🪷 बालकाण्ड · Sarga 58
Bāla-Kāṇḍa · The Book of Childhood · Sarga 58 · 22 ślokas
🪷 Devanāgarī Ślokas
ततः संतप्त हृदयः स्मरन् निग्रहम् आत्मनः ।विनिःश्वस्य विनिःश्वस्य कृत वैरो महात्मना ॥१-५८-१॥
स दक्षिणाम् दिशम् गत्वा महिष्या सह राघव ।तताप परमम् घोरम् विश्वामित्रो महातपाः ॥१-५८-२॥
फल मूल अशनो दान्तैः चचार महत् तपः ।अथ अस्य जज्ञिरे पुत्राः सत्य धर्म परायणाः ॥१-५८-३॥
हविष्पन्दो मधुष्यन्दो दृढनेत्रो महारथः ।पूर्णे वर्ष सहस्रे तु ब्रह्मा लोक पितामहः ॥१-५८-४॥
अब्रवीत् मधुरम् वाक्यम् विश्वामित्रम् तपो धनम् ।जिता राजर्षि लोकाः ते तपसा कुशिक आत्मज ॥१-५८-५॥
अनेन तपसा त्वाम् हि राज ऋषिर् इति विद्महे ।एवम् उक्त्वा महातेजा जगाम सह दैवतैः ॥१-५८-६॥
त्रिविष्टपम् ब्रह्म लोकम् लोकानाम् परम ईश्वरः ।विश्वामित्रो अपि तत् श्रुत्वा ह्रिया किंचित् अवाङ्मुखः ॥१-५८-७॥
दुःखेन महता आविष्टः स मन्युः इदम् अब्रवीत् ।तपः च सुमहत् तप्तम् राज ऋषिर् इति माम् विदुः ॥१-५८-८॥
देवाः स ऋषि गणाः सर्वे न अस्ति मन्ये तपः फलम् ।एवम् निश्चित्य मनसा भूय एव महातपाः ॥१-५८-९॥
तपः चचार काकुत्स्थ परमम् परम आत्मवान् ।एतस्मिन् एव काले तु सत्य वादी जित इन्द्रियः ॥१-५८-१०॥
त्रिशंकुः इति विख्यात इक्ष्वाकु कुल वर्धनः ।तस्य बुद्धिः समुत्पन्ना यजेयम् इति राघव ॥१-५८-११॥
गच्छेयम् स्व शरीरेण देवानाम् परमाम् गतिम् ।वसिष्ठम् स समाहूय कथयामास चिन्तितम् ॥१-५८-१२॥
अशक्यम् इति च अपि उक्तो वसिष्ठेन महात्मना ।प्रत्याख्यातो वसिष्ठेन स ययौ दक्षिणाम् दिशम् ॥१-५८-१३॥
ततः तत् कर्म सिद्धि अर्थम् पुत्रान् तस्य गतो नृपः ।वासिष्ठा दीर्घ तपसः तपो यत्र हि तेपिरे ॥१-५८-१४॥
त्रिशंकुः सुमहातेजाः शतम् परम भास्वरम् ।वसिष्ठ पुत्रान् ददृशे तप्यमानान् यशस्विनः ॥१-५८-१५॥
सो अभिगम्य महात्मानः सर्वान् एव गुरोः सुतान् ।अभिवाद्य आनुपूर्व्येण ह्रिया किंचित् अवाङ्मुखः ॥१-५८-१६॥
अब्रवीत् स महात्मनः सर्वान् एव कृतांजलिः ।शरणम् वः प्रपद्ये अहम् शरण्यान् शरणागतः ॥१-५८-१७॥
प्रत्याख्यातो अस्मि भद्रम् वो वसिष्ठेन महात्मना ।यष्टु कामो महायज्ञम् तत् अनुज्ञातुम् अर्थथ ॥१-५८-१८॥
गुरु पुत्रान् अहम् सर्वान् नमस् कृत्य प्रसादये ।शिरसा प्रणतो याचे ब्राह्मणान् तपसि स्थितान् ॥१-५८-१९॥
ते माम् भवन्तः सिद्धि अर्थम् याजयंतु समाहिताः ।स शरीरो यथा अहम् वै देव लोकम् अवाप्नुयाम् ॥१-५८-२०॥
प्रत्याख्यातो वसिष्ठेन गतिम् अन्याम् तपो धनाः ।गुरु पुत्रान् ऋते सर्वान् न अहम् पश्यामि कांचन ॥१-५८-२१॥
इक्ष्वाकूणाम् हि सर्वेषाम् पुरोधाः परमा गतिः ।तस्मात् अनंतरम् सर्वे भवन्तो दैवतम् मम ॥१-५८-२२॥
Navigation
- ← Previous: Bāla-Kāṇḍa Sarga 57
- Next: Bāla-Kāṇḍa Sarga 59 →
- Bāla-Kāṇḍa sarga-index
- Vālmīki Rāmāyaṇa master-index
- /rama · the non-dual singularity
Continue with Bāla-Kāṇḍa, the seven-Kāṇḍa reading index, or the Rāmcharitamānas companion reading. Source and rights documentation remains available in the editorial standards.
🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷