🪷 बालकाण्ड · Sarga 59
Bāla-Kāṇḍa · The Book of Childhood · Sarga 59 · 22 ślokas
Vālmīki Detail Source-Anchor Spine
This sarga page exposes the exact local source route, parent Kāṇḍa, Rāma janma proof anchors where applicable, and the wider Vālmīki/Rāma source spine.
Vālmīki 1.59local sarga route with all Sanskrit ślokasBāla-Kāṇḍaparent Kāṇḍa sarga index/valmiki-ramayanamaster index for the 7 Kāṇḍas and 22,742 ślokasBāla 1.18Rāma-janma sarga and primary birth-spec anchorVālmīki 1.18.8first Rāma-janma astronomical śloka routeVālmīki 1.18.15closing verse of the janma-spec rangeVālmīki 2.26.9Bṛhaspati-Puṣya coronation-eve witness routeVālmīki 6.93.65war-window Krishna-pakṣa timing witnessVālmīki 6.103Rāvaṇa-vadha anchor doorway for the year+41 witness/ramaRāma-Krishna non-dual singularity and three-anchor proof surface/chart/ramapublished Rāma janma-kuṇḍalī output for the 1,626,102 BCE claimRāma janma dayreader-visible pañchāṅga/day output for the birth anchor/computational-moatSūrya-Siddhānta deep-time verification boundary/festival/rama-navamiCaitra Śukla Navamī festival mūrti-page/ramcharitamanasTulsidās bhakti voice of the same Rāma-līlāRāmopākhyānaVyāsa's Rāma-kathā inside the Mahābhārata/binduDiamond of Darśanas · Rāma/Krishna as one Bindu aperture/philosophyConstitutional Principles and Rāma-Krishna recognition
🪷 The Ślokas · canonical Devanāgarī Sanskrit yathārtha
उक्त वाक्यम् तु राजानम् कृपया कुशिक आत्मजः ।अब्रवीत् मधुरम् वाक्यम् साक्षात् चण्डालताम् गतम् ॥१-५९-१॥
इक्ष्वाको स्वागतम् वत्स जानामि त्वाम् सुधार्मिकम् ।शरणम् ते भविष्यामि मा भैषीः नृप पुंगव ॥१-५९-२॥
अहम् आमंत्रये सर्वान् महर्षीन् पुण्य कर्मणः ।यज्ञ साह्य करान् राजन् ततो यक्ष्यसि निर्वृतः ॥१-५९-३॥
गुरु शाप कृतम् रूपम् यत् इदम् त्वयि वर्तते ।अनेन सह रूपेण स शरीरो गमिष्यसि ॥१-५९-४॥
हस्त प्राप्तम् अहम् मन्ये स्वर्गम् तव नरेश्वर ।यः त्वम् कौशिकम् आगम्य शरण्यम् शरणागतः ॥१-५९-५॥
एवम् उक्त्वा महातेजाः पुत्रान् परम धार्मिकान् ।व्यादिदेश महाप्राज्ञान् यज्ञ संभार कारणात् ॥१-५९-६॥
सर्वान् शिष्यान् समाहूय वाक्यम् एतत् उवाच ह ।सर्वान् ऋषि वरान् वशिष्ठान् आनयध्वम् मम आज्ञया ॥१-५९-७॥
स शिष्यान् सुहृदः चैव स ऋत्विजः सुबहु श्रुतान् ।यत् अन्यो वचनम् ब्रूयात् मत् वाक्य बल चोदितः ॥१-५९-८॥
तत् सर्वम् अखिलेन उक्तम् मम आख्येयम् अनादृतम् ।तस्य तत् वचनम् श्रुत्वा दिशो जग्मुः तत् आज्ञया ॥१-५९-९॥
आजग्मुः अथ देशेभ्यः सर्वेभ्यो ब्रह्म वादिनः ।ते च शिष्याः समागम्य मुनिम् ज्वलित तेजसम् ॥१-५९-१०॥
ऊचुः च वचनम् सर्वे सर्वेषाम् ब्रह्म वादिनाम् ।श्रुत्वा ते वचनम् सर्वे समायान्ति द्विजातयः ॥१-५९-११॥
सर्व देशेषु च अगच्छन् वर्जयित्वा महाउदयम् ।वासिष्ठम् तत् शतम् सर्वम् क्रोध पर्याकुल अक्षरम् ॥१-५९-१२॥
यथा आह वचनम् सर्वम् शृणु त्वम् मुनि पुंगव ।क्षत्रियो याजको यस्य चण्डालस्य विशेषतः ॥१-५९-१३॥
कथम् सदसि भोक्तारो हविः तस्य सुर ऋषयः ।ब्राह्मणा वा महात्मानो भुक्त्वा चण्डाल भोजनम् ॥१-५९-१४॥
कथम् स्वर्गम् गमिष्यन्ति विश्वामित्रेण पालिताः ।एतत् वचनम् नैष्ठुर्यम् ऊचुः संरक्त लोचनाः ॥१-५९-१५॥
वासिष्ठा मुनि शार्दूल सर्वे सह महोदयाः ।तेषाम् तत् वचनम् श्रुत्वा सर्वेषाम् मुनि पुंगवः ॥१-५९-१६॥
क्रोध संरक्त नयनः स रोषम् इदम् अब्रवीत् ।यत् दूषयन्ति अदुष्टम् माम् तप उग्रम् संआस्थितम् ॥१-५९-१७॥
भस्मी भूता दुरात्मानो भविष्यन्ति न संशयः ।अद्य ते काल पाशेन नीता वैवस्तव क्षयम् ॥१-५९-१८॥
सप्त जाति शतानि एव मृतपाः सन्तु सर्वशः ।श्व मांस नियत आहारा मुष्टिका नाम निर्घृणाः ॥१-५९-१९॥
विकृताः च विरूपाः च लोकान् अनुचरन्तु इमान् ।महोदयः च दुर्बुद्धिः माम् अदूष्यम् हि अदूषयत् ॥१-५९-२०॥
दूषितः सर्व लोकेषु निषादत्वम् गमिष्यति ।प्राण अतिपात निरतो निरनुक्रोशताम् गतः ॥१-५९-२१॥
दीर्घ कालम् मम क्रोधात् दुर्गतिम् वर्तयिष्यति ।एतावत् उक्त्वा वचनम् विश्वामित्रो महातपाः ।विरराम महातेजा ऋषि मध्ये महामुनिः ॥१-५९-२२॥
Navigation
- ← Previous: Bāla-Kāṇḍa Sarga 58
- Next: Bāla-Kāṇḍa Sarga 60 →
- Bāla-Kāṇḍa sarga-index
- Vālmīki Rāmāyaṇa master-index
- /rama · the non-dual singularity
🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷