यस्य सुवर्णस्य कोटिभी रत्न राशिभिः ॥१-६१-२२॥
गवाम् शत सहस्रेण शुनःशेपम् नरेश्वरः ।गृहीत्वा परम प्रीतो जगाम रघुनंदन ॥१-६१-२३॥
अंबरीषः तु राजर्षी रथम् आरोप्य सत्वरः ।शुनःशेपम् महातेजा जगाम आशु महायशाः ॥१-६१-२४॥
Navigation
- ← Previous: Bāla-Kāṇḍa Sarga 60
- Next: Bāla-Kāṇḍa Sarga 62 →
- Bāla-Kāṇḍa sarga-index
- Vālmīki Rāmāyaṇa master-index
- /rama · the non-dual singularity
🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷