🪷 बालकाण्ड · Sarga 60

Bāla-Kāṇḍa · The Book of Childhood · Sarga 60 · 34 ślokas

Vālmīki Detail Source-Anchor Spine

This sarga page exposes the exact local source route, parent Kāṇḍa, Rāma janma proof anchors where applicable, and the wider Vālmīki/Rāma source spine.

Vālmīki 1.60local sarga route with all Sanskrit ślokasBāla-Kāṇḍaparent Kāṇḍa sarga index/valmiki-ramayanamaster index for the 7 Kāṇḍas and 22,742 ślokasBāla 1.18Rāma-janma sarga and primary birth-spec anchorVālmīki 1.18.8first Rāma-janma astronomical śloka routeVālmīki 1.18.15closing verse of the janma-spec rangeVālmīki 2.26.9Bṛhaspati-Puṣya coronation-eve witness routeVālmīki 6.93.65war-window Krishna-pakṣa timing witnessVālmīki 6.103Rāvaṇa-vadha anchor doorway for the year+41 witness/ramaRāma-Krishna non-dual singularity and three-anchor proof surface/chart/ramapublished Rāma janma-kuṇḍalī output for the 1,626,102 BCE claimRāma janma dayreader-visible pañchāṅga/day output for the birth anchor/computational-moatSūrya-Siddhānta deep-time verification boundary/festival/rama-navamiCaitra Śukla Navamī festival mūrti-page/ramcharitamanasTulsidās bhakti voice of the same Rāma-līlāRāmopākhyānaVyāsa's Rāma-kathā inside the Mahābhārata/binduDiamond of Darśanas · Rāma/Krishna as one Bindu aperture/philosophyConstitutional Principles and Rāma-Krishna recognition

🪷 The Ślokas · canonical Devanāgarī Sanskrit yathārtha

Vālmīki 1.60.1
तपो बल हतान् ज्ञात्वा वासिष्ठान् स महोदयान् ।ऋषि मध्ये महातेजा विह्वामित्रो अभ्यभाषत ॥१-६०-१॥
Vālmīki 1.60.2
अयम् इक्ष्वाकु दायादः त्रिशंकुः इति विश्रुतः ।धर्मिष्ठः च वदान्यः च माम् चैव शरणम् गतः ॥१-६०-२॥
Vālmīki 1.60.3
स्वेन अनेन शरीरेण देव लोक जिगीषया ।यथा अयम् स्व शरीरेण देव लोकम् गमिष्यति ॥१-६०-३॥
Vālmīki 1.60.4
तथा प्रवर्त्यताम् यज्ञो भवद्भिः च मया सह ।विश्वामित्र वचः श्रुत्वा सर्व एव महर्षयः ॥१-६०-४॥
Vālmīki 1.60.5
ऊचुः समेताः सहसा धर्मज्ञा धर्म संहितम् ।अयम् कुशिक दायादो मुनिः परम कोपनः ॥१-६०-५॥
Vālmīki 1.60.6
यत् आह वचनम् सम्यक् एतत् कार्यम् न संशयः ।अग्नि कल्पो हि भगवान् शापम् दास्यति रोषितः ॥१-६०-६॥
Vālmīki 1.60.7
तस्मात् प्रवर्त्यताम् यज्ञः स शरीरो यथा दिवम् ।गच्छेत् इक्ष्वाकु दायादो विश्वामित्रस्य तेजसा ॥१-६०-७॥
Vālmīki 1.60.8
ततः प्रवर्त्यताम् यज्ञः सर्वे समधितिष्ठत ।एवम् उक्त्वा महर्षयः संजह्रुः ताः क्रियाः तदा ॥१-६०-८॥
Vālmīki 1.60.9
याजकः च महातेजा विश्वामित्रो अभवत् क्रतौ ।ऋत्विजः च आनुपूर्व्येण मंत्रवत् मंत्र कोविदाः ॥१-६०-९॥
Vālmīki 1.60.10
चक्रुः सर्वाणि कर्माणि यथा कल्पम् यथा विधि ।ततः कालेन महता विश्वामित्रो महातपाः ॥१-६०-१०॥
Vālmīki 1.60.11
चकार आवाहनम् तत्र भाग अर्थम् सर्व देवताः ।न अभ्यागमन् तदा भाग अर्थम् सर्व देवताः ॥१-६०-११॥
Vālmīki 1.60.12
ततः कोप समाविष्टो विश्वमित्रो महामुनिः ।स्रुवम् उद्यम्य स क्रोधः त्रिशंकुम् इदम् अब्रवीत् ॥१-६०-१२॥
Vālmīki 1.60.13
पश्य मे तपसो वीर्यम् स्व आर्जितस्य नर ईश्वर ।एष त्वाम् स्व शरीरेण नयामि स्वर्गम् ओजसा ॥१-६०-१३॥
Vālmīki 1.60.14
दुष्प्रापम् स्व शरीरेण दिवम् गच्छ नर अधिप ।स्वार्जितम् किंचित् अपि अस्ति मया हि तपसः फलम् ॥१-६०-१४॥
Vālmīki 1.60.15
राजन् त्वम् तेजसा तस्य स शरीरो दिवम् व्रज ।उक्त वाक्ये मुनौ तस्मिन् स शरीरो नर ईश्वरः ॥१-६०-१५॥
Vālmīki 1.60.16
दिवम् जगाम काकुत्स्थ मुनीनाम् पश्यताम् तदा ।स्वर्ग लोकम् गतम् दृष्ट्वा त्रिशंकुम् पाक शासनः ॥१-६०-१६॥
Vālmīki 1.60.17
सह सर्वैः सुर गणैः इदम् वचनम् अब्रवीत् ।त्रिशंको गच्छ भूयः त्वम् न असि स्वर्ग कृत आलयः ॥१-६०-१७॥
Vālmīki 1.60.18
गुरु शाप हतो मूढ पत भूमिम् अवाग् शिराः ।एवम् उक्तो महेन्द्रेण त्रिशंकुः अपतत् पुनः ॥१-६०-१८॥
Vālmīki 1.60.19
विक्रोशमानः त्राहि इति विश्वामित्रम् तपो धनम् ।तत् श्रुत्वा वचनम् तस्य क्रोशमानस्य कौशिकः ॥१-६०-१९॥
Vālmīki 1.60.20
रोषम् आहारयत् तीव्रम् तिष्ठ तिष्ठ इति च अब्रवीत् ।ऋषि मध्ये स तेजस्वी प्रजापतिः इव अपरः ॥१-६०-२०॥
Vālmīki 1.60.21
सृजन् दक्षिण मार्गस्थान् सप्त ऋषीन् अपरान् पुनः ।नक्षत्र वंश परंपरम् असृजत् क्रोध मूर्छितः ॥१-६०-२१॥
Vālmīki 1.60.22
दक्षिणाम् दिशम् आस्थाय मुनि मध्ये महायशाः ।सृष्ट्वा नक्षत्र वंशम् च क्रोधेन कलुषी कृतः ॥१-६०-२२॥
Vālmīki 1.60.23
अन्यम् इंद्रम् करिष्यामि लोको वा स्यात् अनिंद्रकः ।दैवतानि अपि स क्रोधात् स्रष्टुम् समुपचक्रमे ॥१-६०-२३॥
Vālmīki 1.60.24
ततः परम संभ्रान्ताः स ऋषि संघाः सुर असुराः ।विश्वामित्रम् महात्मानम् ऊचुः स अनुनयम् वचः ॥१-६०-२४॥
Vālmīki 1.60.25
अयम् राजा महाभाग गुरु शाप परिक्षतः ।स शरीरो दिवम् यातुम् न अर्हति एव तपो धन ॥१-६०-२५॥
Vālmīki 1.60.26
तेषाम् तत् वचनम् श्रुत्वा देवानाम् मुनि पुंगवः ।अब्रवीत् सु महत् वाक्यम् कौशिकः सर्व देवताः ॥१-६०-२६॥
Vālmīki 1.60.27
स शरीरस्य भद्रम् वः त्रिहन्कोः अस्य भूपतेः ।आरोहणम् प्रतिज्ञातम् न अनृतम् कर्तुम् उत्सहे ॥१-६०-२७॥
Vālmīki 1.60.28
स्वर्गो अस्तु स शरीरस्य त्रिशंकोः अस्य शाश्वतः ।नक्षत्राणि च सर्वाणि मामकानि ध्रुवाणि अथ ॥१-६०-२८॥
Vālmīki 1.60.29
यावत् लोका धरिष्यन्ति तिष्ठन्ति एतानि सर्वशः ।यत् कृतानि सुराः सर्वे तत् अनुज्ञातुम् अर्हथ ॥१-६०-२९॥
Vālmīki 1.60.30
एवम् उक्ताः सुराः सर्वे प्रति ऊचुः मुनि पुंगवम् ।एवम् भवतु भद्रम् ते तिष्ठन्तु एतानि सर्वशः ॥१-६०-३०॥
Vālmīki 1.60.31
गगने तानि अनेकानि वैश्वानर पथात् बहिः ।नक्षत्राणि मुनि श्रेष्ठ तेषु ज्योतिःषु जाज्वलन् ॥१-६०-३१॥
Vālmīki 1.60.32
अवाग् शिराः त्रिशंकुः च तिष्ठतु अमर संनिभः ।अनुयास्यन्ति च एतानि ज्योतीन्षि नृप सत्तमम् ॥१-६०-३२॥
Vālmīki 1.60.33
कृतार्थम् कीर्तिमन्तम् च स्वर्ग लोक गतम् यथा ।विश्वामित्रः तु धर्मात्मा सर्व देवैः अभिष्टुतः ॥१-६०-३३॥
Vālmīki 1.60.34
ऋषि मध्ये महातेजा बाढम् इति आह देवताः ।ततो देवा महात्मानो ऋषयः च तपो धनाः ।जग्मुः यथा आगतम् सर्वे यज्ञस्य अन्ते नरोत्तम ॥१-६०-३४॥

Navigation

🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷